सुन्दरकाण्डरामायणनिर्णयः
{॥ सुन्दरकाण्डरामायणनिर्णयः ॥}
रामाय शाश्वतसुविस्तृतषड्गुणाय
सर्वेश्वराय बलवीर्यमहार्णवाय ।
नत्वा लिलङ्घयिषुरर्णवमुत्पपात
निष्पीड्य तं गिरिवरं पवनस्य सूनुः ॥ १॥
चुक्षोभ वारिधिरनुप्रययौ च शीघ्रं
यादोगणैः सह तदीयबलाभिकृष्टः ।
वृक्षाश्च पर्वतगताः पवनेन पूर्वं
क्षिप्तोऽर्णवे गिरिरुदागमदस्य हेतोः ॥ २॥
शैलो हरस्य गिरिपक्षविनाशकाले
क्षिप्तोऽर्णवे स मरुतोर्वरितात्मपक्षः ।
हैमो गिरिः पवनजस्य तु विक्रमार्थ-
मुद्भिद्य वारिधिमवर्धदनेकसानुः ॥ ३॥
नैवात्र विक्रमणमैच्छदविश्रमोऽसौ
निःसीमपौरुषबलस्य कुतः श्रमोऽस्य ।
आश्लिष्य पर्वतवरं स ददर्श गच्छन्
देवैस्तु नागजननीं प्रहितां वरेण ॥ ४॥
जिज्ञासुभिर्निजबलं तव भक्षमेतु
यद्यत्त्वमिच्छसि तदित्यमरोदितायाः ।
आस्यं प्रविश्य सपदि प्रविनिःसृतोऽस्मात्
देवाननन्दयदुत स्वकमेषु रक्षन् ॥ ५॥
दृष्ट्वा सुरप्रणयितां बलमस्य चोग्रं
देवाः प्रतुष्टुवुरमुं सुमनोऽभिवृष्ट्या ।
तैरादृतः पुनरसौ वियतैव गच्छन्
छायाग्रहं प्रतिददर्श च सिंहिकाख्यम् ॥ ६॥
लङ्कावनाय सकलस्य च निग्रहेऽस्याः
सामर्थ्यमप्रतिहतं प्रददौ विधाता ।
छायामवाक्षिपदसौ पवनात्मजस्य
सोऽस्याः शरीरमनुविश्य बिभेद चाशु ॥ ७॥
निःसीममात्मबलमित्यसुदर्शयानो
हत्वैव तामपि विधातृवराभिगुप्ताम् ।
लम्बे स लम्बशिखरे निपपात लङ्का-
प्राकाररूपकगिराथ च सञ्चुकोचे ॥ ८॥
भूत्वा बिडालसमितो निशि तां पुरीं च
प्राप्स्यन् ददर्श निजरूपवतीं स लङ्काम् ।
रुद्धोऽनयाऽऽश्वथ विजित्य च तां स्वमुष्टि-
पिष्टां तयानुमत एव विवेश लङ्काम् ॥ ९॥
मार्गमाणो बहिश्चान्तः सोऽशोकवनिकातले ।
ददर्श शिंशपावृक्षमूलस्थितरमाकृतिम् ॥ १०॥
नरलोकविडम्बस्य जानन् रामस्य हृद्गतम् ।
तस्य चेष्टानुसारेण कृत्वा चेष्टाश्च संविदम् ॥ ११॥
तादृक्चेष्टासमेताया अङ्गुलीयमदात्ततः ।
सीताया यानि चैवासन्नाकृतेस्तानि सर्वशः ॥ १२॥
भूषणानि द्विधा भूत्वा तान्येवासन् तथैव च ।
अथ चूडामणिं दिव्यं दातुं रामाय सा ददौ ॥ १३॥
यद्यप्येतन्न पश्यन्ति निशाचरगणास्तु ते ।
द्युलोकचारिणः सर्वे पश्यन्त्यृषय एव च ॥ १४॥
तेषां विडम्बनायैव दैत्यानां वञ्चनाय च ।
पश्यतां कलिमुख्यानां विडम्बोऽयं कृतो भवेत् ॥ १५॥
कृत्वा कार्यमिदं सर्वं विशङ्कः पवनात्मजः ।
आत्माविष्करणे चित्तं चक्रे मतिमतां वरः ॥ १६॥
अथ वनमखिलं तद्रावणस्यावलम्ब्य
क्षितिरुहमिममेकं वर्जयित्वाऽऽशु वीरः ।
रजनिचरविनाशं कांक्षमाणोऽतिवेलं
मुहुरतिरवनादी तोरणं चारुरोह ॥ १७॥
अथाशृणोद्दशाननः कपीन्द्रचेष्टितं परम् ।
दिदेश किङ्करान् बहून् कपिर्निगृह्यतामिति ॥ १८॥
समस्तशो विमृत्यवो वराद्धरस्य किङ्कराः ।
समासदन्महाबलं सुरान्तरात्मनोऽङ्गजम् ॥ १९॥
अशीतिकोटियूथपं पुरःसराष्टकायुतम् ।
अनेकहेतिसङ्कुलं कपीन्द्रमावृणोद्बलम् ॥ २०॥
समावृतस्तथाऽऽयुधैः स ताडितश्च तैर्भृशम् ।
चकार तान् समस्तशस्तलप्रहारचूर्णितान् ॥ २१॥
पुनश्च मन्त्रिपुत्रकान् स रावणप्रचोदितान् ।
ममर्द सप्तपर्वतप्रभान् वराभिरक्षितान् ॥ २२॥
बलाग्रगामिनस्तथा स शर्ववाक्सुगर्वितान् ।
निहत्य सर्वरक्षसां तृतीयभागमक्षिणोत् ॥ २३॥
अनौपमं हरेर्बलं निशम्य राक्षसाधिपः ।
कुमारमक्षमात्मनः समं सुतं न्ययोजयत् ॥ २४॥
स सर्वलोकसाक्षिणः सुतं शरैर्ववर्ष ह ।
शितैर्वरास्त्रमन्त्रितैर्न चैनमभ्यचालयत् ॥ २५॥
स मण्डमध्यगासुतं समीक्ष्य रावणोपमम् ।
तृतीय एष भांशको बलस्य हीत्यचिन्तयत् ॥ २६॥
निधार्य एव रावणो राघवस्य नान्यथा ।
युधीन्द्रजिन्मया हतो न चास्य शक्तिरीक्ष्यते ॥ २७॥
अतस्तयोः समो मया तृतीय एष हन्यते ।
विचार्य चैवमाशु तं पदोः प्रगृह्य पुप्लुवे ॥ २८॥
स चक्रवद्भ्रमातुरं विधाय रावणात्मजम् ।
अपोथयद्धरातले क्षणेन मारुतीतनुः ॥ २९॥
विचूर्णिते धरातले निजे सुते स रावणः ।
निशम्य शोकतापितस्तदग्रजं समादिशत् ॥ ३०॥
अथेन्द्रजिन्महाशरैर्वरास्त्रसम्प्रयोजितैः ।
ततश्च वानरोत्तमं न चाशकद्विचालने ॥ ३१॥
अथास्त्रमुत्तमं विधेर्मुमोच सर्वदुःसहम् ।
स तेन ताडितो हरिर्व्यचिन्तयन्निराकुलः ॥ ३२॥
मया वरा विलङ्घिता ह्यनेकशः स्वयम्भुवः ।
स माननीय एव मे ततोऽत्र मानयाम्यहम् ॥ ३३॥
इमे च कुर्युरत्र किं प्रहृष्टरक्षसां गणाः ।
इतीह लक्ष्यमेव मे स रावणश्च दृश्यते ॥ ३४॥
इदं समीक्ष्य बद्धवत् स्थितं कपीन्द्रमाशु ते ।
बबन्धुरन्यपाशकैर्जगाम चास्त्रमस्य तत् ॥ ३५॥
अथ प्रगृह्य तं कपिं समीपमानयंश्च ते ।
निशाचरेश्वरस्य तं स पृष्टवांश्च रावणः ॥ ३६॥
कपे कुतोऽसि कस्य वा किमर्थमीदृशं कृतम् ।
इतीरितः स चावदत् प्रणम्य राममीश्वरम् ॥ ३७॥
अवेहि दूतमागतं दुरन्तविक्रमस्य माम् ।
रघूत्तमस्य मारुतिं कुलक्षये तवेश्वरम् ॥ ३८॥
न चेत् प्रदास्यसि त्वरन् रघूत्तमप्रियां तदा ।
सपुत्रमित्रबान्धवो विनाशमाशु यास्यसि ॥ ३९॥
न रामबाणधारणे क्षमाः सुरेश्वरा अपि ।
विरिञ्चशर्वपूर्वकाः किमु त्वमल्पसारकः ॥ ४०॥
प्रकोपितस्य तस्य कः पुरः स्थितौ क्षमो भवेत् ।
सुरासुरोरगादिके जगत्यचिन्त्यकर्मणः ॥ ४१॥
इतीरिते वधोद्यतं न्यवारयद्विभीषणः ।
स पुच्छदाहकर्मणे न्ययोजयन्निशाचरान् ॥ ४२॥
अथास्य वस्त्रसञ्चयैः पिधाय पुच्छमग्नये ।
ददुर्ददाह नास्य तन्मरुत्सखो हुताशनः ॥ ४३॥
ममर्ष सर्वचेष्टितं स रक्षसां निरामयः ।
बलोद्धतश्च कौतुकात् प्रदग्धुमेव तां पुरीम् ॥ ४४॥
ददाह चाखिलां पुरीं स्वपुच्छगेन वह्निना ।
कृतिस्तु विश्वकर्मणोऽप्यदह्यतास्य तेजसा ॥ ४५॥
सुवर्णरत्नकारितां स राक्षसोत्तमैः सह ।
प्रदह्य सर्वशः पुरीं मुदान्वितो जगर्ज वै ॥ ४६॥
स रावणं सपुत्रकं तृणोपमं विधाय वै ।
तयोः प्रपश्यतोः पुरीं विधाय भस्मसाद्ययौ ॥ ४७॥
विलङ्घ्य चार्णवं पुनः स्वजातिभिः प्रपूजितः ।
प्रभक्ष्य वानरेशितुर्मधु प्रभुं समेयिवान् ॥ ४८॥
रामं सुरेश्वरमगण्यगुणाभिरामं
सम्प्राप्य सर्वकपिवीरवरैः समेतः ।
चूडामणिं पवनजः पदयोर्निधाय
सर्वाङ्गकैः प्रणतिमस्य चकार भक्त्या ॥ ४९॥
रामोऽपि नान्यदनुदातुममुष्य योग्यम्-
अत्यन्तभक्तिभरितस्य विलक्ष्य किञ्चित् ।
स्वात्मप्रदानमधिकं पवनात्मजस्य
कुर्वन् समाश्लिषदमुं परमाभितुष्टः ॥ ५०॥
इति श्रीमदानन्दतीर्थीयमहाभारततात्पर्यनिर्णये रामचरिते
हनुमत्प्रतियानं सुन्दरकाण्डकथानिर्णयः ॥
From Hanumatstutimanjari, Mahaperiaval Publication
Proofread by PSA Easwaran psaeaswaran at gmail
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Sundarakanda Ramayana Nirnaya Lyrics in Devanagari PDF
% File name : sundarakANDarAmAyaNanirNaya.itx
% Location : doc\_hanumaana
% Author : madAnandatIrtha
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Processed by Sowmya Ramkumar
% Proofread by : PSA Easwaran psaeaswaran at gmail
% Description-comments : From Hanumatstutimanjari, Mahaperiaval Publication
% Latest update : September 18, 2014
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 8, 2015 ] at Stotram Website
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 8, 2015 ] at Stotram Website