आगमरहस्ये रेणुकास्तोत्रम्

{॥ आगमरहस्ये रेणुकास्तोत्रम् ॥}
श्रीगणेशाय नमः ।
श्रीरेणुकायै नमः ।
भैरवी उवाच
देव देव महेशान महादेव दयानिधे ।
यत्त्वया पठ्यते नाथ रेणुकास्तोत्रमुत्तमम् ॥

ह्रीं रेणुकायै विद्महे राममात्रे च धीमहि । तन्नो गौरी प्रचोदयात् ॥

इति श्रीरेणुकागायत्रीमन्त्रः ।
तदहं श्रोतुमिच्छामि सर्वकामसमृद्धिदम् ।
सर्वार्थसाधकं दिव्यं साधकनां सुखावहम् ॥

महाभैरव उवाच
शृणु देवि प्रवक्ष्यामि रेणुका स्तोत्रमुत्तमम् ।
यस्य स्मरणमात्रेण सर्वान् कामानवाप्नुयात् ॥

स्तोत्रस्यास्य ऋषिः सोऽहं छन्दोऽनुष्टुप्प्रकीर्तितम् ।
देवता तु पराशक्तिः रेणुका जगदम्बिका ॥

न्यासं जालं तथा ध्यानं मूलमन्त्रेण वै चरेत् ।
ध्यानम्
मध्ये बद्धमयूरपिच्छनिकरां श्यामां प्रबालाधरां
गुञ्जाहारधरां धनुष्शरकरां नीलाम्बरामम्बराम् ।
शृङ्गीवादनतत्परां सुनयनां मूर्द्धालकैर्बर्बरां
भिल्लीवेषधरां नमामि शबरीं त्वामेकवीरां पराम् ॥

मानसे योनिमुद्रां प्रदर्श्य /-/-
ॐ ह्रीङ्काररूपिणी देवी रेणुका सुखदायिनी ।
क्लीङ्काररूपिणी श्रद्धा सिद्धिसौभाग्यदायिनी ॥

वाग्भवा कामरूपा च कामकल्लोलमालिनी ।
षड्बीजा च त्रिबीजा च नवबीजा न वा नवा ॥

नवभैरवपूज्या च नवमी नव वल्लभा ।
नमस्तस्यै नमस्तस्यै रेणुकायै नमो नमः ॥

चैतन्यरूपिणी विद्या निर्गुणा गुणपारगा ।
नमस्तस्यै नमस्तस्यै रेणुकायै नमो नमः ॥

प्रपञ्चरहिता पृथ्वी लक्षणातीतविग्रहा ।
नमस्तस्यै नमस्तस्यै रेणुकायै नमो नमः ॥

या कामधेनुः सकलार्थदात्री सर्वेश्वरी सर्वभयापहन्त्री ।
या सच्चिदानन्दकरी जनानां सा रेणुका पातु निरन्तरं माम् ॥


या राममाता रमणीयरूपा रमाधवाद्यैरभिपूजितान्ध्रिः ।
नित्योत्सवा निर्जरवन्दिता च सा रेणुका पातु निरन्तरं माम् ॥

या कालरात्रिः कलिकल्मषघ्नी कल्याणशैलामलवासवासा ।
योगेश्वराराधितपादपद्मा सा रेणुका पातु निरन्तरं माम् ॥

या भर्गपत्नी भवरोगहन्त्री भक्तेश्वरी भक्तजनाभिनन्दिनी ।
भव्या भवानी भवपूजिता या सा रेणुका पातु निरन्तरं माम् ॥

या एकलाऽनेकशरीरधारिणी दिव्याम्बरा दिव्यसुरत्वपूजिता ।
शिवाऽपरा सर्वसुखैकभूमिदा सा रेणुका पातु निरन्तरं माम् ॥

नमस्ते राममात्रे ते नमः कल्याणदायिनी ।
नमः सकलसङ्घात्र्यै रेणुकायै नमोऽस्तु ते ॥

ब्रह्मरूपे नमस्तेऽस्तु नमस्ते शिवरूपिणी ।
विष्नुरूपे नमस्तेऽस्तु रेणुकायै नमोऽस्तु ते ॥

सर्वशक्त्यै नमस्तेऽस्तु सर्वव्यापिणि सर्वदा ।
सर्वार्थसाधिके नित्यं रेणुकायै नमोऽस्तु ते ॥

नमो नमस्ते भैरव्यै भवभीतिनिवारिणी ।
भवान्यै भक्तवश्यायै रेणुकायै नमोऽस्तु ते ॥

विश्वाधारे विश्वमये विश्वेश्वरविलासिनी ।
विश्वम्भरि विशालाक्षि रेणुकायै नमोऽस्तु ते ॥

कमले कमलावासे कमलोद्भवपूजिते ।
कामदे कामवरदे रेणुकायै नमोऽस्तु ते ॥

विश्वबीजे विराटायै विरजाम्बरधारिणि ।
यन्त्रेश्वरि महामाये रेणुकायै नमोऽस्तु ते ॥

निखिलनिगमगीते शम्भुवामाङ्कसंस्थे
शरणजनसुतारे तारमन्त्रादिरूढे ।
सुरवरमुनिवर्यैः पूजिते पात्रहस्ते
परमसुखसुखाब्धे रेणुके त्वं प्रसीद ॥

भैरव उवाच
रेणुकास्तोत्रमेतत्ते कथितं भुवनेश्वरि ।
सर्वकामप्रदं नॄणां सर्वारिष्टविनाशकृत् ॥

सर्वाभीष्टकरं दिव्यं पठनीयं प्रयत्नतः ।
इत्यागमरहस्ये वै भैरवेण समीरितम् ॥

इति श्र्यागमरहस्ये भैरवप्रोक्तं रेणुकस्तोत्रं सम्पूर्णम् ॥

अथ श्रीरेणुकामन्त्रः
अस्य श्रीरेणुकामन्त्रस्य श्रीरुद्र ऋषिः श्रीरेणुकादेवी देवता
विराट् छन्दः क्लीं बीजं श्रीरेणुकादेवी शक्तिः क्लीं कीलकं
ममाभीष्टसिद्धये जपे विनियोगः ॥

ध्यानम्
प्रफुल्लहारकेयूरकुण्डलादि विराजिताम् ।
प्रसन्नवदनां शान्तां श्रीदेवीं रेणुकां भजे ॥

मन्त्रः
१। क्लीं क्लीं क्लीं रेणुकादेव्यै नमः ।
२। क्लीं क्लीं क्लीं स्वाहा ।
३। क्लीं रेणुकायै स्वाहा ।
ध्यानम्
लोलल्यालिलसत्प्रफुल्लसुमनो जालोल्लसत्कानने
भिल्लीवेषमनङ्गवेगजनकं धृत्वा चलन्ती शनैः ।
लोलापाङ्गतरङ्गरङ्गसुदृशा सम्मोहयन्ती शिवं
चञ्चच्चञ्चलनूपुरध्वनियुता वर्वर्ति सर्वार्थदा ॥

॥ इति ॥

Encoded and proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com

Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Renuka Stotram 2 ( From Agama Rahasyam ) Lyrics in Devanagari PDF
% File name : reNukAstotramAgamarahasye.itx
% Location : doc\_devii
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Proofread by : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Latest update : June 18, 2013
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website