श्रीगणेशाय नमः । लक्ष्मीर्यस्य परिग्रहः कमलभूः सूनुर्गरुत्मान् रथः पौत्रश्चन्द्रविभूषणः सुरगुरुः शेपश्च शय्यासनः । ब्रह्माण्डं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः स त्रेलोक्यकुटुम्बपालनपरः कुर्यात् सदा मङ्गलम् ॥ १॥ ब्रह्मा वायुगिरिशशेषगरुडा देवेन्द्रकामौ गुरुश्चन्द्रार्कौ वरुणानलौ मनुयमौ वित्तेशविघ्नेश्वरौ । नासत्यौ निरृतिर्मरुद्गणयुताः पर्जन्यमित्रादयः सस्त्रीकाः सुरपुङ्गवाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ २॥ विश्वामित्रपराशरौर्वभृगवोऽगस्त्यः पुलस्त्यः क्रतुः श्रीमानत्रिमरीचिकौत्सपुलहाः शक्तिर्वसिष्ठोऽङ्गिराः । माण्डवयो जमदग्निगौतमभरद्वाजादयस्तापसाः श्रीमद्विश्णुपदाब्जभक्तिनिरताः कुर्वन्तु वो मङ्गलम् ॥ ३॥ मान्धाता नहुषोऽम्बरीषसगरौ राजा पृथुर्हैहयः श्रीमान् धर्मसुतो नलो दशरथो रामो ययातिर्यदुः । इक्ष्वाकुश्च विभीश्णश्च भरतश्चोत्तानपादध्रुवावित्याद्या भुवि भूभुजः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ४॥ श्रीमेरुर्हिमवाँश्च मन्दरगिरिः कैलासशैलस्तथा माहेन्द्रो मलयश्च विन्ध्यनिषधौ सिंहस्तथा रैवतः । सह्याद्रिर्वरगन्धमादनगिरिर्मैनाकगोमन्तकावित्याद्या भुवि भूभृतः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ५॥ गङ्गा सिन्धुसरस्वती च यमुना गोदावरी नर्मदा कृष्णा भीमरथी च फल्गुसरयूः श्रीगण्डकी गोमती । कावेरीकपिलाप्रयागविनतावेत्रावतीत्यादयो नद्यः श्रीहरिपादपङ्कजभवाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ६॥ वेदाश्चोपनिषद्गणाश्च विविधाः साङ्गा पुराणान्विता वेदान्ता अपि मन्त्र-तन्त्रसहितास्तर्कस्मृतीनां गणाः । काव्यालङ्कृतिनीतिनातकगणाः शब्दाश्च नानाविधाः श्रीविष्णोर्गुणराशिकीर्तनकराः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ७॥ आदित्यादिनवग्रहाः शुभकरा मेषादयो राशयो नक्षत्राणि सयोगकाश्च तिथयस्तद्देवतस्तद्गणाः । मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयाः सर्वे स्थावरजङ्गमाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ८॥ इत्येतद्वरमङ्गलाष्टकमिदं श्रीवादिराजेश्वरैर्व्याखातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् । माङ्गल्यादिशुभक्रियासु सततं सन्ध्यासु वा याः पठेद्धर्मार्थादिसमस्तवाञ्छितफलं प्राप्नोत्यसौ मानवाः ॥ ९॥ इति श्रीमद्वादिराजविरचितं सर्वमङ्गलाष्टकं संपूर्णम् । Encoded and proofread by Karthik Chandan.P (kardan5380@yahoo.com) Amith K Nagaraj (amithkn@rediffmail.com) % File name : sarvamangala8.itx % Text title : sarvamaNgalAShTakam % Author : Traditional % Subject : philosophy/hinduism/religion % Transliterated by : Karthik Chandan.P (kardan5380@yahoo.com) Amith K Nagaraj (amithkn@rediffmail.com) % Proofread by : Karthik Chandan.P (kardan5380@yahoo.com) Amith K Nagaraj (amithkn@rediffmail.com) % Description/comments : mudgalapurANa % Latest update : January 2, 2004 % Send corrections to : sanskrit@cheerful.com This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.