शनैश्चरस्तोत्रम्

{॥ शनैश्चरस्तोत्रम् ॥}
अथ शनैश्चरस्तोत्रप्रारम्भः ।
अस्य श्रीशनैश्चरस्तोत्रमहामन्त्रस्य काश्यप ऋषिः ।
अनुष्ट्प्छन्दः ।शनैश्चरो देवता ।
शं बीजम् । नं शक्तिः ।
मं कीलकम् । शनैश्चरप्रसादसिद्ध्यर्थे जपे विनियोगः ।
शनैश्चराय अङ्गुष्ठाभ्यां नमः ।
मन्दगतये तर्जनीभ्यां नमः ।
सौराय अनामिकाभ्यां नमः ।
शुष्कोदराय कनिष्ठिकाभ्यां नमः ।
छायात्मजाय करतलकरपृष्ठाभ्यां नमः ।
शनैश्चराय हृदयाय नमः ।
मन्दगतये शिरसे स्वाहा ।
अधोक्षजाय शिखायै वषट् ।
सौराय कवचाय हुम् ।
शुष्कोदराय नेत्रत्रयाय वौषट् ।
छायात्मजाय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ।
ध्यानम् ।
चापासनो गृध्ररथस्तु नीलः प्रत्यङ्मुखः काश्यपगोत्रजातः ।
सशूलचापेषुगदाधरोऽव्यात् सौराष्ट्रदेशप्रभवश्च सौरिः ॥ १॥

नीलाम्बरो नीलवपुः किरीटी गृध्रासनस्थो विकृताननश्च ।
केयूरहारादिविभूषिताङ्गः सदास्तु मे मन्दगतिः प्रसन्नः ॥ २॥

शनैश्चराय शान्ताय सर्वाभीष्टप्रदायिने ।
नमः सर्वात्मने तुभ्यं नमो नीलाम्बराय च ॥ ३॥

द्वादशाष्टमजन्मानि द्वितीयान्तेषु राशिषु ।
ये ये मे सङ्गता दोषाः सर्वे नश्यन्तु वै प्रभो ॥ ४॥

सूत उवाच ।
शृणुध्वं मुनयः सर्वे शनिपीडाहरं शुभम् ।
शनिप्रीतिकरं स्तोत्रं सर्वाभीष्टफलप्रदम् ॥ ५॥

पुरा कैलासशिखरे पार्वत्यै शङ्करेण च ।
उपदिष्टं शनिस्तोत्रं प्रवक्ष्यामि तपोधनाः ॥ ६॥

रघुवंशेऽतिविख्यातो राजा दशरथः प्रभुः ।
बभूव चक्रवर्ती च सप्तद्वीपाधिपो बली ॥ ७॥

कृत्तिकान्ते शनौ याते दैवज्ञैर्ज्ञापितो हि सः ।
रोहिणीशकटं भित्वा शनिर्यास्यति साम्प्रतम् ॥ ८॥

इत्थं शकटभेदेन सुरासुरभयङ्करम् ।
द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणम् ॥ ९॥

देशाश्च नगरग्रामाः भयभीताः समन्ततः ।
ब्रुवन्ति सर्वलोकानां भयमेतत्समागमम् ॥ १०॥

एवमुक्तस्ततो वाक्यं मन्त्रिभिः सह पार्थिवः ।
व्याकुलं तु जगद्दृष्ट्वा पौरजानपदादिकम् ॥ ११॥

पप्रच्छ प्रयतो राजा वसिष्ठप्रमुखान् ऋषीन् ।
समाधानं किमस्यास्ति ब्रूत मे मुनिसत्तमाः ॥ १२॥

प्रजानां परिरक्षायै सर्वज्ञाः सर्वदर्शिनः ।
तच्छ्रुवा मुनयः सर्वे प्रोचुरस्य बलं महत् ॥ १३॥

शनैश्चरेण शकटे तस्मिन् भिन्ने कुतः प्रजाः ।
अयं योगो ह्यसाध्यं तु शक्रब्रह्मादिभिस्तथा ॥ १४!!

स तु सञ्चिन्त्य मनसा सहसा पुरुषर्षभः ।
समादाय धनुर्दिव्यं दिव्यायुधसमन्वितम् ॥ १५॥

रथमारुह्य वेगेन गतो नक्षत्रमण्डलम् ।
सपादयोजनं लक्षं सूर्यस्योपरि संस्थितम् ॥ १६॥

रोहिणीं पॄष्ठ्तः स्थाप्य राजा दशरथस्तदा ।
रथे तु काञ्चने दिव्ये सर्वरत्नविभूषिते ॥ १७॥

हंसवर्णहयैर्युक्ते महाकेतुसमुच्छ्रिते ॥

दीप्यमानो महारक्तकिरीटकटकादिभिः ॥ १८॥

बभ्राज स तदाकाशे द्वितीय इव भास्करः ।
आकर्णपूर्णचापेन संहारास्त्रं न्ययोजयत् ॥ १९॥

संहारास्त्रं शनिर्दृष्ट्वा सुरासुरभयङ्करम् ।
कृत्तिकान्ते तदा स्थित्वा प्रविशन् किल रोहिणीम् ॥ २०॥

दॄष्ट्वा दशरथं चाग्रे तस्थौ स भ्रुकुटीमुखः ।
हसित्वा तद्भयात्सौरिरिदं वचनमब्रवीत् ॥ २१॥

पौरुषं तव राजेन्द्र सुरासुरभयङ्करम् ।
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥ २२॥

मयावलोकिताः सर्वे दैन्यमाशु व्रजन्ति ते ।
तुष्टोऽहं तव राजेन्द्र तपसा पौरुषेण च ॥ २३॥

वरं ब्रूहि प्रदास्यामि मनसा यदभीप्सितम् ।
दशरथ उवाच ।
(प्रसादं कुरु मे सौरे वरदो यदि मे स्थितः ।)
अद्य प्रभृति मे राष्ट्रे पीडा कार्या न कस्यचित् ॥ २४॥

रोहिणीं भेदयित्वा तु न गन्तव्यं त्वया शने ।
सरितः सागराः सर्वे यावच्चन्द्रार्कमेदिनी ॥ २५॥

द्वादशाब्दं तु दुर्भिक्षं न कदाचिद्भविष्यति ।
याचितं तु मया सौरे नान्यमिच्छाम्यहं वरम् ॥ २६॥

एवमस्त्विति सुप्रीतो वरं प्रादात्तु शाश्वतम् ।
कीर्तिरेषा त्वदीया च त्रैलोक्ये सम्भविष्यति ॥ २७॥

प्राप्य चैनं वरं राजा कृतकृत्योऽभवत्तदा ।
एवं वरं तु सम्प्राप्य हृष्टरोमा स पार्थिवः ॥ २८॥

रथोपस्थे धनुः स्थाप्य भूत्वा चैव कृताञ्जलिः ।
ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम् ॥ २९॥

राजा दशरथः स्तोत्रं सौरेरिदमथाकरोत् ।
दशरथ उवाच ।
नमः कृष्णाय नीलाय शिखिकण्ठनिभाय च ॥ ३०॥

नमो नीलमुखाब्जाय नीलोत्पलनिभाय च ।
नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च ॥ ३१॥

नमो विशालनेत्राय शुष्कोदर भयानक ।
नमः परुषनेत्राय स्थूलरोंणे नमो नमः ॥ ३२॥

नमो नित्यं क्षुधार्ताय अतृप्ताय नमो नमः ।
नमो दीर्घाय शुष्काय कालदंष्ट्राय ते नमः ॥ ३३॥

नमस्ते घोररूपाय दुर्निरीक्ष्याय ते नमः ।
नमो घोराय रौद्राय भीषणाय कराळिने॥ ३४॥

नमस्ते सर्वभक्षाय वलीमुख नमो।स्तु ते ।
सूर्यपुत्र नमस्तेस्तु भास्करोऽभयदायिने ॥ ३५॥

अधोदृष्टे नमस्तेऽस्तु संवर्तक नमो नमः ।
नमो मन्दगते तुभ्यं निस्त्रिंशाय नमो नमः ॥ ३६॥

नमो दुःसहदेहाय नित्ययोगरताय च ।
ज्ञानदृष्टे नमस्तेऽस्तु कश्यपात्मजसूनवे ॥ ३७॥

तुष्टो ददासि त्वं राज्यं क्रुद्धो हरसि तत्क्षणात् ।
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥ ३८॥

त्वयावलोकिताः सर्वे दैन्यमाशु व्रजन्ति ते ।
ब्रह्मा शक्रो यमश्चैव ऋषयः सप्त सागराः ॥ ३९॥

राज्यभ्रष्टा भवन्तीह तव दृष्ट्यावलोकिताः ।
देशाश्च नगरग्रामाः द्वीपाश्च गिरयस्तथा ॥ ४०॥

सरितः सागराः सर्वे नाशं यान्ति समूलतः ।
प्रसादं कुरु मे सौरे वरदोऽसि महाबल ॥ ४१॥

एवमुक्तस्तदा सौरिः ग्रहराजो महाबलः ।
अब्रवीच्च शनिर्वाक्यं हृष्टरोमा स भास्करिः ॥ ४२॥

शनिरुवाच।
तुष्टोऽहं तव राजेन्द्र स्तोत्रेणानेन सुव्रत ।
वरं ब्रूहि प्रदास्यामि मनसा यदभीप्सितम् ॥ ४३॥

दशरथ उवाच ।
प्रसन्नो यदि मे सौरे पीडां कुरु न कस्यचित् ।
देवासुरमनुष्याणां पशुपन्नगपक्षिणाम् ॥ ।४४॥
शनिरुवाच ।
ग्रहणाच्च ग्रहाज्ञेयाः ग्रहाः पीडाकराः स्मॄताः ।
अदेयोऽपि वरोऽस्माभिः तुष्टोऽहं तु ददामि ते ॥ ४५॥

देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ।
पशुपक्षिमृगा वृक्षाः पीडां मुञ्चन्तु सर्वदा ॥ ४६॥

त्वया प्रोक्तमिदं स्तोत्रं यः पठेदिह मानवः ।
एककालं क्वचित्कालं पीडां मुञ्चामि तस्य वै ॥ ४७॥

मृत्युस्थानगतो वापि जन्मव्ययगतोऽपि वा ।
पठति श्रद्धया युक्तः शुचिः स्नात्वा समाहितः ॥ ४८॥

शमीपत्रैः समभ्यर्च्य प्रतिमां लोहजां मम ।
माषौदनं तिलैर्मिश्रं दद्याल्लोहं तु दक्षिणाम् ॥ ४९॥

कृष्णाङ्गां महिषीं वस्त्रं मामुद्दिश्य द्विजातये ।
मद्दिने तु विशेषेण स्तोत्रेणानेन पूजयेत् ॥ ५०॥

पूजयित्वा जपेत्स्तोत्रं भुक्त्वा चैव कृताञ्जलिः ।
तस्य पीडां न चैवाहं करिष्यामि कदाचन ॥ ५१॥

गोचरे जन्मलग्ने वा दशास्वन्तर्दशासु च ।
रक्षामि सततं तस्य पीडास्वन्यग्रहस्य च ॥ ५२॥

अनेनैव प्रकारेण पीडामुक्तं जगद्भवेत् ।
सूत उवाच ।
वरद्वयं तु सम्प्राप्य राजा दशरथस्तदा ॥ ५३॥

मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरम् ।
शनिना चाभ्यनुज्ञातः स्वस्थानमगमत् नृपः ॥ ५४॥

स्वस्थानं च ततो गत्वा प्राप्तकामोऽभवत्तदा ।
कोणः शनैश्चरो मन्दः छायाहृदयनन्दनः ॥ ५५॥

मार्ताण्डजस्तथा सौरिः पातङ्गिर्ग्रहनायकः ।
ब्रह्मण्यः क्रूरकर्मा च नीलवस्त्रोऽञ्जनद्युतिः ॥ ५६॥

द्वादशैतानि नामानि यः पठेच्च दिने दिने ।
विषमस्थोऽपि भगवान् सुप्रीतस्तस्य जायते ॥ ५७॥

मन्दवारे शुचिः स्नात्वा मिताहारो जितेन्द्रियः ।
तद्वर्णकुसुमैर्युक्तं सर्वाङ्गं द्विजसत्तमाः ॥ ५८॥

पूरयित्वान्नपानाद्यैः स्तोत्रं यः प्रयतः पठेत् ।
पुत्रकामो लभेत्पुत्रं धनकामो लभेद्धनम् ॥ ५९॥

राज्यकामो लभेद्राज्यं जयार्थी विजयी भवेत् ।
आयुष्कामो लभेदायुः श्रीकामः श्रियमाप्नुयात् ॥ ६०॥

यद्यदिच्छति तत्सर्वं भगवान् भक्तवत्सलः ।
चिन्तितानि च सर्वाणि ददाति च न संशयः ॥ ६१॥

इति श्री दशरथमहाराजकृतं शनैश्चरस्तोत्रं सम्पूर्णम् ।

Encoded and proofread by KSR Ramachandran ramachandran\_ksr at yahoo.ca

Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Shanaishchara Stotram 2 Lyrics in Devanagari PDF
% File name : shanaishcharastotram.itx
% Location : doc\_z\_misc\_navagraha
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : KSR Ramachandran ramachandran\_ksr at yahoo.ca
% Proofread by : KSR Ramachandran ramachandran\_ksr at yahoo.ca
% Description-comments : From Grantha/Tamil book Adityadi Navagraha Stotra
% Latest update : June 28, 2012
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 8, 2015 ] at Stotram Website