श्रीशक्तिमहिम्न अथवा त्रिपुरामहिम्नस्तोत्रम्

{॥ श्रीशक्तिमहिम्न अथवा त्रिपुरामहिम्नस्तोत्रम् ॥}
मातस्ते महिमा वक्तुं शिवेनापि न शक्यते ।
भक्त्याहं स्तोतुमिच्छामि प्रसीद मम सर्वदा ॥ १॥

श्रीमातस्त्रिपुरे परात्परतरे देवि त्रिलोकीमहा-
सौन्दर्यार्णव-मन्थनोद्भवसुधा-प्राचुर्य-वर्णोज्ज्वलम् ।
उद्यद्भानुसहस्रनूतनजपापुष्पप्रभं ते वपुः
स्वान्ते मे स्फुरतु त्रिकोणनिलयं ज्योतिर्मयं वाङ्मयम् ॥ २॥

आदिक्षान्त समस्त-वर्ण-सुमणि-प्रोते वितानप्रभे
ब्रह्मादि-प्रतिमाभिकीलित-षडाराब्ज-कक्षोन्नते ।
ब्रह्माण्डाब्ज महासने जननि ते मूर्तिं भजे चिन्मयीं
सौषुम्नायत-पीतपङ्कज-महामध्य-त्रिकोणस्थिताम् ॥ ३॥

या बालेन्दु दिवाकराक्षिमधुरा या रक्तपद्मासना
रत्नाकल्प-विराजिताङ्ग-लतिका पूर्णेन्दुवक्त्रोज्ज्वला ।
आक्षस्त्रक्सृणि-पाश-पुस्तक-करा या बालभानुप्रभा
तां देवीं त्रिपुरां शिवं हृदि भजेऽभीष्टार्थ सिद्धयै सदा ॥ ४॥

वन्दे वाग्भवमैन्दवात्म-सदृशं वेदादि-विद्या-गिरो
भाशा देशसमुद्भवाः पशुगताश्छन्दांसि सप्तस्वरान् ।
तालान् पञ्चमहाध्वनीन् प्रकटयत्यात्मप्रकाशेन यत्
तद्बीजं पदवाक्य-मान-जनकं श्रीमातृके ते परम् ॥ ५॥

त्रैलोक्यस्फुट-मन्त्र-तन्त्र-महिमा स्वात्मोक्ति-रूपं विना
यद्बीजं व्यवहारजालमखिलं नास्त्येव मातस्तव ।
तज्जाप्य-स्मरण-प्रसक्त-सुमतिः सर्वज्ञतां प्राप्य कः
शब्दब्रह्मनिवासभूतवदनो नेन्द्रादिभिः स्पर्धते ॥ ६॥

मात्रा याऽत्र विराजतेऽतिविशदा तामष्टधा मातृकां
शक्तिं कुन्डलिनीं चतुर्विधतनुं यस्तत्त्वविन्मन्यते ।
सोऽविद्याखिलजन्म-कर्म-दुरितारण्यं प्रबोधाग्निना
भस्मीकृत्य विकल्पजाल-रहितो मातः पदं तीद्व्रजेत् ॥ ७॥

तत्ते मध्यम-बीजमम्ब कलयाम्यदित्यवर्णं क्रिया-
ज्ञानेच्छादिमनन्तशक्ति-विभव-व्यक्तिं व्यनक्ति स्फुटम् ।
उत्पति-स्थिति-कल्प-कल्पित-तनु स्वात्मप्रभावेन यत्
काम्यं ब्रह्महरीश्वरादि-विबुधैः कामं क्रियायोजितैः ॥ ८॥

कामान् कारणतां गतान् अगणितान् कार्यै-रनन्तै-र्मही-
मुख्यैः सर्वमनोगतै-रधिगतान् मानैरनेकैः स्फुट्म् ।
कामक्रोध-सलोभमोह-मदमातसर्यारि-षट्कं च यत्
बीजं भ्राजयति प्रणौमि तदहं ते साधु कामेश्वरि ॥ ९॥


यद्भक्ताखिल-काम-पूरणचण-स्वात्मप्रभावं महा-
जाड्यध्वान्त-विदारणैक-तरणिज्योतिः प्रबोधप्रदम् ।
यद्वेदेषु च गीयते श्रुतिमुखं मात्रात्रयेणोमिति
श्रीविद्ये तव सर्वराज-वशकृत् तत्कामराजं भजे ॥ १०॥

यत्ते देवि तृतीयबीज-मनलज्वालावली-सन्निभं
सर्वाधार-तुरीयबीज-मपरब्रह्माभिधा-शब्दितम् ।
मूर्धन्यान्त-विसर्ग-भूषितमहौकारात्मकं तत्परं
सर्विद्रूपमनन्य-तुल्य महिम स्वान्ते मम द्योतताम् ॥ ११॥


सर्व सर्वत एव सर्गसमये कार्येन्द्रियाण्यन्तरा
तत्तद्दिव्य-हृषीक-कर्मभिरियं संव्यश्रुवाना परा ।
वागर्थ-व्यवहार-कारणतनुः शक्ति-र्जगद्रूपिणी
यद्बीजात्मकतां गता तव शिवे तन्नौमि बीजं परम् ॥ १२॥


अग्नीन्दु-द्युमणि-प्रभञ्जन-धरा-नीरान्तर-स्थायिनी
शक्तिर्ब्रह्महरीश-वासव-मुखामर्त्यासुरात्म-स्थिता ।
सृष्टस्थावरजङ्गम-स्थित-महा-चैतन्यरूपा च या
यद्बीजस्मरणेन सैव भवती प्रादुर्भवत्यम्बिके ॥ १३॥


स्वात्म श्रीविजिताजविष्णु मघव श्रीपूरणैकव्रतं
सद्विद्या-कविता-विलासलहरी-कल्लोलिनी-दीपकम् ।
बीजं यत् त्रिगुणप्रवृति-जनकं ब्रह्मेति यद्योगिनः
शान्ताः सत्यमुपासते तदिह ते चित्ते दधे श्रीपरे ॥ १४॥


एकैकं तव मातृके परतरं संयोगि वाऽयोगि वा
विद्यादिप्रकट-प्रभव-जनकं जाड्यान्ध्कारापहाम् ।
यन्निष्ठाश्च महोत्पलासन-महाविष्णु-प्रहन्नार्दयो
देवाः स्वेषु विधिष्वनन्त-महिम-स्फूर्तिं दधत्येव तत् ॥ १५॥

इत्थं त्रीण्यपि मूल-वाग्भव-महा-श्रीकामराज स्फुर-
च्छक्त्त्याख्यानि चतुः- श्रुतिप्रकटितान्युत्कृष्ट-कूटानि ते ।
भूतर्तु श्रुति संख्य-वर्ण-विदिताअन्यारक्तकान्ते शिवे
यो जानाति स एव सर्वजगतां-स्थिति-ध्वंसकृत् ॥ १६॥


ब्रह्मा योनि-रमा-सुरेश्वर-सुहृल्ल्रेखभिरुक्त्तैस्तथा
मार्ताण्डेन्दु-मनोज-हंस-वसुधा-मायाभिरुत्तसितैः ।
सोमाम्भु-क्षिति-शक्तिभिः प्रकटितै-र्बाणाङ्गवेदैः क्रमाद्
वर्णैः श्रीशिवदेशिकेन विदितां विद्यां तवाम्बाश्रये ॥ १७॥


नित्यं यस्तव मातृकाक्षर सखीं सौभाग्यविद्यां जपेत्
सम्पूज्याखिल चक्रराजनिलयां सायन्तनाग्नि प्रभाम् ।
कामाख्यं शिवनामतत्त्वमुभयं व्याप्यात्म्ना सर्वतो
दीव्यान्ती-मिह तस्य सिद्धि-रचिरात् स्यात् त्वत्स्वरूपैकता ॥ १८॥

काव्यैर्वा पठितैः किमल्पविदुषां जोघुष्यमाणैः पुनः
किं तै-र्व्याकरणैर्विवोबुधिषया किं वाभिधानश्रिया ।
एतैरम्ब न बोभवीति सुकवि-स्तावत्तव श्रीमतोः
यावन्नानुसरीसरीति सरणिं पादाब्जयोः पावनीम् ॥ १९॥

गेहं नाकति गर्वितः प्रवणति स्त्रीसङ्गमो मोक्षति
द्वेषी मित्रति पातकं सुकृतति क्ष्मावल्लभो दासति ।
मृत्युर्वैद्यति दूषणं सुगुणति त्वत्पाद-संसेवनात्
त्वां वन्दे भवभीति-भञ्जनकरीं गौरीं गिरीशप्रियाम् ॥ २०॥


आद्यैरग्नि रवीन्दु बिम्ब निलये रम्ब त्रिलिङ्गात्मभिः-
मिश्रा रक्त सित प्रभैरनुपमैर्युष्मत्पदै स्तै स्त्रिभिः ।
स्वात्मोत्पादित काल लोक निगमावस्थामरादि त्रयैः
उद्भूतं त्रिपुरेति नाम कलयेद्यस्ते स धन्यो बुधः ॥ २१॥


आद्यो जाप्यतमर्थ वाचकतया रूढः स्वरः पञ्चमः
सर्वोत्कृष्टतमार्थ वाचकतया वर्णः पवर्गान्तकः ।
वक्तृत्वेन महाविभूतिसरणिस्त्वाधारगो हृद्गतो
भ्रूमध्ये स्थित इत्यतः प्रणवता ते गीयतेऽम्बागमैः ॥ २२॥


गायत्री सशिरास्तुरीय सहिता सन्ध्यामयीत्यागमैः
आख्याता त्रिपुरे त्वमेव महतां शर्मप्रदा कर्मणाम् ।
तत्तद्दर्शन मुख्यशक्तिरपि च त्वं ब्रह्मकर्मेश्वरी
कर्ताऽर्हन् पुरुषो हरिश्च सविता बुद्धः शिवस्त्वं गुरु ॥ २३॥


अन्न-प्राण-मन-प्रबोध-परमानन्दैः शिरः-पक्षयुक्
पुच्छात्म-प्रकटै-र्महोपनिषदां वाग्मिः प्रसिद्धिकृतै ।
कोशैः पञ्चभिरेभि-रम्ब भवतीमेतत् प्रलीनामिति
ज्योतिः प्रज्वल-दुज्ज्वलात्मचपलां यो वेद स ब्रह्मवित् ॥ २४॥


सच्चित्तत्वमसीति वाक्यविदितै-रध्यात्मविद्या-शिव-
ब्रह्माख्यै-रतुल-प्रभाव-महितै-स्तत्त्वैस्त्रिभिः सद्गुरोः ।
त्वद्रूपस्य मुखारविन्द-विवरात् सम्प्राप्य दिक्षा-मतो
यस्त्वां विन्दति तत्त्वत-स्तदह-मित्यार्ये स मुक्तो भवेत् ॥ २५॥


सिद्धान्तैर्बहुभि प्रमाण-गदितैरन्यैरविद्यातमो
नक्षत्रैरिव सर्वमन्धतमसं तावन्न निर्भिद्यते ।
यावत्ते सवितेव सम्मतमिदं नोदेति विश्वान्तरे
जन्तो-र्जन्म-विमोचनैकभिदुरं श्रीशाम्भवं श्रीशिवे ॥ २६॥


आत्माऽसौ सकलेन्द्रियास्रय-मनो बुधयादिभिः शोचितः
कर्माबधतनुर् जनिं च मरणं प्रैतीति यत्कारणम् ।
तते देवि महाविलस लहरि दिव्ययुधानां जयः
तस्मात् सद्गुरुमप्युपेत्य कलयेत्वामेव चेन्मुच्यते ॥ २७॥


नाना-योनि-सहस्र-सम्भव-वशाज्जाता जनन्यः कति
प्रख्याता जनकाः कियन्त इति मे सेत्स्यन्ति चाग्रे कति ।
एतेषां गणनैव नास्ति महतः संसारसिन्धो-र्विधेः
भीतं मां नितरा-मनन्यशरणं रक्षानुकम्पानिधे ॥ २८॥


देहक्षोभ-करै-र्वृतै-र्बहुविधै-दानैस्च-होमै-र्जपैः
सन्तानै-र्हयमेध-मुख्य-सुमखै-र्नानाविधैः कर्मभिः ।
यत्सङ्कल्पविकल्पजाल-मलिनं प्राप्यं पदं तस्यते
दूरादेव निवर्तते परतरं मातः पदं निर्मलम् ॥ २९॥


पञ्चाशन्निजदेहजाक्षरमयैर्नानाविधैर्धातुभिः
बह्वर्थैः पदवाक्य-मान-जनकै-रर्थाविनाभावितैः ।
साभिप्रायवदर्थ-कर्म-फलदैः ख्यातेरनन्तैरिदं
विश्वं व्याप्य चिदात्मनाऽहमहमित्युज्जृम्भसे मातृके ॥ ३०॥


श्रीचक्रं श्रुतिमूलकोश इति ते संसारचक्रात्मकं
विख्यातं तदधिष्ठिताक्षर-शिवज्योतिर्मयं सर्वतः ।
एतन्मन्त्रमयात्मिकभिररुणं श्रीसुन्दरीभिर्वृतं
मध्ये बैन्दवसिंहपीठललिते त्वं ब्रह्मविद्या शिवे ॥ ३१॥


बिन्दु-प्राण-विसर्ग-जीवसहितं बिन्दु-त्रिबिजात्मकं
षट्कूटानि विपर्ययेण निगदेत् तारत्रिबालाक्षरैः ।
एभिः सम्पुटितं प्रजप्य विहरेत्प्रासाद-मन्त्रं परं
गुह्यद्गुह्यतमं सयोगजनितं सद्भोगमोक्षप्रदम् ॥ ३२॥


आताम्रार्क सहस्रदीप्ति परमा सौन्दर्यसारै-रलं
लोकातीत महोदयै रुपयुता सर्वोपमाऽगोचरैः ।
नानानर्घ्य-विभूषणैरगणितै-र्जाज्वल्यमानाऽभितः
त्वं मातास्त्रिपुरारिसुन्दरि कुरु स्वान्ते निवासं मम ॥ ३३॥


शिञ्जन्नूपुर-पादकण्कण-महामुद्रासुलाक्षारसा-
लङ्कारन्कित-पादपङ्कज-युगं श्रीपादुकालङ्कृतम् ।
उद्भास्वन्नखचन्द्रखण्डरुचिरं राजज्जपासन्निभं
ब्रह्मादि त्रिदशासुरार्चितमहं मूर्ध्नि स्मराम्यम्बिके ॥ ३४॥


आरक्तच्छविनाऽतिमार्दवयुजा निश्वासहार्येण यत्
कौशेयेन विचित्ररत्नधतितैर्मुक्ताफलैरुज्ज्वलैः ।
कूजत्काञ्चन-किङ्किणीभिरभित सन्नद्धकाञ्चीगुणैः
आदीप्तं सुनितम्बबिम्बमरुणं ते पूजयाम्यम्बिके ॥ ३५॥


कस्तूरी-घनसार-कुङ्कुमरजो-गन्धोत्कटै-श्चन्दनैः
आलिप्तं मणिमालयाऽतिरुचिरं ग्रैवेय-हारादिभिः ।
दीप्तं दिव्य-विभूषणै-र्जननि ते ज्योति-र्विभास्वत्कुच
व्याज-स्वर्णधटद्वयं हरिहर-ब्रह्मादि-पीतं भजे ॥ ३६॥


मुक्तारत्नसुवर्णकान्तिकलितैस्ते बाहुवल्लीरहं
केयूरोत्तम बाहुदण्डवलयैर्हस्ताङ्गुलीभूषणैः ।
सम्पृक्त्ताः कलयामि हीरमणिमन्मुक्ताफलाकीलित-
ग्रीवापट्टविभूषणेन सुभगे कण्ठं च कम्बुश्रियम् ॥ ३७॥

तप्तस्वर्ण-कृतोरुकुण्डलयुगं माणिक्य-मुक्तोल्लस-
द्धिराबद्ध-मनन्य-तुल्य-मपरं हैमं च चक्रद्वयम् ।
शुक्राकार-निकार-दक्ष-मपरं मुक्ताफलं सुन्दरं
बिभ्रत्कणयुगं नमामि ललितं नासाग्रभागं शिवे ॥ ३८॥


उद्युत्पूर्ण कलानिधिश्रि वदनं भक्तप्रसन्नं सदा
सम्फुल्लाम्बुज-पत्र-चित्र-सुषमा-धिक्कार दक्षेक्षणम् ।
सानन्दं कृतमन्दहासमसकृत् प्रादुर्भवत्कौतुकं
कुन्दाकार सुदन्तपङ्क्ति शशिभा पूर्णं स्मराम्यम्बिके ॥ ३९॥


शृङ्गारादि-रसालयं त्रिभुवनि-माल्यै-रतुल्यै-र्युतं
सर्वाङ्गीण सदङ्गराग-सुरभि-श्रीमद्वपु-र्दीपितम् ।
ताम्बूलालरुण पल्लवाधर-युतं रम्यं त्रिपुन्ड्रं दध-
द्भालं नन्दनचन्दनेन जननि ध्यायामि ते मङ्गलम् ॥ ४०॥


जाति-चम्पक-कुन्दकेसर-महागन्धोद्निरत् केतकी
नीपशोक-शिरीष-मुख्य-कुसुमैः प्रोत्तंसित धूपिता ।
आनिलाञ्जन-तुल्य-मत्त-मधुप-श्रेणीव वेणी तव
श्रीमातः श्रयतां मदिय हृदयाम्भोजां सरोजलये ॥ ४१॥


लेखालभ्य-विचित्र-रत्न-घटितं हैमं किरीटोत्तमं
मुक्ता-काञ्चन-किङ्किणी-गण-महा-हीर-प्रबद्धोज्ज्वलम् ।
चञ्चश्चन्द्रकला-कलाप-महितं-देवद्रुपुष्पाचितैः
माल्यै-रम्ब विलम्बितं सशिखरं बिभ्रच्छिरस्ते भजे ॥ ४२॥

उत्क्षिप्तोच्चसुवर्ण-दण्ड-कलितं-पूर्णेन्दु-बिम्बाकृति
च्छत्रं मौक्तिक-चित्ररत्नखचितं क्षौमांशुकोत्तंसितम् ।
मुक्तजाल-विलम्बितं-सकलशं नानाप्रसूनार्चितं
चन्द्रोङ्डामर-चामराणि दधते श्रीदेवि ते स्वः स्त्रियः ॥ ४३॥


विद्या-मन्त्र-रहस्यविन्मुनिगणैः क्लृप्तोपचारार्चनां
वेदादि-स्तुति-गीयमान-चरितां वेदान्त-तत्त्वात्मिकाम् ।
सर्वास्ताः खलु तुर्यता-मुपगता-स्त्वद्रश्मिदेव्यः पराः
त्वां नित्यं समुपासते स्वविभवैः श्रीचक्रनाथे शिवे ॥ ४४॥


एवं य स्मरति प्रबुद्धसुमतिः श्रीमत्स्वरूपं परं
वृद्धोऽप्याशु युवा भवत्यनुपमः स्त्रीणामनङ्गायते ।
सोऽष्टैश्वर्य-तिरस्कृतखिला-सुरश्री-जृम्भणैकालयः
पृथ्वीपालकिरीट-कोटिवलभि-पुष्पार्चिताङ्घ्रि-र्भवेत्त् ॥ ४५॥

अथ तव धनुः पुण्ड्रेक्षुत्वात् प्रसिदध्मतिद्युति
त्रिभुवनवधू मुद्यज्ज्योत्स्नाकलानिधि-मण्डलम् ।
सकल जननि स्मारं स्मारं गतः स्मरतां नरः
त्रिभुवनवधू-मोहाम्बोधेः प्रपूर्णविधु-र्भवेत् ॥ ४६॥



प्रसून शर पञ्चक प्रकट जृम्भणागुम्भितं
त्रिलोकमवलोकय त्यमलचेतसाऽचञ्चलम् ।
अशेष तरुणीजन स्मरविजृम्भणे यः सदा
पटुर्भवति ते शिवे त्रिजगदङ्गनाक्षोभणे ॥ ४७॥


पाशं प्रपूरित-महा-सुमति-प्रकाशो
यो वा तव त्रिपुरसुन्दरि सुन्दरीणाम् ।
आकर्षणेऽखिलवशीकरणे प्रवीणं
चित्ते दधाति स जगत्त्रय-वश्यकृत् स्यात् ॥ ४८॥


यः स्वान्ते कलयति कोविद-स्त्रिलोकी-
स्तम्भारम्भणचण-मत्युदारवीर्यम् ।
मातस्ते विजय-निजाङ्कुशं स योषाः
देवान्स्तम्भयति च भूभुजोऽन्यसैन्यम् ॥ ४९॥


चाप च्यान वशाद्भवोद्भव महामोहं महाजृम्भणं
प्रख्यातं प्रसवेषुचिन्तन-वशात् तत्तच्छरव्यं सुधीः ।
पाशध्यानवसात् समस्तजगतां मृत्योर्वशत्वं महा-
दुर्गस्तम्भ-महाङ्कुशस्य मननान्माया-ममेयां तरेत् ॥ ५०॥


न्यासं कृत्वा गणेश-ग्रह-भगण-महायोगिनी-राशि-पीठैः
षड्भिः श्रीमातृकार्णैः सहित-बहुकलै-रष्टवाग्देवताभिः ।
सश्रीकण्ठादियुग्मै-र्विमलनिजतनौ केशवाद्यैश्च तत्त्वैः
षट्त्रिंशद्भिश्च तत्त्वैर्भगवति भवतीं य स्मरेत् स त्वमेव ॥ ५१॥


सुरपतिपुर-लक्ष्मी-जृम्भणातीतलक्ष्मीः
प्रभवति निजगेहे यस्य दैवं त्वमार्ये ।
तव विविधकलानां पात्रभूतस्य तस्य
त्रिभुवनविदिता सा जृम्भते कीर्तिर्रेच्छा ॥ ५२॥


मातस्त्वं भूर्भुवःस्व-र्महरसि नृतपः-सत्यलोकैश्च सूर्ये-
न्द्वारज्ञाचार्य-शुक्रार्किभिरपि-निगमब्रह्मभिः प्रोतशक्तिः ।
प्राणायामादियत्नैः कलयसि सकलं मानसं ध्यानयोगं
येषां तेषां सपर्या भवति सुरकृता ब्रह्म ते जानते च ॥ ५३॥


क्व मे बुधिर्वाचा परमविदुषो मन्दसरणिः
क्व ते मात-ब्रह्मप्रमुख-विदुषा-माप्तवचसाम् ।
आभून्मे विस्फूर्तिः परतर महिम्नस्तव नुतिः
प्रसिद्धं क्षन्तव्यं बहुलतर-चापल्यमिह मे ॥ ५४॥

प्रसीद परदेवते मम हृदि प्रभूतं भयं
विधारय दरिद्रतां दलय देहि सर्वज्ञताम् ।
निधेहि करुणानिधे चरणपद्मयुग्मं स्वकं
निवारय जरामृति त्रिपुरसुन्दरि श्रीशिवे ॥ ५५॥


इति त्रिपुरसुन्दरी-स्तुतिमिमां पठेद्यः सुधीः
स सर्वदुरिताटवि-पटल-चण्ड-दावानलः ।
भवेन्मनसि वाञ्छित-प्रथित-सिद्धि-वृद्धिर्भवेत्
अनेक-विध-सम्पदां पद-मनन्तुल्यो भवेत् ॥ ५६॥

पृथ्वीपाल प्रकटमुकुट स्रग्रजो राजिताङ्घ्रिः
विद्युत्पुञ्जानतिनुतिसमाराधितो बाधितारिः ।
विद्याः सर्वाः कलयति हृद व्याकरोति प्रवाचा
लोकाश्चार्यैर्नवनवपदैरिन्दु बिम्ब प्रकाशैः ॥ ५७॥


संगीतं गिरिजे कवित्वसरणिं-चाम्नाय-वाक्य-स्मृतेः
व्याख्यानं हृदि तावकीन-चरणद्वन्दं च सर्वज्ञताम् ।
श्रद्धां कर्मणि कालिकेऽतिविपुल-श्रीजृम्भणं मन्दिरे
सौन्दर्यं वपुषि प्रकाशमतुलं प्राप्नोति विद्वान् कवि ॥ ५८॥


भूष्यं वैदुष्यमुद्यद्दिनकर किरणाकरमाकारतेजः
सुव्यक्तं भक्तिमार्गं निगमनिगदितं दुर्गमं योगमार्गम् ।
आयुष्यं ब्रह्मपोष्यं हरगिरिविशदां कीर्तिमभ्येत्य भूमौ
देहान्ते ब्रह्मपारं परशिवचरणाकरमभ्येति विद्वान् ॥ ५९॥

दुर्वाससा महित दिव्य मुनीश्वरेण
विद्याकला युवति मन्मथ-मूर्तिनैतत् ।
स्तोत्रं व्यधायि रुचिरं त्रिपुराम्बिकायाः
वेदागमैक पटली विदितैकमूर्तेः ॥ ६०॥

सदसदनुग्रह-निग्रह-गृहित-मुनिविग्रहो भगवान् ।
सर्वासामुपनिषदां दुर्वासा जयति देशिकः प्रथमः ॥ ६१॥

॥ इति श्रीदुर्वाससा मुनीन्द्रेण विरचितं श्रीशक्तिमहिम्न स्तोत्रं सम्पूर्णम् ॥

Proofread by DPD

Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Shakti Mahimna ( Tripura Mahimna ) Stotram Lyrics in Devanagari PDF
% File name : shaktitripurAmahimnastotra.itx
% Location : doc\_devii
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : DPD
% Proofread by : DPD
% Latest update : April 5, 2013
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website