श्रीनिवासस्तोत्रम्

{॥ श्रीनिवासस्तोत्रम् ॥}
अथ विबुधविलासिनीषु विष्वङ्मुनिमभितः परिवार्य तस्थुषीषु ।
मदविहृतिविकत्थनप्रलापास्ववमतिनिर्मितनैजचापलासु ॥ १॥

त्रिभुवनमुदमुद्यतासु कर्तुं मधुसहसागतिसर्वनिर्वहासु ।
मधुरसभरिताखिलात्मभावास्वगणितभीतिषु शापतश्शुकस्य ॥ २॥

अतिविमलमतिर्महानुभावो मुनिरपि शान्तमना निजात्मगुप्त्यै ।
अखिलभुवनरक्षकस्य विष्णोः स्तुतिमथ कर्तुमना मनाग्बभूव ॥ ३॥

श्रियःश्रियं षङ्गुणपूरपूर्णं श्रीवत्सचिह्नं पुरुषं पुराणम् ।
श्रीकण्ठपूर्वामरबृन्दवन्द्यं श्रियःपतिं तं शरणं प्रपद्ये ॥ ४॥

विभुं हृदि स्वं भुवनेशमीड्यं नीळाश्रयं निर्मलचित्तचिन्त्यम् ।
परात्परं पामरपारमेनमुपेन्द्रमूर्तिं शरणं प्रपद्ये ॥ ५॥

स्मेरातसीसूनसमानकान्तिं सुरक्तपद्मप्रभपादहस्तम् ।
उन्निद्रपङ्केरुहचारुनेत्रं पवित्रपाणिं शरणं प्रपद्ये ॥ ६॥

सहस्रभानुप्रतिमोपलौघस्फुरत्किरीटप्रवरोत्तमाङ्गम् ।
प्रवालमुक्तानवरत्नहारतारं हरिं तं शरणं प्रपद्ये ॥ ७॥

पुरा रजोदुष्टधियो विधातुरपाहृतान् यो मधुकैटभाभ्याम् ।
वेदानुपादाय ददौ च तस्मै तं मत्स्यरूपं शरणं प्रपद्ये ॥ ८॥

पयोधिमध्येऽपि च मन्दराद्रिं धर्तुं च यः कूर्मवपुर्बभूव ।
सुधां सुराणामवनार्थमिच्छंस्तमादिदेवं शरणं प्रपद्ये ॥ ९॥

वसुन्धरामन्तरदैत्यपीडां (?) रसातलान्तर्विवशाभिविष्टाम् ।
उद्धारणार्थं च वराह आसीच्चतुर्भुजं तं शरणं प्रपद्ये ॥ १०॥

नखैर्वरैस्तीक्ष्णमुखैर्हिरण्यमरातिमामर्दितसर्वसत्त्वम् ।
विदारयामास च यो नृसिंहो हिरण्यगर्भं शरणं प्रपद्ये ॥ ११॥

महन्म हत्वेन्द्रियपञ्चभूततन्मात्रमात्रप्रकृतिः पुराणी ।
यतः प्रसूता पुरुषास्तदात्मा तमात्मनाथं शरणं प्रपद्ये ॥ १२॥

पुरा य एतस्तकलं बभूव येनापि तद्यत्र च लीनमेतत् ।
आस्तां यतोऽनुग्रहनिग्रहौ च तं श्रीनिवासं शरणं प्रपद्ये ॥ १३॥

निरामयं निश्चलनीरराशिनीकाशसद्रूपमयं महस्तत् ।
नियन्तु निर्भातृ निहन्तु नित्यं निद्रान्तमेनं शरणं प्रपद्ये ॥ १४॥

जगन्ति यः स्थावरजङ्गमानि संहृत्य सर्वाण्युदरेशयानि ।
एकार्णवान्तर्वटपत्रतल्पे स्वपित्यनन्तं शरणं प्रपद्ये ॥ १५॥

निरस्तदुःखौघमतीन्द्रियं तं निष्कारणं निष्कलमप्रमेयम् ।
अणोरणीयांसमनन्तमन्तरात्मानुभावं शरणं प्रपद्ये ॥ १६॥

सप्ताम्बुजीरञ्जकराजहासं सप्तार्णवीसंसृतिकर्णधारम् ।
सप्ताश्वबिम्बाश्वहिरण्मयं तं सप्तार्चिरङ्गं शरणं प्रपद्ये ॥ १७॥

निरागसं निर्मलपूर्णबिम्बं निशीथिनीनाथनिभाननाभम् ।
निर्णीतनिद्रं निगमान्तनित्यं निःश्रेयसं तं शरणं प्रपद्ये ॥ १८॥

निरामयं निर्मलमप्रमेयं निजान्तरारोपितविश्वबिम्बम् ।
निस्सीमकल्याणगुणात्मभूतिं निधिं निधीनां शरणं प्रपद्ये ॥ १९॥

त्वक्चर्ममांसास्थ्यसृगश्रुमूत्रश्लेष्मान्त्रविट्च्छुक्लसमुच्चयेषु ।
देहेष्वसारेषु न मे स्पृहैषा ध्रुवं ध्रुवं त्वं भगवन् प्रसीद ॥ २०॥

गोविन्द केशव जनार्दन वासुदेव विश्वेश विश्व मधुसूदन विश्वरूप
श्रीपद्मनाभ पुरुषोत्तम पुष्कराक्ष नारायणाच्युत नृसिंह नमो नमस्ते ॥ २१॥

देवाः समस्तामरयोगिमुख्याः गन्धर्वविद्याधरकिन्नराश्च ।
यत्पादमूलं सततं नमन्ति तं नारसिंहं शरणं प्रपद्ये ॥ २२॥

वेदान् समस्तान् खलु शास्त्रगर्भान् आयुः स्थिरं कीर्तिमतीव लक्ष्मीम् ।
यस्य प्रसादात् पुरुषा लभन्ते तं नारसिंहं शरणं प्रपद्ये ॥ २३॥

ब्रह्मा शिवस्त्वं पुरुषोत्तमश्च नारायणोऽसौ मरुताम्पतिश्च ।
चन्दार्कवाव्यग्निमरुद्गणाश्च त्वमेव नान्यत् सततं नतोऽस्मि ॥ २४॥

स्रष्टा च नित्यं जगतामधीशः त्राता च हन्ता विभुरप्रमेयः
एकस्त्वमेव त्रिविधा विभिन्नः त्वां सिंहमूर्तिं सततं नतोऽस्मि ॥ २५॥

॥ हरिः ॐ शुभमस्तु ॥
॥ इति श्रीनिवासस्तोत्रं सम्पूर्णम् ॥

Encoded and proofread by Malleswara Rao Yellapragada
malleswararaoy at yahoo.com
From a telugu book veNkaTeshakAvyakalApa

Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Srinivasa Stotram Lyrics in Devanagari PDF
% File name : shrInivAsastotram.itx
% Location : doc\_vishhnu
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Source : Venkatesha Kavyakalapa
% Latest update : April 4, 2015
% Send corrections to : sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 10, 2015 ] at Stotram Website