लघुषोडशार्णकलाविलासः

{॥ लघुषोडशार्णकलाविलासः ॥}
कल्याणं जगतामहं कथमुमे ध्यायामि सच्चिद्वपु-
स्त्रय्यन्तैर्मनसापि ते सह चिरं मृग्यापि यत्नेन च ।
ज्ञातुम् नो वदितुं शक्यमभवद् यस्मात् तथा भक्तितः
श्रीचक्राग्रगशैवमञ्चपरशैवाङ्कस्थितां भावये ॥ १॥

एलासौरभिकुन्तले परमुमे त्वां व्याप्य सर्वं स्थितां
काष्ठादिष्विव तैलवह्निनवनीताम्बुप्रवाहादिकम् ।
श्रीमूर्तिष्वतिसुन्दरासु नवबन्धूकप्रभास्वम्बिके
शक्यं किं नु तथापि ते परशिवे चास्थानमावाहये ॥ २॥

ईशावास्यमिदं त्वया सकलमप्यम्बासने मञ्जुले
त्वामारोहयितुं समस्तभुवनाधारं कथं शक्नुयाम् ।
मत्स्वान्ताब्जमपि त्वदासनवरं भूयाद्यतः सर्वदा
सर्वेषां हृदयारविन्दभवने नित्यं वसस्यम्बिके ॥ ३॥

लक्ष्यालक्ष्यविलक्षणं तव वपुः पादादिहीनं परं
पाद्यैस्तत् परितोषयामि कथमप्यत्यन्तमच्छात्मकम् ।
मत्स्वान्तद्रुतहेमरत्नकलशानीतातिभक्त्यम्बुना
विज्ञानामरसिन्धुजेन रचये प्रक्षालनं त्वत्पदे ॥ ४॥

ह्रींकारद्रुममञ्जरीशविनुतेऽनर्घ्याय हस्ताय ते
सर्वाभीष्टफलप्रदाननिरतायार्घ्यं कथं कल्पये ।
गृह्णीष्वाम्ब मया प्रदत्तमनघे विज्ञानपात्रे स्थितं
त्वद्रूपानुभवाम्बुकल्पितमथाप्यर्घ्यं महासुन्दरि ॥ ५॥

हन्त त्वन्मुखनिर्गतेन सकलं पूतं जगत् सर्वदा
वेदेनाचमनीयमद्य सहसा दातुं कथं शक्नुयाम् ।
तुभ्यं श्रीपरदेवते मयि तथाप्यम्बानुकम्पावशाद्
गृह्णीष्वाचमनं प्रकल्पितमुमे गन्धादिभिर्मिश्रितम् ॥ ६॥

सर्वं सर्वत एव पूर्णविभवे पूर्णेन पूर्णं कथं
व्याप्य त्वत्तनुमास्थितामतितरां शुद्धां जगत्पावनीम् ।
गाङ्गैर्निर्मलवारिभिः प्रभवति प्राणी जगत्यां तथा-
प्यानन्दामृतवारिणाहमभिषिञ्चाभ्यादरादम्बिके ॥ ७॥

कल्पय कल्पकवृक्षसंभवमहत्कौसुम्भवस्त्रद्वयं
नानारत्नविचित्रमम्ब परमप्रीत्या कथं ते मया ।
व्यापिन्यै जगतां तथापि विमलेनाच्छादये त्वां परं
विज्ञानात्मकवाससा परशिवे गृह्णीष्व तत् प्रीतितः ॥ ८॥

हंसस्फाटिककुन्दसुन्दरतरश्रीमूर्तिमार्ये शिवे
कर्पूरागरुकुङ्कुमादिमिलितैर्गन्धैः कथं लेपये ।
श्रुत्युक्तां तव सर्वगन्धतनुगां निर्लेपनां निष्कलां
ब्रह्मात्मैक्यभवानुभूतिविमलज्ञानाख्यगन्धैः परम् ॥ ९॥

लग्नेन्दूज्ज्वलरेखमम्ब मकुटं माणिक्यदीप्त्युज्ज्वलं
कालोन्मीलितचम्पकाम्बुजमहद्बिल्वीदलानां स्रजा ।
संवेष्ट्याहमखण्डनिर्मलपरानन्दाम्बुधौ वा कदा
मज्जे मन्मथवैरिभामिनि वद स्वानन्दवारांनिधे ॥ १०॥

ह्रींकारीं निगमागमान्तविदितां भक्त्या कथं तर्पये
धूपैर्गुग्गुलुसंभवैर्जगदिदं संव्याप्य नित्यं स्थितम् ।
श्रीमूर्त्युद्भववासनाभिरधुना दिव्याभिराराधये
संविद्वह्निसमर्पिताखिलजगत्कालागरोर्धूपकैः ॥ ११॥

सर्वज्ञे सकलेष्टदाननिरते सामादिभिः संस्तुते
तुभ्यं कल्पयितुं प्रदीपमरुणे साज्यं कथं शक्नुयाम् ।
बालार्कायुतकोटिसुन्दरतनो भक्त्या तथाप्यञ्चिते
विज्ञानात्मकदीपदीप्तिभिरहं संतर्पयाम्यम्बिके ॥ १२॥

कल्याण्यम्ब कथं निवेदितुमहं नैवेद्यमार्ये शुभे
तप्ताष्टापदभाजनोज्ज्वलमुमे भक्ष्यादिभिः संयुतम् ।
शक्ष्ये संभृतसर्वलोकजठरायै तुभ्यमत्युज्ज्वलं
विश्वासेन समर्पयामि जगदात्मैक्यान्नमानन्ददम् ॥ १३॥

लक्ष्मीवन्दितपादपद्मयुगले लक्ष्मीधवाद्यर्चिते
कर्पूराज्यलसत्सुवर्णकलशप्रोद्भासि नीराजनम् ।
नानाशोभनगीतनृत्तसहितं दिव्याङ्गनाभिर्धृतं
वीक्ष्याद्याम्ब मुदं प्रयाहि कृपया श्रीकामराजेश्वरि ॥ १४॥

ह्रींह्रीमित्यनुभाव्यतां हृततमःपुञ्जे समस्तार्थदे
त्वत्पादाब्जयुगे भवत्वनुदिनं बिल्वाम्बुजार्चाविधिः ।
ह्रींकारार्णमनुप्रयुक्तमरुणे मत्स्वान्तजैः स्वानुभू-
त्यब्जैः साकमखण्डसौख्यनिलये श्रीचक्रराजेश्वरि ॥ १५॥

ह्रींकारोन्नतरत्नमञ्जुलमहत्सिंहासने भासुरा-
मूढे ब्रह्महरीश्वरादिविरलं श्रीकामराजाङ्ककम् ।
सर्वज्ञादिसमस्तशक्तिनिवहैः संसेवितामम्बिकां
सैवास्मीति विभावनानतिशतैः संतोषयाम्यन्वहम् ॥ १६॥

ये ये संततमन्धकारिगृहिणीस्तोत्रं समस्तार्थदं
ज्ञात्वार्थं हृदि मन्त्रराजविमलश्रीबीजवर्णक्रमात् ।
प्रोक्तं मन्त्रविदः पठन्ति सहसा कालत्रयेऽप्यम्बिका-
सांनिध्ये तदनन्यभावनाधियस्तत्रैक्यतां प्राप्नुयुः ॥ १७॥

॥ इति श्रीलघुषोडशार्णकलाविलासस्तोत्रं संपूर्णम्॥

Encoded and proofread by Sridhar Seshagiri seshagir at engineering.sdsu.edu

Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Laghu Shodasharna Kalavilasa Lyrics in Devanagari PDF
% File name : laghu16.itx
% Location : doc\_devii
% Language : Sanskrit
% Subject : hinduism/religion
% Transliterated by : Sridhar Seshagiri seshagir at engineering.sdsu.edu
% Proofread by : Sridhar Seshagiri seshagir at engineering.sdsu.edu
% Description-comments : Hymn to Devi
% Latest update : October 15, 2001
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website