श्रीगणेशाय नमः । सनकाद्या ऊचुः । धन्योऽसि नृपशार्दूल बुद्धिस्ते परमाद्भुता । निर्वेदं राजभोगेभ्यः संप्राप्तः पृथुलश्रवाः ॥ १॥ योगशन्तिमयं पूर्णं गणेशं विद्धि भूमिप । तं भजस्व महाभक्त्या तया शान्तिं गमिष्यसि ॥ २॥ एकदा स्म वयं सर्वे सङ्गताः शङ्करालयम् । वटमूले समासीनं पश्यामो ध्यानसंस्थितम् ॥ ३॥ तम् प्रणम्य स्थिताः सर्वे वयं विनयसंस्थिताः । स्तोत्रैस्तं बोधयन्तश्च बुबोध वै शिवस्ततः ॥ ४॥ त्यक्त्वा ध्यानं गणेशाय नमो वदतमादरात् । श्रुत्वा भ्रान्ता वयं तस्मै पृच्छामः संशयान्विताः ॥ ५॥ कोऽसौ गणाधिपः स्वामिन्नमसि त्वं कथं प्रभो । शिवः सहजरूपस्त्वं स्वाधीनः सततं मतः ॥ ६॥ अस्माकं वचनं श्रुत्वा शिवो हर्पसमन्वितः । जगाद ज्ञानमाद्यं यद्गाणपत्यं स शान्तिदम् ॥ ७॥ श्रीशिव उवाच । ब्रह्म यत्कथ्यते वेदैः कथं तत्र प्रवर्तते । स्वाधीनं सहजं विप्रापराधीनं त्रिधाभवम् ॥ ८॥ कर्मयोगादिभेदेन वेदेषु वेदवादिभिः । नानाविधं वर्णितं यद् ब्रह्म तन्माययान्वितम् ॥ ९॥ कर्मणां सकलानां संयोगो ब्रह्मणि जायते । तेन कर्मात्मकं ब्रह्म तदज्ञानाधिकं मतम् ॥ १०॥ समूहात्मकशब्दश्च गण इत्यभिधीयते । बाह्यान्तराधिभेदेनासंयोगे समूहो मतः ॥ ११॥ अन्नप्राणादिकाः शब्दा ब्रह्मणो वाचका मताः । ते सर्वे गणरूपाश्च तेषां स्वामी गणेश्वर ॥ १२॥ संयोगाऽयोगकाद्या ये नाना योगा मता बुधैः । योगानां योगरूपोऽयं गणेशो नात्र संशयः ॥ १३॥ गणो योगात्मकः प्रोक्तस्तसमात्तस्य गणा वयम् । योगरूपं विशेषेण नमामो भक्तिसंयुताः ॥ १४॥ माया विघ्नात्मिका प्रोक्ता भ्रान्तिदा बिम्बभावतः । तां जयन्ति जना ईशा विघ्नराजस्य सेवया ॥ १५॥ भवन्ति ते ब्रह्मभूता योगीन्द्रा गाणपाः स्मृताः । अहं गणेशरूपो वै भिन्नं मायामयं मतम् ॥ १६॥ चित्तं पञ्चविधं प्रोक्तं सा बुद्धिर्विविधात्मिका । तत्रैश्चर्यं च यत्प्रोक्तं सिद्धिदः सा परमाद्भुता ॥ १७॥ तत्र यद् बिम्बभावेन गणेशः प्रतितिष्ठति । मायाभ्यां मोहितोऽत्यन्तं सर्वत्रासौ विराजते ॥ १८॥ बिम्बभावं परित्यजय गणेशस्यैव सेवया । पञ्चधा चित्तमुत्सृज्य स्वयं चिन्तामणिर्भवेत् ॥ १९॥ गणेशोऽहं यदा विप्रास्तदा कुत्र प्रवर्तते । संयोगो मे तथा योगः शान्तियोगं लभेत्ततः ॥ २०॥ न भिन्नोऽहं कदा तस्माद्गणेशान्नात्र संशयः । योगीन्द्रः शान्तियोगेन ब्रह्मभूतो भविष्यति ॥ २१॥ एतदेव मदीयं यद्गुह्यं ध्यानं प्रकीर्तितम् । अतो गणेशदासोऽहं तं नमामि सदा द्विजाः ॥ २२॥ एवमुक्त्वा महायोगी वीरराम स शङ्करः । उच्छिन्नसंशया जाताः सनकाद्या वयं नृप ॥ २३॥ विचरामो महीमेताम् स्वर्गेषु विवरेषु । योगमार्गेण योगीशा गाणपत्यस्वभावतः ॥ २४॥ गणेशदर्शने जाता लालसा वयमादरात् । तस्मिन्काले गणाधीशः कश्यपस्यात्मजोऽभवत् ॥ २५॥ काशीराजो महाभक्तो गाणपत्यपरायणः । तस्य गृहे गतो देवः स्वकीयाचार्यसाधनात् ॥ २६॥ दर्शनार्थं वयं तत्र गताः काश्यां महामते । दर्शयामो गणेशं स्म ब्रह्मचारिस्वरूपिणम् ॥ २७॥ तम् प्रणम्य वयं राजन् स्थिता भक्त्या समन्विताः । बालरूपधरं देवं स्तुमः स्म बालयूथगम् ॥ २८॥ सनकाद्या ऊचुः । नमो विनायकायैव कश्यपप्रियसूनवे । अदितेर्जठरोत्पन्न ब्रह्मचारिन्नमोऽस्तु ते ॥ २९॥ गणेशाय सदा मायाधाराय तद्विवर्जित । भक्त्य्धीनाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ३०॥ तद् ब्रह्म शाश्वतं देव ब्रह्मणां पतिरञ्जसा । योयायोगादिभेदेन क्रीडसे नात्र संशयः ॥ ३१॥ आदिमध्यान्तरूपस्त्वं प्रकृतिः पुरुषस्तथा । नादानन्दौ च सूक्षस्त्वं स्थूलरूपो भवान् प्रभो ॥ ३२॥ सुरासुरमयः साक्षान्नरनागस्वरूपधृक् । जलस्थलादिभेदेन शोभसे त्वं गजानन ॥ ३३॥ सर्वेभ्यो वर्जितस्त्वं वै मायाहीनः स्वरूपधृक् । मायामायिकरूपश्च को जानाति गतिं पराम् ॥ ३४॥ कथं स्तुमो गणाधीशं योगाकारमयं सदा । देवा न शंभुमुख्याश्च शक्ताः स्तोतुं कदाचन ॥ ३५॥ वयं धन्या वयं धन्या येन प्रत्यक्षतां गतः । अस्माकं योगिनां ढुण्ढे कुलदेवस्त्वमञ्जसा ॥ ३६॥ इत्युक्त्वा मौनमास्थाय ननाम दण्डवच्च तम् । उवाच नो गणाधीशो भक्तिभावनियन्त्रितः ॥ ३७॥ विनायक उवाच । भवद्भिर्यत्कृतं स्तोत्रं मदीयं योगशान्तिदम् । भविष्यति महाभागाः पठतः शृण्वतः सदा ॥ ३८॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रभावतः । भवन्तो गाणपत्याश्च भविष्यथ यथा शिवः ॥ ३९॥ एवमुक्त्वा स्वयं बालश्चिक्रीड प्राकृतो यथा । बालकैः सह योगात्मा काश्यपः पूर्ववन्नृपः ॥ ४०॥ वयं काशीपते राजन् दर्शनार्थं गतास्ततः । तेनापि मानिताः सम्यक् भुक्त्वा च स्वपदे पुनः ॥ ४१॥ एतत्ते कथितं सर्वं योगशान्तिमयं महत् । ज्ञानं पूर्णं गणेशाख्यं तं भजस्व गणाधिपं ॥ ४२॥ इति श्रीमुद्गलपुराणान्तर्गतं गणेशस्तोत्रं समाप्तम् । Encoded and proofread by Karthik Chandan.P (kardan5380@yahoo.com) Amith K Nagaraj (amithkn@rediffmail.com) % File name : yogashAntigaNesha.itx % Text title : yogashAntiGYAnapradaM gaNeshastotram % Texttype : stotra % Author : Traditional % Subject : philosophy/hinduism/religion % Transliterated by : Karthik Chandan.P (kardan5380@yahoo.com) Amith K Nagaraj (amithkn@rediffmail.com) % Proofread by : Karthik Chandan.P (kardan5380@yahoo.com) Amith K Nagaraj (amithkn@rediffmail.com) % Description/comments : mudgalapurANa % Latest update : January 2, 2004 % Send corrections to : sanskrit@cheerful.com This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.