रेणुकाकवचम् ३ डामरेश्वरतन्त्रे ईश्वरपार्वतीसंवादे

{॥ रेणुकाकवचम् ३ डामरेश्वरतन्त्रे ईश्वरपार्वतीसंवादे ॥}
॥ श्री गणेशाय नमः ॥
श्री देव्युवाच
भगवन् ब्रूहि कवचं भुक्ति-मुक्ति-प्रदायकम् ।
त्रैलोक्यमोहनं नाम कृपया मे जगद्गुरो ॥

ईश्वर उवाच
शृणु देवि वरारोहे कवचं ब्रह्मरूपिणि ।
ब्रह्मेश-प्रमुखाधीश-नारायण-मुखाच्युतम् ॥

कवचं रेणुकादेव्याः यः पठेत्प्रयतो नरः ।
तच्छ्रुत्वा पठनाद्ब्रह्मा सृष्टिकर्ताऽभवत्प्रभुः ॥

कृष्णो दूर्वादलश्यामो देवकी गर्भसम्भवः ।
ह्यत्पद्मे रेणुकां ध्यात्वा ऋद्धि-सिद्धि-फलप्रदाम् ॥

सर्वाः श्यामा भवन्त्येताः जनार्दन-विभूतयः ।
एवं देवगणाः सर्वे सर्वैश्वर्यमवाप्नुयुः ॥

शिष्याय गुरुभक्ताय साधकाय प्रकाशयेत् ।
यो ददात्यन्यशिष्याय शठाय पशुरूपिणे ॥

पञ्चत्वं जायते तस्य ह्यथवा वातुलो भवेत् ।
कवचस्यास्य सुभगे योगी रुद्र ऋषिः स्वयम् ॥

विराट् छन्दो निगदितं देवता रेणुका परा ।
धर्मार्थकाममोक्षेषु विनियोग उदाहृतः ॥

क्लीं क्लीं क्लीं मे शिरः पातु भालं नेत्रयुगं तथा ।
रेणुका नेत्रयुगलं क्लीं क्लीं नासापुटद्वयम् ॥

राममाता च मे पातु सजिह्वां मुखमेव च ।
भुजयुग्मं तथा पातु क्लीं क्लीं मे त्र्यक्षरात्मिका ॥

कण्ठं च चिबुकं चैव रक्षेन्मे जगदम्बिका ।
स्वाहाऽवतु ब्रह्मरन्ध्रं महापुरनिवासिनी ॥

क्लीं क्लीं मे रेणुका पश्चात् रक्षेन्मे पादमेव च ।
क्लीं क्लीं मे हृदयं पातु क्लीं क्लीं मे पार्श्वमेव च ॥

क्लीं क्लीं मे नाभिकमलं क्लीं क्लीं मे पृष्ठमेव च ।
क्लीं क्लीं मे द्विफडन्ते च स्वाहेति परिकीर्तिता ॥

एकाक्षरी महाविद्या सर्वाङ्गं मे सदाऽवतु ।
प्राच्यां रक्षतु मां देवि आग्नेयां मातृका तथा ॥

रेणुका दक्षिणे रक्षेद्राममाता च नैरृत्ये ।
विरोधिनी प्रतीच्यां मे वायव्यां जगद्म्बिका ॥

उग्रा रक्षेदुदीच्यां च ईशान्यां मां प्रभावती ।
दीप्ता रक्षेत्त्वधोभागे नीला चैवोर्ध्वदेशिके ॥

पुत्रमित्रकलत्रादीन् देवी रक्षतु सर्वदा ।
इति ते कथितं देवि सर्वमन्मौघविग्रहम् ॥

त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपिणी ।
ब्रह्मेश-प्रमुखाधीश-नारायण-मुखाच्युतम् ॥

कवचं रेणुका देव्याः यः पठेत्प्रयतो नरः ।
स सर्वसिद्धमाप्नोति सत्यमेव न संशयः ॥

गाने तु तुम्बरुः साक्षाद्दाने वै वासवो यथा ।
दत्तात्रेयसमो ज्ञाने गङ्गेव मलनाशकः ॥

कामदेवसमो रूपे वायुतुल्यः पराक्रमे ।
स भवेत्साधकः श्रेष्ठः सत्यं सत्यं मयोदितम् ॥

न हन्यते गतिस्तस्य वायोरिव नभस्तले ।
शतमष्टोत्तरं चास्य पुरश्चर्याविधिस्मृतः ॥

हवनं तद्दशांशेन कृत्वा तत्साधयेद्भुवम् ।
यदि चेत् सिद्धकवचः शिवतुल्यो भवेत्स्वयम् ॥

पठनाद्धारणात्सर्वा पृथ्वी काशीपुरीसमा ।
यत्र कुत्र विपन्नोऽपि वाराणस्यां मृतो भवेत् ॥

न मन्त्रो नौषधं तस्य नाकालमरणं तथा ।
भवत्येव महेशानि कवचे हृदि संस्थिते ॥

अश्वमेधसहस्राणि वा जपेय शतानि च ।
महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ॥

कलां नार्हन्ति तान्येव सकृदुच्चारणादतः ।
पुष्पाञ्जलिं रेणुकायै मूलेनैव सदाऽर्पयेत् ॥

शतवर्षसहस्रायाः पूजायाः फलमाप्नुयात् ।
लिखित्वा भूर्जपत्रे तु वध्नीयात्सर्वकार्यके ॥

इदं कवचमज्ञात्वा यो जपेद्रेणुकां शिवाम् ।
शतलक्षं प्रजप्त्वाऽपि न मन्त्रः सिद्धिदायकः ॥

इति श्रीडामरेश्वरतन्त्रे ईश्वरपार्वतीसंवादे रेणुकाकवचं समाप्तम् ॥


Encoded and proofread by Kaushal S. Kaloo kaushalskaloo at gmail. com

Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Renuka Kavacham 3 Lyrics in Devanagari PDF
% File name : reNukAkavacham3.itx
% Category : kavacha
% Location : doc\_devii
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Proofread by : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Description-comments : shrIDAmareshvaratantre IshvarapArvatIsaMvAde from shrIreNukAtantram, Pitambarapeeth, Datia
% Latest update : May 18, 2013
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website