शान्तिस्तवः
{॥ शान्तिस्तवः ॥}
॥ त्यागराजविरचितः॥
स्वानन्दमन्दहसितां शिववामभागां
भृङ्गावलीकचभराकलितेन्दुमौलिम् ।
श्यामां विशालनयनामतिकोमलाङ्गीं
वन्दे स्मरारिमहिलां वरदां शिवाख्याम् ॥ १॥
कालदेशकलनाविवर्जिता स्वेच्छयैव भुवनान्यजीजनत् ।
क्रीडति स्वयमनेकभूमिका सा शिवाहमिति शान्तिमाश्रये ॥ २॥
स्वप्रकाशशिवशक्तिरूपिणी सर्वभूतहृदयाब्जहंसिका ।
निष्प्रकारसुखचन्द्रचन्द्रिका सा शिवाहमिति शान्तिमाश्रये ॥ ३॥
सर्वभूतहृदयप्रचोदिका शर्वविष्णुनिखिलात्मरूपिणी ।
निर्विकाररसरूपलक्षिता सा शिवाहमिति शान्तिमाश्रये ॥ ४॥
या परादिवचसामगोचरा रूपनामरहिता परा वरा ।
या त्रयीप्रमुखमार्गदर्शिनी सा शिवाहमिति शान्तिमाश्रये ॥ ५॥
निर्ममा निखिललोकरक्षणी कर्मकाण्डफलदानकामधुक् ।
आप्तकामधिषणात्मरूपिणी सा शिवाहमिति शान्तिमाश्रये ॥ ६॥
पञ्चकोशघनमुक्तचन्द्रिका पञ्चभूतजडविश्वदीपिका ।
पञ्चमूर्तिरवबिन्दुनायिका सा शिवाहमिति शान्तिमाश्रये ॥ ७॥
चिद्विलासजगदेकरूपिणी ह्यस्तिभातिसुखरूपसत्तया ।
षड्विकाररहिता निराश्रया सा शिवाहमिति शान्तिमाश्रये ॥ ८॥
यागयोगजपहोमकर्मभिर्नैव जातु परमा हि लभ्यते ।
प्रज्ञया सहजयैव याप्यते सा शिवाहमिति शान्तिमाश्रये ॥ ९॥
जाग्रदादिसमयेषु वृत्तिषु भ्राजते तनुषु सर्वसाक्षिणी ।
स्वर्णवत् सकलभूषणेषु या सा शिवाहमिति शान्तिमाश्रये ॥ १०॥
नेति नेति निगमोक्तिबोधिता ज्ञानिनां तु हृदये सदोज्ज्वला ।
भेदभावगलनात् सदात्मिका सा शिवाहमिति शान्तिमाश्रये ॥ ११॥
भेदतो भवति भीरिति श्रुतेर्यान्ति तेन रहिता यदेकताम् ।
आपगास्तु सरितामिवेश्वरे सा शिवाहमिति शान्तिमाश्रये ॥ १२॥
नामरूपकुलधर्मवर्जिता जन्मनाशरहिता सदव्यया ।
कल्पनान्तसमयेऽपि या स्थिरा सा शिवाहमिति शान्तिमाश्रये ॥ १३॥
कोटिकोटिजनिपुण्यसंस्कृतः सर्वकामरहितो जितेन्द्रियः
यां विभाव्य परिमुच्यते भवात् सा शिवाहमिति शान्तिमाश्रये ॥ १४॥
शास्त्रपाठमननैर्न लभ्यते धैर्यवीर्यनयतः पराक्रमैः ।
केवलं गुरुदृशा प्रकाशते सा शिवाहमिति शान्तिमाश्रये ॥ १५॥
प्राणबुद्धिहृदयात्मसाक्षिणी सर्वयज्ञपरितृप्तिकामिनी ।
ज्ञानपुष्परसपूजिताभया सा शिवाहमिति शान्तिमाश्रये ॥ १६॥
यत्र नास्ति निखिलं चराचरं ह्येकरूपरसवस्त्वभेदतः ।
नेह नेति विधिवाक्यचोदिता सा शिवाहमिति शान्तिमाश्रये ॥ १७॥
या गुरूक्तिसुधया मनोमले क्षालिते सपदि सत्यचिन्मणिः ।
द्योतते सकलधीप्रभासुरा सा शिवाहमिति शान्तिमाश्रये ॥ १८॥
दह्यते न शिखिना सदाव्यया सत्तया दहति पावकस्तृणम् ।
शुष्यते न मरुताखिलेश्वरी सा शिवाहमिति शान्तिमाश्रये ॥ १९॥
सिद्ध्यसाध्यपरमन्त्रवर्जिता ह्यष्टसिद्धिपरसिद्धिभूमिका ।
शुद्धचित्तपरमामृतात्मिका सा शिवाहमिति शान्तिमाश्रये ॥ २०॥
देहमानदलितस्य योगिनः सर्वतोऽपि परिपूर्णकामता ।
भाति या परमगुप्तरूपिणी सा शिवाहमिति शान्तिमाश्रये ॥ २१॥
इन्द्रजालमिदमल्पकालिकं विश्वमेवमिति निश्चयात्मनः ।
बोधरूपत इहैव भाति या सा शिवाहमिति शान्तिमाश्रये ॥ २२॥
विश्वयोनिरमृताभयाक्षरा नित्यतृप्तिरजरा परात्परा ।
इत्थमागमवचोभिरीड्यते सा शिवाहमिति शान्तिमाश्रये ॥ २३॥
सर्वदा समरसात्मरूपिणी सर्वलोकजननी ह्यरूपिणी ।
शर्वनृत्यसुखसाक्षिणी च या सा शिवाहमिति शान्तिमाश्रये ॥ २४॥
इन्द्रियार्थसुखबोधबोधिनी चन्द्रभानुशिखिदीप्तिकारिणी ।
बन्धवर्गभयमोहमोचिनी सा शिवाहमिति शान्तिमाश्रये ॥ २५॥
देहजीवजगदीशबाधने शिष्यते स्वयमनन्तरूपिणी ।
व्यापिनी जगति संततं च या सा शिवाहमिति शान्तिमाश्रये ॥ २६॥
प्राणबन्धपरिशुद्धचेतसां निर्विकल्पसुखरूपिणी सदा ।
चिन्मयी सदसदात्मिका च या सा शिवाहमिति शान्तिमाश्रये ॥ २७॥
यत्सुखाब्धिलवलेशनिवृता ब्रह्मविष्णुसुरमानवादयः ।
संभवन्ति युगकल्पभेदतः सा शिवाहमिति शान्तिमाश्रये ॥ २८॥
ब्रह्मलोकतृणमानिने सदा तृप्तिरूपपरशान्तिदायिनी ।
योगिने समरसं ददाति या सा शिवाहमिति शान्तिमाश्रये ॥ २९॥
सर्वमेकरसमित्युदेति या निर्मला निरवधिश्च चेतसि ।
देशिकेन्द्रपदभक्तियोगिनः सा शिवाहमिति शान्तिमाश्रये ॥ ३०॥
मायिकस्य जगतः स्थितिर्यया स्वप्नकालनगरीव योगिनः ।
भासते निजसुखैकभोगिनः सा शिवाहमिति शान्तिमाश्रये ॥ ३१॥
निस्तरङ्गसुखसिन्धुरूपिणीं यामनुस्मरति बन्धमुक्तये ।
शान्तिदान्तिधृतियुक्तयोगिराट् सा शिवाहमिति शान्तिमाश्रये ॥ ३२॥
भूतभाविमतिवृत्त्यभाविकां वर्तमानसुखवृत्तिभासिकाम् ।
येऽनुसंदधति नित्यमादरात् सा शिवाहमिति शान्तिमाश्रये ॥ ३३॥
बुद्धिमोहपटले व्यपोहिते शाणचक्रनिगमोक्तितः स्वयम् ।
प्रस्फुरत्यविरतं च चिन्मणिः सा शिवाहमिति शान्तिमाश्रये ॥ ३४॥
नाहमित्यनृतजाड्यभूमयः सच्चिदेव सकलात्मभासकः ।
इत्थमेकरसरूपशेमुषी सा शिवाहमिति शान्तिमाश्रये ॥ ३५॥
वृत्तिसंधिविलसत्स्वरूपिणी प्रज्ञया हृदि विभाव्यते सदा ।
नित्यमुक्तिसुखकाङ्क्षिणा दृढं सा शिवाहमिति शान्तिमाश्रये ॥ ३६॥
त्यागराजसुखरूपिणी परं योगिराजहृदयोज्ज्वला सदा ।
आगमाद्यखिलमानबोधिता सा शिवाहमिति शान्तिमाश्रये ॥ ३७॥
शान्तिस्तवं पठति नित्यमनन्यभक्त्या
यो मानवो भवति शंकर एव साक्षात् ।
संसारदुःखभयमोचनदक्षकल्पं
स्वात्मापरोक्षकरणे गुरुपादकल्पम् ॥ ३८॥
इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण
त्यागराजनाम्ना विरचितः शान्तिस्तवः संपूर्णः
Encoded by Sridhar Seshagiri seshagir at engineering.sdsu.edu
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Shanti Stavam Lyrics in Devanagari PDF
% File name : shaantistava.itx
% Location : doc\_devii
% Author : Tyagaraja
% Language : Sanskrit
% Subject : hinduism/religion
% Transliterated by : Sridhar Seshagiri sridhar.seshagiri at gmail.com
% Proofread by : Sridhar Seshagiri sridhar.seshagiri at gmail.com
% Description-comments : Hymn in praise of the Devi as a peace personification
% Latest update : January 13, 2002
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website