आम्नायस्तोत्रम्
{॥ आम्नायस्तोत्रम् ॥}
अथ रुद्रयामलतः शिवविरचितं आम्नायस्तोत्रम् ।
श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवम् ।
सिद्धौघं वटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् ॥
वीरान्द्व्यष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकम् ।
श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥
(गुरुपादुकामनुमुच्चार्य सुमुखादिभिः
पञ्चमुद्राभिः श्रीगुरुं प्रणम्य)
शुद्धविद्या च बाला च द्वादशार्धा मतङ्गिनी ।
द्विजत्वसाधिनी विद्या गायत्री वेदमातृका ॥ १॥
गाणपत्यं कार्तिकेयं मृत्युञ्जयं नीलकण्ठम् ।
त्र्यम्बकं जातवेदाश्च तथा प्रत्यङ्गिरादयः ॥ २॥
मुखात्तत्पुरुषाज्जाता द्विकोटीमन्त्रनायिकाः ।
एताः कामगिरीन्द्राश्च पूर्वाम्नायस्य देवताः ॥ ३॥
गुरुत्रयादिपीठान्तं चतुर्विंशत्सहस्रकम् ।
एतदावरणोपेतं पूर्वाम्नायं भजाम्यहम् ॥ ४॥
विशुद्धौ चिन्तयेद्धीमान् पूर्वाम्नायस्य देवताः ।
सौभाग्यविद्या बगळा वाराही वटुकस्तथा ॥ ५॥
श्रीतिरस्करिणी प्रोक्ता महामाया प्रकीर्तिता ।
अघोरं शरभं खङ्गरावणं वीरभद्रकम् ॥ ६॥
रौद्रं शास्ता पाशुपताद्यस्त्रशस्त्रादिभैरवाः ।
दक्षिणामूर्तिमन्त्राद्याः शैवागमसमुद्भवाः ॥ ७॥
अघोरमुखसम्भूतं मदंशं कोटिसङ्ख्यकम् ।
पूर्वपीठस्थिता देवि दक्षिणाम्नायदेवताः ॥ ८॥
द्विसहस्रं तु देव्यस्ताः परिवारसमन्विताः ।
भैरवादिपदद्वन्द्वं भजे दक्षिणमुत्तमम् ॥ ९॥
अनाहते चिन्तयेच्च दक्षिणाम्नायदेवताः ।
लोपामुद्रा महादेवी अम्बा च भुवनेश्वरी ॥ १०॥
अन्नपूर्णा कामकला सर्वसिद्धिप्रदायिनी।
सुदर्शनं वैनतेयं कार्तवीर्यं नृसिंहकम् ॥ ११॥
नामत्रयं राममन्त्रं गोपालं सौरमेव च ।
धन्वन्तरीन्द्वजालं च इन्द्रादिसुरमन्त्रकम् ॥ १२॥
दत्तात्रेयं द्वादशाष्टौ वैष्णवागमचोदिताः ।
सद्योजातमुखोद्भूता मन्त्राः स्युः कोटिसङ्ख्यकाः ॥ १३॥
एता जालन्ध्रपीठस्थाः पश्चिमाम्नायदेवताः ।
दूत्यादि च चतुष्षष्टि सिद्धान्तं त्रिसहस्रकम् ॥ १४॥
आम्नाय पश्चिमं वन्दे सर्वदा सर्वकामदम् ।
मणिपूरे चिन्तनीयाः पश्चिमाम्नायदेवताः ॥ १५॥
तुरीयाम्बा महार्धा च अश्वारूढा तथैव च ।
मिश्राम्बा च महालक्ष्मीः श्रीमद्वाग्वादिनी अपि ॥ १६॥
दुर्गा काळी ततश्चण्डी नकुली च पुळिन्दिनी ।
रेणुका लक्ष्मिवागीशमातृकाद्याः स्वयंवरा ॥ १७॥
पञ्चाम्नायसमोपेतं श्रीविद्याख्यं मदंशकम् ।
वामदेवमुखोद्भूता द्विकोटिमन्त्रनायिकाः ॥ १८॥
एता ओड्याणपीठस्थाः शाक्तागमसमुद्भवाः ।
द्विसहस्रं तु देव्यस्ताः परिवारसमन्विताः ॥ १९॥
मुद्रादिनवकं चैव सिद्धानां मिथुनं तथा ।
वीरावळीपञ्चकं च भजेदाम्नायमुत्तरम् ॥ २०॥
स्वाधिष्ठाने चिन्तनीया उत्तराम्नायदेवताः ।
परापरा च सा देवी पराशाम्भवमेव च ॥ २१॥
प्रासादं दहरं हंसं महावाक्यादिकं परम् ।
पञ्चाक्षरं महामन्त्रं तारकं जन्मतारकम् ॥ २२॥
ईशानमुखसम्भूतं स्वात्मानन्दप्रकाशकम् ।
कोटिसङ्ख्या महादेवि मद्रूपाः सर्वसिद्धिदाः ॥ २३॥
एताः शाम्भवपीठस्थाः सहस्रपरिवारिताः ।
आराध्य मालिनीपूर्वं मण्डलान्तं तथैव च ॥ २४॥
सायुज्यहेतुकं नित्यं वन्दे चोर्ध्वमकल्मषम् ।
ऊर्ध्वाम्नायमनून्नित्यं मूलाधारे विभावयेत् ॥ २५॥
पञ्चाम्बा नवनाथाश्च मूलविद्यास्ततः परम् ।
आधारविद्याषट्कं च पुनरङ्घ्रिद्वयं क्रमात् ॥ २६॥
शाम्भवी चाथ हृल्लेखा समया परबोधिनी ।
कौलपञ्चाक्षरी पञ्चदशार्णाऽनुत्तरात्मिका ॥ २७॥
षोडशी पूर्तिविद्या च महात्रिपुरसुन्दरी ।
ऊर्ध्वश्रीपादुकापूर्वं चरणान्तं गुरुक्रमात् ॥ २८॥
पश्चादनुतरं वन्दे परब्रह्मस्वरूपिणीम् ।
अनुत्तराम्नायमनूनाज्ञानाचक्रे विभावयेत् ॥ २९॥
श्रीनाथगुरुमन्त्रादीन् मण्डलान्तं यथाक्रमम् ।
सप्तकोटिमहामन्त्रं द्वादशान्ते सदा स्मरेत् ॥ ३०॥
शुचिर्वाप्यशुचिर्वापि गच्छंस्तिष्ठन् स्वपन्नपि ।
मन्त्रैकशरणो विद्वान् मनसापि सदा स्मरन् ॥ ३१॥
तत्तत्सिद्धिं च साहस्रं जपेत्साधकपुङ्गवः ।
जपान्ते शुद्धमाला च आम्नायस्तोत्रमुत्तमम् ॥ ३२॥
ललितानामसाहस्रं सर्वपूर्तिकरं स्तवम् ।
स्तवराजं च पञ्चैते भक्तः प्रतिदिनं पठेत् ॥ ३३॥
भुक्त्वा भोगान् यथाकामं सर्वभूतहिते रतः ।
सभार्यापुत्रसौभाग्यः सभूतिः पशुमान् भवेत् ॥ ३४॥
एकवारं जपेदेतत् कोटियज्ञफल लभेत् ।
एतद्विज्ञानमात्रेण सर्वेषां देशिकोत्तमः ॥
शिवसायुज्यमाप्नोति शिवयोरेवशासनात् ॥ ३५॥
॥ इति रुद्रयामलतः शिवविरचितं आम्नायस्तोत्रम् ॥
Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Amnaya Stotram ( By Shiva ) Lyrics in Devanagari PDF
% File name : AmnAyastotram.itx
% Location : doc\_devii
% Language : Sanskrit
% Subject : philosophy
% Transliterated by : Sunder Hattangadi sunderh at hotmail.com
% Proofread by : Sunder Hattangadi sunderh at hotmail.com
% Description-comments : rudrayAmalataH shivavirachitaM
% Latest update : October 5, 2015
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 12, 2015 ] at Stotram Website