सङ्कष्टनाशनं संकटाष्टकस्तोत्रम्

{॥ सङ्कष्टनाशनं संकटाष्टकस्तोत्रम् ॥}
श्रीगणेशाय नमः ।
ध्यानम्
ध्यायेऽहं परमेश्वरीं दशभुजां नेत्रत्रयोद्भूषितां
सद्यः सङ्कटतारिणीं गुणमयीमारक्तवर्णां शुभाम् ।
अक्ष-स्रग्-जलपूर्णकुम्भ-कमलं शंखं गदा बिभ्रतीं
त्रैशूलं डमरूश्च खड्ग-विधृतां चक्राभयाढ्यां पराम् ॥

ॐ नारद उवाच
जैगीषव्य मुनिश्रेष्ठ सर्वज्ञ सुखदायक ।
आख्यातानि सुपुण्यानि श्रुतानि त्वत्प्रसादतः ॥ १॥

न तृप्तिमधिगच्छामि तव वागमृतेन च ।
वदस्वैकं महाभाग सङ्कटाख्यानमुत्तमम् ॥ २॥

इति तस्य वचः श्रुत्वा जैगीषव्योऽब्रवीत्ततः ।
सङ्कष्टनाशनं स्तोत्रं शृणु देवर्षिसत्तम ॥ ३॥

द्वापरे तु पुरा वृत्ते भ्रष्टराज्यो युधिष्ठिरः ।
भ्रातृभिः सहितो राज्यनिर्वेदं परमं गतः ॥ ४॥

तदानीं तु ततः काशीं पुरीं यातो महामुनिः
मार्कण्डेय इति ख्यातः सह शिष्यैर्महायशाः ॥ ५॥

तं दृष्ट्वा स समुत्थाय प्रणिपत्य सुपूजितः ।
किमर्थं म्लानवदन एतत्त्वं मां निवेदय ॥ ६॥

युधिष्ठिर उवाच
सङ्कष्टं मे महत्प्राप्तमेतादृग्वदनं ततः ।
एतन्निवारणोपायं किंचिद्ब्रूहि मुने मम ॥ ७॥

मार्कण्डेय उवाच
आनन्दकानने देवी सङ्कटा नाम विश्रुता ।
वीरेश्वरोत्तरे भागे पूर्वं चन्द्रेश्वरस्य च ॥ ८॥

शृणु नामाष्टकं तस्याः सर्वसिद्धिकरं नृणाम् ।
सङ्कटा प्रथमं नाम द्वितीयं विजया तथा ॥ ९॥

तृतीयं कामदा प्रोक्तं चतुर्थं दुःखहारिणी ।
शर्वाणी पञ्चमं नाम षष्ठं कात्यायनी तथा ॥ १०॥

सप्तमं भीमनयना सर्वरोगहराऽष्टमम् ।
नामाष्टकमिदं पुण्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ ११॥

यः पठेत्पाठयेद्वापि नरो मुच्येत सङ्कटात् ।
इत्युक्त्वा तु द्विजश्रेष्ठमृषिर्वाराणसीं ययौ ॥ १२॥

इति तस्य वचः श्रुत्वा नारदो हर्षनिर्भरः ।
ततः सम्पूजितां देवीं वीरेश्वरसमन्विताम् ॥ १३॥

भुजैस्तु दशभिर्युक्तां लोचनत्रयभूषिताम् ।
मालाकमण्डलुयुतां पद्मशङ्खगदायुताम् ॥ १४॥

त्रिशूलडमरुधरां खड्गचर्मविभूषिताम् ।
वरदाभयहस्तां तां प्रणम्य विधिनन्दनः ॥ १५॥

वारत्रयं गृहीत्वा तु ततो विष्णुपुरं ययौ ।
एतत्स्तोत्रस्य पठनं पुत्रपौत्रविवर्धनम् ॥ १६॥

सङ्कष्टनाशनं चैव त्रिषु लोकेषु विश्रुतम् ।
गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् ॥ १७॥

॥ इति श्रीपद्मपुराणे सङ्कष्टनाशनं सङ्कटाष्टकं सम्पूर्णम् ॥

Proofread by Ravin Bhalekar ravibhalekar@hotmail.com

Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Sankashta Nashanam Sankashtaka Stotram Lyrics in Devanagari PDF
% File name : sankaShTanAshanaMsankaTAShTakaM.itx
% Category : aShTaka
% Location : doc\_devii
% Author : Traditional
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : WebD
% Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments : padmapurANa
% Latest update : July 04, 2004
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website