श्रीगणेशमहिम्नःस्तोत्रम्

{॥ श्रीगणेशमहिम्नःस्तोत्रम् ॥}
श्री गणेशाय नमः ।
अनिर्वाच्यं रूपं स्तवन-निकरो यत्र गलित-
स्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्याऽत्र महतः ।
यतो जातं विश्वं स्थितमपि सदा यत्र विलयः
स कीदृग्गीर्वाणः सुनिगमनुतः श्रीगणपतिः ॥ १॥

गणेशं गाणेशाः शिवमिति च शैवाश्च विबुधा
रविं सौरा विष्णुं प्रथमपुरुषं विष्णुभजकाः ।
वदन्त्येके शाक्ता जगदुदयमूलां परिशिवां
न जाने किं तस्मै नम इति परं ब्रह्म सकलम् ॥ २॥

तथेशं योगज्ञा गणपतिमिमं कर्म निखिलं
समीमांसा वेदान्तिन इति परं ब्रह्म सकलम् ।
अजां सांख्यो ब्रूते सकलगुणरूपां च सततं
प्रकर्तारं न्यायस्त्वथ जगति बौद्धा धियमिति ॥ ३॥

कथं ज्ञेयो बुद्धेः परतर इयं बाह्यसरणिर्यथा
धीर्यस्य स्यात् स च तदनुरूपो गणपतिः ।
महत्कृत्यं तस्य स्वयमपि महान् सूक्ष्ममणुवद्
ध्वनिर्ज्योतिर्बिन्दुर्गगनसदृशः किं च सदसत् ॥ ४॥

अनेकास्योऽपाराक्षि- करचरणोऽनन्त-हृदयस्तथा
नानारूपो विविधवदनः श्रीगणपतिः ।
अनन्ताह्वः शक्त्या विविधगुणकर्मैकसमये
त्वसंख्यातानन्ताभिमत- फलदोऽनेकविषये ॥ ५॥

न यस्याऽन्तो मध्यो न च भवति चादिः सुमहतामलिप्तः
कृत्वेत्थं सकलमपि खंवत् स च पृथक् ।
स्मृतः संस्मर्तॄणां सकलहृदयस्थः प्रियकरो
नमस्तस्मै देवाय सकलसुरवन्द्याय महते ॥ ६॥

गणेशाद्यं बीजं दहन-वनिता-पल्लवयुतं
मनुश्चैकार्णोऽयं प्रणवसहितोऽभीष्टफलदम् ।
सबिन्दुश्चागाद्याङ्गणकऋषिछन्दोऽस्य च निचृत्
स देवः प्राग्बीजं विपदपि च शक्तिर्जपकृताम् ॥ ७॥

गकारो हेरम्बः सगुण इति पुनिर्गुणमयो
द्विधाऽप्येको जातः प्रकृतिपुरुषो ब्रह्म हि गणः ।
स चेशश्चोत्पत्ति-स्थिति- लयकरोऽयं प्रथमको
यतो भूतं भव्यं भवति पतिरीशो गणपतिः ॥ ८॥

गकारः कण्ठोर्ध्व गजमुखसमो मर्त्यसदृशो
णकारः कण्डाधो जठरसदृशाकार इति च ।
अधोभाग ः कट्यां चरण इति हीशोऽस्य च तनु-
र्विभातीत्थं नाम त्रिभुवनसमं भूर्भुवःसुवः ॥ ९॥

गणेशेति त्र्यर्णात्मकमपि वरं नाम सुखदं
सकृत्प्रोच्चैरुच्चारितमिति नृभिः पावनकरम् ।
गणेशस्यैकस्य प्रतिजपकरस्यास्य सुकृतं
न विज्ञातो नाम्नः सकलमहिमा कीदृशविधः ॥ १०॥

गणेशेत्याह्वां यः प्रवदति मुहुस्तस्य पुरतः
प्रपश्यँस्तद्वक्त्रं स्वयमपि गणस्तिष्ठति तदा ।
स्वरूपस्य ज्ञानं त्वमुक इति नाम्नाऽस्य भवति
प्रबोधः सुप्तस्य त्वखिलमिह सामर्थ्यममुना ॥ ११॥

गणेशो विश्वेऽस्मिन् स्थित इह च विश्वं गणपतौ
गणेशो यत्रास्ते धृति- मतिरनैश्वर्यमखिलम् ।
समुक्तं नामैकं गणपतिपदं मंगलमयं
तदेकास्यं दृष्टेः सकल-विबुधास्येक्षण- समम् ॥ १२॥

बहुक्लेशैर्व्याप्तः स्मृत उत गणेशे च हृदये
क्षणात् क्लेशान् मुक्तोभवति सहसा त्वभ्रचयवत् ।
बने विद्यारम्भे युधि रिपुभये कुत्र गमने
प्रवेशे प्राणान्ते गणपतिपदं चाऽऽशु विशति ॥ १३॥

गणाध्यक्षो ज्येष्ठः कपिल अपरो मंगलनिधि-
र्दयालुर्हेरमबो वरद इति चिन्तामणिरजः ।
वरानीशो ढुण्ढिर्गजवदननामा शिवसुतो
मयूरेशो गौरीतनय इति नामानि पठति ॥ १४॥

महेशोऽयं विष्णुः सकविरविरिन्दुः कमलजः
क्षितिस्तोयं वह्निः श्वसन इति खं त्वद्रिरूदधिः ।
कुजस्तारः शुक्रो गुरुरुडुबुधोऽगुश्च धनदो
यमः पाशो काव्यः शनिरखिलरूपो गणपतिः ॥ १५॥

मुखं वह्विः पादौ हरिरपि विधाता प्रजननं
रविर्नेत्रे चन्द्रो हृदयमपि कामोऽस्य मदनः ।
करौ शक्रः कट्यामवनिरूदरं भाति दशनं
गणेशस्यासन् वै क्रतुमयवपुश्चैव सकलम् ॥ १६॥

अनर्ध्यालंकारैररुण-वसनैर्भूषित- तनुः
करीन्द्रास्यः सिंहासनमुपगतो भाति बुधराट् ।
स्थितः स्यात्तन्मध्येऽप्युदित- रविबिम्बोपम-रुचिः
स्थिता सिद्धिर्वामे मतिरितरगा चामरकरा ॥ १७॥

समन्तात्तस्यासन् प्रवरमुनिसिद्धाः सुरगणाः
प्रशंसन्तीत्यग्रे विविधनुतिभिः साऽञ्जलिपुटाः ।
बिडौजाद्यैर्ब्रह्मादिभिरनुवृतो भक्तनिकरै-
र्गणक्रीडामोद-प्रमुद-विकटाद्यैः सहचरै ः ॥ १८॥

वशित्वाद्यष्टाष्टादश-दिगखिलाल्लोलमनुवाग्
धृतिः पादूः खड्गोऽञ्जनरसबलाः सिद्धय इमाः ।
सदा पृष्ठे तिष्टन्त्यानिमिषिदृशस्तन्मुखलया
गणेशं सेवन्तेऽत्यतिनिकटसूपायनकराः ॥ १९॥

मृगांकास्या रम्भाप्रभृतिगणिका यस्य पुरतः
सुसंगीत कुर्वन्त्यपि कुतुकगन्धर्वसहिताः ।
मुदः पारो नाऽत्रेत्यनुपमपदे दोर्विगलिता
स्थिरं जातं चित्तं चरणमवलोक्यास्य विमलम् ॥ २०॥

हरेणाऽयं ध्यातस्त्रिपुरमथने चाऽसुरवधे
गणेशः पार्वत्या बलिविजयकालेऽपि हरिणा ।
विधात्रा संसृष्टावुरगपतिना क्षोणिधरणे
नरैः सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुषा ॥ २१॥

अयं सुप्रासादे सुर इव निजानन्दभुवने
महान् श्रीमानाद्यो लघुतरगृहे रंकसदृशः ।
शिवद्वारे द्वाःस्थो नृप इव सदा भूपतिगृहे
स्थितो भूत्वोमांके शिशुगणपतिर्लालनपरः ॥ २२॥

अमुष्मिन् सन्तुष्टे गजवदन एवापि विबुधे
ततस्ते सन्तुष्टास्त्रिभुवनगताः स्युर्बुधगणाः ।
दयालुर्हेरम्बो न च भवति यस्मिंश्च पुरुषे
वृथा सर्वं तस्य प्रजननमतः सान्द्रतमसि ॥ २३॥

वरेण्यो भूशुण्डिर्भृगु-गुरु-कुजा-मुद्गलमुखा
ह्यपारास्तद्भक्ता जप-हवन-पूजा-स्तुतिपराः ।
गणेशोऽयं भक्तप्रिय इति च सर्वत्र गदितं
विभक्तिर्यत्रास्ते स्वयमपि सदा तिष्ठति गणः ॥ २४॥

मृदः काश्चिद्धातोश्छद- विलिखिता वाऽपि दृषदः
स्मृता व्याजान्मूर्तिः पथि यदि बहिर्येन सहसा ।
अशुद्धोऽद्धा द्रष्टा प्रवदति तदाह्वां गणपतेः
श्रुत्वा शुद्धो मर्त्यो भवति दुरिताद् विस्मय इति ॥ २५॥

बहिर्द्वारस्योर्ध्वं गजवदन-वर्ष्मेन्धनमयं
प्रशस्तं वा कृत्वा विविध कुशलैस्तत्र निहितम् ।
प्रभावात्तन्मूर्त्या भवति सदनं मंगलमयं
विलोक्यानन्दस्तां भवति जगतो विस्मय इति ॥ २६॥

सिते भाद्रे मासे प्रतिशरदि मध्याह्नसमये
मृदो मूर्ति कृत्वा गणपतितिथौ ढुण्ढिसदृशीम् ।
समर्चन्त्युत्साहः प्रभवति महान् सर्व सदने
विलोक्यानन्दस्ताम् प्रभवति नृणां विस्मय इति ॥२७।

तथा ह्येकः श्लोको वरयति महिम्नो गणपतेः
कथं स श्लोके ऽस्मिन् स्तुत इति भवेत् सम्प्रपठिते ।
स्मृतं नामास्यैकं सकृदिदमनन्ताह्वयसमं
यतो यस्यैकस्य स्तवनसदृशं नाऽन्यदपरम् ॥ २८॥

गजवदन विभो यद्- वर्णितं वैभवं ते
त्विह जनुषि ममेत्थं चारु तद्दर्शयाशु ।
त्वमसि च करुणायाः सागरः कृत्स्नदाता-
अप्यति तव भृतकोऽहं सर्वदा चिन्तकोऽस्मि ॥ २९॥

सुस्तोत्रं प्रपठतु नित्यमेतदेव स्वानन्दं
प्रति गमनेऽप्ययं सुमार्गः ।
सचिन्त्यं स्वमनसि तत्पदारविन्दं
स्थाप्याग्रे स्तवनफलं नतीः करिष्ये ॥ ३०॥

गणेशदेवस्यं महात्म्यमेतद् यः श्रावयेद्वाऽपि पठेच्च तस्य ।
क्लेशा लयं यान्ति लभेच्च शीघ्रं स्त्री-पुत्र-
विद्यार्थ-गृहं च मुक्तिम् ॥ ३१॥

॥ इति श्रीपुष्पदन्तविरचितं श्रीगणेशमहिम्नः स्तोत्रं

सम्पूर्णम् ॥


Proofread by Ravin Bhalekar ravibhalekar at hotmail.com

Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Ganesha Mahimna Stotram Lyrics in Devanagari PDF
% File name : gaNeshamahimnastotra.itx
% Location : doc\_ganesha
% Author : pushpadanta
% Language : Sanskrit
% Subject : hinduism/religion
% Transliterated by : Available at webdunia.com
% Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com
% Latest update : April 23, 2004
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 12, 2015 ] at Stotram Website