रेणुकास्तोत्रं श्रीवायुपुराणे श्रीपरशुरामकृतम्

{॥ रेणुकास्तोत्रं श्रीवायुपुराणे श्रीपरशुरामकृतम् ॥}
श्रीगणेशाय नमः ।
श्रीसरस्वत्यै नमः ।
श्रीगुरुभ्यो नमः ।
श्रीरेणुकाम्बायै नमः ।
ॐ नमः परमानन्दे सर्वदेवमयी शुभे ।
अकारादि-क्षकारान्तं मातृका मन्त्रमालिनी ॥ १॥

एकवीरे एकरूपे महारूपे अरूपिणि ।
अव्यक्ते व्यक्तिमापन्ने गुणातीते गुणात्मिके ॥ २॥

कमले कमलाभासे हृत्सच्चित्तरणिकालये ।
नाभिचक्रस्थिते देवि कुण्डली तन्तुरूपिणि ॥ ३॥

वीरमाता वीरबन्धा योगिनी समरप्रिये ।
वेदमाता वेदगर्भे विश्वगर्भे नमोऽस्तु ते ॥ ४ ॥

राममातर्नमस्तुभ्यं नमस्त्रैलोक्यरूपिणि ।
मह्यादिके पञ्चभूता जमदग्निप्रिये शुभे ॥ ५ ॥

यैस्तु भक्त्या स्तुता ध्याता अर्चयित्वाऽर्पिते शुभे ।
भोगमोक्षप्रदे देवि कामेश्वरि नमोऽस्तु ते ॥ ६॥

नमोऽस्तु ते निरालम्बे परमानन्दविग्रहे ।
पञ्चभूतात्मिके देवि भूतभाविवर्जिते ॥ ७॥

महारौद्रे महाकाये सृष्टिसंहारकारिणि ।
ब्रह्माण्डगोलकाकारे विश्वरूपे नमोऽस्तु ते ॥ ८॥

चतुर्भुजे खड्गहस्ते महाडमरुधारिणि ।
शिरःपात्रधरे देवि एकवीरे नमोऽस्तु ते ॥ ९॥

नीलाम्बरे नीलवर्णे मयूरपिच्छधारिणि ।
वनभिल्लधनुर्वामे दक्षिणे बाणधारिणि ॥ १०॥

रौद्रकाये महाकाये सहस्रार्जुनभञ्जनि ।
एकं शिरः पुरा स्थित्वा रक्तपात्रे च पूरितम् ॥ ११॥

मृतधारा पिबन्देवि रुधिरं दैत्यदेहजम् ।
रक्तवर्णे रक्तदन्ते खड्गलाङ्गलधारिणि ॥ १२॥

वामहस्ते च खट्वाङ्गं डमरुं चैव दक्षिणे ।
प्रेतवाहनके देवि-ऋषिपत्नी च देवते ॥ १३॥

एकवीरे महारौद्रे मालिनी विश्वभैरवि ।
योगिनी योगयुक्ता च महादेवी महेश्वरी ॥ १४॥

कामाक्षी भद्रकाली च हुङ्कारी त्रिपुरेश्वरी ।
रक्तवस्त्रे रक्तनेत्रे महात्रिपुरसुन्दरि ॥ १५॥

रेणुका सूनुयोगी च भक्तानामभयङ्करी ।
भोगलक्ष्मीर्योगलक्ष्मीर्दिव्यलक्ष्मीश्च सर्वदा ॥ १६॥

कालरात्रि महारात्रि मद्यमांसशिवप्रिये ।
भक्तानां श्रीपदे देवि लोकत्रयविमोहिनि ॥ १७॥

क्लीङ्कारी कामपीठे च ह्रीङ्कारी च प्रबोध्यता ।
श्रीङ्कारी च श्रिया देवि सिद्धलक्ष्मीश्च सुप्रभा ॥ १८॥

महालक्ष्मीश्च कौमारी कौबेरी सिंहवाहिनी ।
सिंहप्रेतासने देवि रौद्रि क्रूरावतारिणि ॥ १९॥

दैत्या नारी कुमारी च रौद्रदैत्यनिपातिनी ।
त्रिनेत्रा श्वेतरूपा च सूर्यकोटिसमप्रभा ॥ २०॥

खड्गिनी बाणहस्ता चारूढा महिषवाहिनी ।
महाकुण्डलिनी साक्षात् कङ्काली भुवनेश्वरी ॥ २१॥

कृत्तिवासा विष्णुरूपा हृदया देवतामया ।
देवमारुतमाता च भक्तमाता च शङ्करी ॥ २२॥

चतुर्भुजे चतुर्वक्त्रे स्वस्तिपद्मासनस्थिते ।
पञ्चवक्त्रा महागङ्गा गौरी शङ्करवल्लभा ॥ २३॥

कपालिनी देवमाता कामधेनुस्त्रयोगुणी ।
विद्या एकमहाविद्या श्मशानप्रेतवासिनी ॥ २४॥

देवत्रिगुणत्रैलोक्या जगत्त्रयविलोकिनी ।
रौद्रा वैतालि कङ्काली भवानी भववल्लभा ॥ २५॥

काली कपालिनी क्रोधा मातङ्गी वेणुधारिणी ।
रुद्रस्य न पराभूता रुद्रदेहार्द्धधारिणी ॥ २६॥

जया च विजया चैव अजया चापराजिता ।
रेणुकायै नमस्तेऽस्तु सिद्धदेव्यै नमो नमः ॥ २७॥

श्रियै देव्यै नमस्तेऽस्तु दीननाथे नमो नमः ।
जय त्वं देवदेवेशि सर्वदेवि नमोऽस्तु ते ॥ २८॥

देवदेवस्य जननि पञ्चप्राणप्रपूरिते ।
त्वत्प्रसादाय देवेशि देवाः क्रन्दन्ति विष्णवे ॥ २९॥

महाबले महारौद्रे सर्वदैत्यनिपातिनि ।
आधारा बुद्धिदा शक्तिः कुण्डली तन्तुरूपिणी ॥ ३०॥

षट्चक्रमणे देवि योगिनि दिव्यरूपिणि ।
कामिका कामरक्ता च लोकत्रयविलोकिनी ॥ ३१॥

महानिद्रा मद्यनिद्रा मधुकैटभभञ्जिनी ।
भद्रकाली त्रिसन्ध्या च महाकाली कपालिनी ॥ ३२॥

रक्षिता सर्वभूतानां दैत्यानां च क्षयङ्करी ।
शरण्यं सर्वसत्त्वानां रक्ष त्वं परमेश्वरि ॥ ३३॥

त्वामाराधयते लोके तेषां राज्यं च भूतले ।
आषाढे कार्तिके चैव पूर्णे पूर्णचतुर्दशी ॥ ३४॥

आश्विने पौषमासे च कृत्वा पूजां प्रयत्नतः ।
गन्धपुष्पैश्च नैवेद्यैस्तोषितां पञ्चभिः सह ॥ ३५॥

यं यं प्रार्थयते नित्यं तं तं प्राप्नोति निश्चितम् ।
तत्त्वं मे वरदे देवि रक्ष मां परमेश्वरि ॥ ३६॥

तव वामाङ्कितं देवि रक्ष मे सकलेश्वरि ।
सर्वभूतोदये देवि प्रसाद वरदे शिवे ॥ ३७॥

श्रीदेव्युवाच
वरं ब्रूहि महाभाग राज्यं कुरु महीतले ।
मामाराध्यते लोके भयं क्वापि न विद्यते ॥ ३८॥

मम मार्गे च आयान्ती भीर्देवी मम सन्निधौ ।
अभार्यो लभते भार्यां निर्धनो लभते धनम् ॥ ३९॥

विद्यां पुत्रमवाप्नोति शत्रुनाशं च विन्दति ।
अपुत्रो लभते पुत्रान् बद्धो मुच्येत बन्धनात् ॥ ४०॥

कामार्थी लभते कामं रोगी आरोग्यमाप्नुयात् ।
मम आराधनं नित्यं राज्यं प्राप्नोति भूतले ॥ ४१॥

सर्वकार्याणि सिध्यन्ति प्रसादान्मे न संशयः ।
सर्वकार्याण्यवाप्नोति दीर्घायुश्च लभेत्सुखी ॥ ४२॥

श्रीपरशुराम उवाच
अत्र स्थानेषु भवतां अभयं कुरु सर्वदा ।
यं यं प्रार्थयते नित्यं तं तं प्राप्नोति निश्चितम् ॥ ४३॥

प्रयागे पुष्करे चैव गङ्गासागरसङ्गमे ।
स्नानं च कुरुते नित्यं नित्यं च चरणोदके ॥ ४४॥

इदं स्तोत्रं पठेन्नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ।
सर्वान् कामानवाप्नोति प्राप्यते परमं पदम् ॥ ४५॥

इति श्रीवायुपुराणे परशुरामकृतं श्रीरेणुकास्तोत्रं सम्पूर्णम् ॥

॥ श्रीरेणुकार्पणमस्तु ॥

Encoded and proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com
Proofread by PSA Easwaran psaeaswaran at gmail.com

Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Renuka Stotram 4 ( By Parashurama ) Lyrics in Devanagari PDF
% File name : reNukAstotramvAyupurANa.itx
% Location : doc\_devii
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Proofread by : Kaushal S. Kaloo kaushalskaloo at gmail.com, PSA Easwaran psaeaswaran at gmail.com
% Description-comments : vAyuprANa location is not known
% Latest update : June 22, 2013
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website