श्री गणेशायनमः । राधाकृष्णावूचतुः । पुष्टिपते नमस्तुभ्यं नमः शङ्करसूनवे । ब्रह्मभूताय देवाय सर्वसिद्धिप्रदाय ते ॥ १॥ स्वानन्दवासिने तुभ्यं ब्रह्मपुत्राय ते नमः । सिद्धिबुद्धिपते ते वै गणेशाय नमो नमः ॥ २॥ हेरम्बाय नमस्तुभ्यं नमो योगमयाय च । सर्वादये च सर्वेश सर्वज्ञाय नमो नमः ॥ ३॥ निर्गुणाय नमस्तुभ्यं सगुणाय नमो नमः । गजाननाय वै तुभ्यमभेदाय नमो नमः ॥ ४॥ शान्तिरूपाय शान्ताय शान्तिदाय महोदर । मूषकवाहनायैव गाणपत्यप्रियाय ते ॥ ५॥ अनन्तानन्तरूपाय भक्तसंरक्षणाय च । भक्तिप्रियाय देवाय भक्‍त्यधीनाय ते नमः ॥ ६॥ चतुर्बाहुधरायैव नागयज्ञोपवीतिने । शूर्पकर्णाय शूराय परशुधर ते नमः ॥ ७॥ विष्णुपुत्राय सर्वेषां पित्रे मात्रे नमो नमः । विनायकाय विप्राणां पुत्राय ते नमो नमः ॥ ८॥ सर्वेषां गर्वहन्‍त्रे च सर्वेभ्यः सुखदाय ते । लम्बोदराय विघ्नेश ब्रह्मनायक ते नमः ॥ ९॥ किम् स्तुवस्त्वां गणाधीश यत्र वेदादयः प्रभो । शुकशम्भ्वादयश्चैव बभूवुः कुण्ठिताः परम् ॥ १०॥ आवां गर्वयुतौ जातौ ब्रह्माकारौ वृथा प्रभो । तत्र त्वया च विघ्नेन कृतं गर्वस्य खण्डनम् ॥ ११॥ साधूनां विघ्नहर्ता त्वं शान्तियोगार्थमञ्जसा । असाधूनां विनाशाय ह्यतस्त्वां प्रणमामहे ॥ १२॥ विघ्नयुक्ततया ढुण्ढे आवाभ्यां योगसेवया । साक्षात्कारः कृतस्त्वं वै समीचीनमिदं कृतम् ॥ १३॥ हृदि चिन्तामणिं त्वां च पश्यावः सततं प्रभो । अतः सुशुभदो विघ्नः सञ्जातो नो गजानन ॥ १४॥ अधुना देहि विघ्नेश भक्तिं ते चरणाम्बुजे । दृढां यया च गर्वेण न भवावः समायुतौ ॥ १५॥ इत्युक्‍त्वा तं प्रणम्यैव ननृततुर्मुदान्वितौ । धन्यौ प्रब्रुवतौ धन्यौ दर्शनाद्गणपस्य तौ ॥ १६॥ ब्रह्मोवाच । ततस्तौ गणनाथो वै जगाद भक्तिभावतः । दृष्ट्वा प्रेमरसाह्लादयुक्तौ राधाजनार्दनौ ॥ १७॥ श्रीपुष्टिपतिरुवाच । भो राधे कृष्ण मे वाक्यं शृणुतं जगदीश्वरौ । मदीयां भक्तिमत्यन्तं करिष्येथे न संशयः ॥ १८॥ सङ्कटे स्मरणेनैव प्रकटः सम्भवाम्यहम् । यं यमिच्छथ आनन्दं सफलं तं भविष्यति ॥ १९॥ भवत्कृतमिदं स्तोत्रं पठनाच्छ्रवणान्नृणाम् । सर्वसिद्धिप्रदं पूर्णं भविष्यति सुरैश्वरौ ॥ २०॥ मत्प्रीतिवर्धनं नित्यं वाञ्छितार्थकरं भवेत् । अन्ते स्वानन्ददं कृष्ण भविष्यति न संशयः ॥ २१॥ इति मौद्गले पुष्टिपतिस्तोत्रं सम्पूर्णम् । Encoded by Karthik Chandan.P (kardan5380@yahoo.com) and Amith K Nagaraj (amithkn@rediffmail.com) Proofread by Ravin Bhalekar ravibhalekar@hotmail.com % File name : sarvasiddhipradaMpuShTipatistotram.itx % Text title : sarvasiddhipradaM puShTipatistotram % Texttype : stotra % Author : Traditional % Subject : philosophy/hinduism/religion % Transliterated by : Karthik Chandan.P (kardan5380@yahoo.com) & Amith K Nagaraj(amithkn@rediffmail.com) % Proofread by : Ravin Bhalekar ravibhalekar@hotmail.com % Description/comments : mudgalapurANa % Latest update : September 16, 2004 % Send corrections to : sanskrit@cheerful.com This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.