रेणुकाकवचं भैरवरुद्रयामाले

{॥ रेणुकाकवचं भैरवरुद्रयामाले ॥}
श्री देव्युवाच ।
जमदग्निप्रियां देवीं रेणुकामेकमातरं
सर्वारम्भे प्रसीद त्वं नमामि कुलदेवताम् ।
अशक्तानां प्रकारो वै कथ्यतां मम शङ्कर
पुरश्चरणकालेषु का वा कार्या क्रियापरा ॥

श्री शङ्कर उवाच ।
विना जपं विना दानं विना होमं महेश्वरि ।
रेणुका मन्त्रसिद्धिस्यान्नित्यं कवचपाठतः ॥

त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ।
सर्वसिद्धिकरं लोके सर्वराजवशङ्करम् ॥

डाकिनी-भूतवेताल-ब्रह्मराक्षस-नाशनम् ।
पुरा देवासुरे युध्दे माहिषे लोके विग्रहे ॥

ब्रह्मणा निर्मिता रक्षा साधकानां सुखाय च ।
मन्त्रवीर्यं समोपेतं भूतापस्मार-नाशनम् ॥

देवैर्देवस्य विजये सिद्धेः खेचर-सिध्दये ।
दिवा रात्रमधीतं स्यात् रेणुका कवचं प्रिये ॥

वने राजगृहे युद्धे ब्रह्मराक्षससङ्कुले ।
बन्धने गमने चैव कर्मणि राजसङ्कटे ॥

कवचस्मरणादेव सर्वं कल्याणमश्नुते ।
रेणुकायाः महादेव्याः कवचं शृणु पार्वति ॥

यस्य स्मरणमात्रेण धर्मकामार्थभाजनम् ।
रेणुका-कवचस्यास्य ऋषिर्ब्रह्मा विधीयते ॥

छन्दश्चित्राह्वयं प्रोक्तं देवता रेणुका स्मृता ।
पृथ्वी बीजं रमा शक्तिः पुरुषार्थ-चतुष्टयम् ॥

विनियोगो महेशानि तदाकाले प्रकीर्त्तितः ( प्रकीर्तितः )।
ध्यात्वा देवीं महामायां जगन्मातरमम्बिकाम् ॥

पूर्णकुम्भसमायुक्तां मुक्ताहारविराजिताम् ।
स्वर्णालङ्कारसंयुक्तां स्वर्णसिंहासनस्थिताम् ॥

मस्तके गुरुपादाब्जं प्रणम्य कवचं पठेत् ।
इन्द्रो मां रक्षतु प्राच्यां वह्नौ वह्निः सुरेश्वरि ॥

याम्यां यमः सदा पातु नैरृत्यां निरृतिस्तथा ।
पश्चिमे वरुणः पातु वायव्ये वायुदेवता ॥

धनश्चोत्तरे पातु ईशान्यामीश्वरो विभुः ।
ऊर्ध्वं ब्रह्मा सदा पातु अनन्तोऽधः सदाऽवतु ॥

पञ्चान्तको महेन्द्रश्च वामकर्णेन्दुभूषितः ।
प्रणवं पुटितं कृत्वा तत्कृत्वा प्रणवं पुनः ॥

समुच्चार्य ततो देवीकवचं प्रपठे तथा ।
ब्रह्माणी मे शिरः पातु नेत्रे पातु महेश्वरी ॥

वैष्णवी नासिकायुग्मं कर्णयोः कर्णवासिनी ।
कण्ठं मातु महालक्ष्मीर्हृदयं चण्डभैरवी ॥

बाहू मे बगला पातु करौ महिषमर्दिनी ।
कराङ्गुलिषु केशेषु नाभिं मे चर्चिकाऽवतु ॥

गुह्यं गुह्येश्वरी पातु ऊरू पातु महामतिः ।
जानुनी जननी रामा गुल्फयोर्नारसिंहिका ॥

वसुन्धरा सदा पादौ पायात्पादाङ्गुलीषु च ।
रोमकूपे मेदमज्जा रक्त-मांसास्थिखण्डिके ॥

रेणुका जननी पातु महापुरनिवासिनी ।
रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ॥

पूर्वं बीजं समुच्चार्य सम्पुटक्रमयोगतः ।
मुद्रां वध्वा महेशानि गोलं न्यासं समाचरेत् ॥

अस्य श्रीरेणुका-कवचमन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः रेणुका देवता
लं बीजं रेणुका प्रीत्यर्थे गोलन्यासे विनियोगः ।
ॐ रां अङ्गुष्ठाभ्यां नमः ।
ॐ रीं तर्जनीभ्यां नमः ।
ॐ रूं मध्यमाभ्यां नमः ।
ॐ रैं अनामिकाभ्यां नमः ।
ॐ रौं कनिष्ठिकाभ्यां नमः ।
ॐ रः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ।
ॐ पं नमः मूर्ध्नि ।
ॐ फं नमः दक्षिणनेत्रे ।
ॐ बं नमः वामनेत्रे ।
ॐ भं नमः दक्षिणनासापुटे ।
ॐ मं नमः वामनासापुटे ।
ॐ यं नमः दक्षिणकर्णे ।
ॐ रं नमः वामकर्णे ।
ॐ लं नमः मुखे ।
ॐ वं नमः गुदे ।
ब्रह्माणी ब्रह्मभागे च शिरो धरणि धारिणी ।
रक्ष रक्ष महेशानि सदा मां पाहि पार्वती ॥

भैरवी त्रिपुरा बाला वज्रा मे तारिणी पऱा ।
रक्ष रक्ष महेशानि सदा मां पाहि पार्वती ॥

एषा मेऽङ्गं सदा पातु पार्वती हरवल्लभा ।
महिषासुरसंहर्त्री विधातृवरदायिनी ॥

मस्तके पातु मे नित्यं महाकाली प्रसीदतु ।
आकाशे ताडका पातु पाताले वह्निवासिनी ॥

वामदक्षिणयोश्चापि कालिका च करालिका ।
धनुर्बाणधरा चैव खड्ग-खट्वाङ्ग-धारिणी ॥

सर्वाङ्गं मे सदा पातु रेणुका वरदायिनी ।
रां रां रां रेणुके मातर्भार्गवोद्धारकारिणी ॥

राजराजकुलोद्भूते संग्रामे शत्रुसङ्कटे ।
जलाप्नाव्ये व्याघ्रभये तथा राजभयेऽपि च ।
श्मशाने सङ्कटे घोरे पाहि मां परमेश्वरि ॥

रूपं देहि यशो देहि द्विषतां नाशमेव च ।
प्रसादः स्याच्छुभो मातर्वरदा रेणुके भव ॥

ऐं महेशि महेश्वरि चण्डिमे
भुजङ्गधारिणि शङ्खकपालिके ।
कनक-कुण्डल-मण्डल-भाजने
वपुरिदञ्च पुनीहि महेश्वरि ॥

इदं श्रीकवचं देव्याः रेणुकाया महेश्वरि ।
त्रिकालं यः पठेन्नित्यं तस्य सिद्धिः प्रजायते ॥

ग्रहणेऽर्कस्य चन्द्रस्य शुचिः पूर्वमुपोषितः ।
शतत्रयावृत्तिपाठाद्मन्त्रसिद्धिः प्रजायते ॥

नदीसङ्गममासाद्य नाभिमात्रोदकस्थितः ।
रविमण्डलमुद्वीक्ष्य जले तत्र स्थितां शिवाम् ॥

विचिन्त्य मण्डले देवी कार्ये सिद्धिर्भवेद्ध्रुवम् ।
घटं तव प्रतिष्ठाप्य विभूतिस्तत्र वेशयेत् ।
दीपं सर्षपतैलेन कवचं त्रिः पठेत्तदा ॥

भूतप्रेत-पिशाचाश्च डाकिन्यो यातुधानिका ।
सर्व ते नाशमायान्ति कवचस्मरणात्प्रिये ॥

धनं धान्यं यशो मेधां यत्किञ्चिन्मनसेप्सितम् ।
कवचस्मरणादेव सर्वमाप्नोति नित्यशः ॥

इति श्री मातृसंस्थाने भैरवरुद्रयामले रेणुकाकल्पे
पञ्चमं पटलं सम्पूर्णम् ॥


Encoded and proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com

Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Renuka Kavacham 1 Lyrics in Devanagari PDF
% File name : reNukAkavacham1.itx
% Category : kavacha
% Location : doc\_devii
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Proofread by : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Description-comments : bhairavarudrayAmAle mAtRisaMsthAne panchamaM paTalaM from shrIreNukAtantram, Pitambarapeeth, Datia
% Latest update : May 18, 2013
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website