श्रीगणेशाय नमः । कपिल उवाच । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ १॥ आकाशाय च भूतानां मनसे चामरेषु ते । बुद्ध्यैरिन्द्रियवर्गेषु त्रिविधाय नमो नमः ॥ २॥ देहानां बिन्दुरूपाय मोहरूपाय देहिनाम् । तयोरभेदभावेषु बोधाय ते नमो नमः ॥ ३॥ साङ्ख्याय वै विदेहानां संयोगानां निजात्मने । चतुर्णां पञ्च मायैव सर्वत्र ते नमो नमः ॥ ४॥ नामरूपात्मकानां वै शक्तिरूपाय ते नमः । आत्मनां रवये तुभ्यं हेरम्बाय नमो नमः ॥ ५॥ आनन्दानां महाविष्णुरूपाय नेति धारिणाम् । शङ्कराय च सर्वेषां संयोगे गणपाय ते ॥ ६॥ कर्मणां कर्मयोगाय ज्ञानयोगाय जानताम्। समेषु समरूपाय लम्बोदर नमोऽस्तु ते ॥ ७॥ स्वाधीनानां गणाध्यक्ष सहजाय नमो नमः । तेषामभेदभावेषु स्वानन्दाय च ते नमः ॥ ८॥ निर्मायिकस्वरूपाणामयोगाय नमो नमः । योगानां योगरूपाय गणेशाय नमो नमः ॥ ९॥ शान्तियोगप्रदात्रे ते शान्तियोगमयाय च । किं स्तौमि तत्र देवेश अतस्त्वां प्रणमाम्यहम् ॥ १०॥ ततस्तं गणनाथो वै जगाद भक्तमुत्तमम् । हर्षेण महता युक्तो हर्षयन्मुनिसत्तम ॥ ११॥ श्रीगणेश उवाच । त्वया कृतं मदीयं यत्स्तोत्रं योगप्रदं भवेत् । धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ १२॥ वरं वरय मत्तस्त्वं दास्यामि भक्तियन्‍त्रितः । त्वत्समो न भवेत्तात तत्त्वज्ञानप्रकाशकः ॥ १३॥ तस्य तद्वचनं श्रुत्वा कपिलस्तमुवाच ह । त्वदीयामचलां भक्तिं देहि विघ्नेश मे पराम् ॥ १४॥ त्वदीयभूषणं दैत्यो हृत्वा सद्यो जगाम ह । ततश्चिन्तामणिं नाथ तं जित्वा मणिमानय ॥ १५॥ यदाहं त्वां स्मरिष्यामि तदात्मानं प्रदर्शय । एतदेव वरं पूर्णं देहि नाथ नमोऽस्तु ते ॥ १६॥ गृत्समद उवाच । तस्य तद्वचनं श्रुत्वा हर्षयुक्तो गजाननः । उवाच तं महाभक्तं प्रेमयुक्तं विशेषतः ॥ १७॥ त्वया यत्प्रार्थितं विष्णो तत्सर्वं प्रभविष्यति । तव पुत्रो भविष्यामि गणासुरवधाय च ॥ १८॥ इति श्रीमुद्गलपुराणे गजाननस्तोत्रं समाप्तम् । Encoded by Karthik Chandan.P (kardan5380@yahoo.com) Amith K Nagaraj (amithkn@rediffmail.com) Proofread by Ravin Bhalekar ravibhalekar@hotmail.com % File name : sarveShTapradaMgajAnanastotram.itx % Text title : sarveShTapradaM gajAnanastotram % Texttype : stotra % Author : Traditional % Subject : philosophy/hinduism/religion % Transliterated by : Karthik Chandan.P (kardan5380@yahoo.com) & Amith K Nagaraj(amithkn@rediffmail.com) % Proofread by : Ravin Bhalekar ravibhalekar@hotmail.com % Description/comments : mudgalapurANe % Latest update : September 16, 2004 % Send corrections to : sanskrit@cheerful.com This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.