भुवनेश्वरीकवचम्
{॥ भुवनेश्वरीकवचम् ॥}
श्रीगणेशाय नमः ।
देव्युवाच ।
देवेश भुवनेश्वर्या या या विद्याः प्रकाशिताः ।
श्रुताश्चाधिगताः सर्वाः श्रोतुमिच्छामि साम्प्रतम् ॥ १॥
त्रैलोक्यमङ्गलं नाम कवचं यत्पुरोदितम् ।
कथयस्व महादेव मम प्रीतिकरं परम् ॥ २॥
ईश्वर उवाच ।
श्रृणु पार्वति वक्ष्यामि सावधानावधारय ।
त्रैलोक्यमङ्गलं नाम कवचं मन्त्रविग्रहम् ॥ ३॥
सिद्धविद्यामयं देवि सर्वैश्वर्यसमन्वितम् ।
पठनाद्धारणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत् ॥ ४॥
ॐ अस्य श्रीभुवनेश्वरीत्रैलोक्यमङ्गलकवचस्य शिव ऋषिः ,
विराट् छन्दः , जगद्धात्री भुवनेश्वरी देवता ,
धर्मार्थकाममोक्षार्थे जपे विनियोगः ।
ह्रीं बीजं मे शिरः पातु भुवनेशी ललाटकम् ।
ऐं पातु दक्षनेत्रं मे ह्रीं पातु वामलोचनम् ॥ १॥
श्रीं पातु दक्षकर्णं मे त्रिवर्णात्मा महेश्वरी ।
वामकर्णं सदा पातु ऐं घ्राणं पातु मे सदा ॥ २॥
ह्रीं पातु वदनं देवि ऐं पातु रसनां मम ।
वाक्पुटा च त्रिवर्णात्मा कण्ठं पातु परात्मिका ॥ ३॥
श्रीं स्कन्धौ पातु नियतं ह्रीं भुजौ पातु सर्वदा ।
क्लीं करौ त्रिपुटा पातु त्रिपुरैश्वर्यदायिनी ॥ ४॥
ॐ पातु हृदयं ह्रीं मे मध्यदेशं सदावतु ।
क्रौं पातु नाभिदेशं मे त्र्यक्षरी भुवनेश्वरी ॥ ५॥
सर्वबीजप्रदा पृष्ठं पातु सर्ववशङ्करी ।
ह्रीं पातु गुह्यदेशं मे नमोभगवती कटिम् ॥ ६॥
माहेश्वरी सदा पातु शङ्खिनी जानुयुग्मकम् ।
अन्नपूर्णा सदा पातु स्वाहा पातु पदद्वयम् ॥ ७॥
सप्तदशाक्षरा पायादन्नपूर्णाखिलं वपुः ।
तारं माया रमाकामः षोडशार्णा ततः परम् ॥ ८॥
शिरःस्था सर्वदा पातु विंशत्यर्णात्मिका परा ।
तारं दुर्गे युगं रक्षिणी स्वाहेति दशाक्षरा ॥ ९॥
जयदुर्गा घनश्यामा पातु मां सर्वतो मुदा ।
मायाबीजादिका चैषा दशार्णा च ततः परा ॥ १०॥
उत्तप्तकाञ्चनाभासा जयदुर्गाऽऽननेऽवतु ।
तारं ह्रीं दुं च दुर्गायै नमोऽष्टार्णात्मिका परा ॥ ११॥
शङ्खचक्रधनुर्बाणधरा मां दक्षिणेऽवतु ।
महिषामर्द्दिनी स्वाहा वसुवर्णात्मिका परा ॥ १२॥
नैऋत्यां सर्वदा पातु महिषासुरनाशिनी ।
माया पद्मावती स्वाहा सप्तार्णा परिकीर्तिता ॥ १३॥
पद्मावती पद्मसंस्था पश्चिमे मां सदाऽवतु ।
पाशाङ्कुशपुटा मायो स्वाहा हि परमेश्वरि ॥ १४॥
त्रयोदशार्णा ताराद्या अश्वारुढाऽनलेऽवतु ।
सरस्वति पञ्चस्वरे नित्यक्लिन्ने मदद्रवे ॥ १५॥
स्वाहा वस्वक्षरा विद्या उत्तरे मां सदाऽवतु ।
तारं माया च कवचं खे रक्षेत्सततं वधूः ॥ १६॥
हूँ क्षें ह्रीं फट् महाविद्या द्वादशार्णाखिलप्रदा ।
त्वरिताष्टाहिभिः पायाच्छिवकोणे सदा च माम् ॥ १७॥
ऐं क्लीं सौः सततं बाला मूर्द्धदेशे ततोऽवतु ।
बिन्द्वन्ता भैरवी बाला हस्तौ मां च सदाऽवतु ॥ १८॥
इति ते कथितं पुण्यं त्रैलोक्यमङ्गलं परम् ।
सारात्सारतरं पुण्यं महाविद्यौघविग्रहम् ॥ १९॥
अस्यापि पठनात्सद्यः कुबेरोऽपि धनेश्वरः ।
इन्द्राद्याः सकला देवा धारणात्पठनाद्यतः ॥ २०॥
सर्वसिद्धिश्वराः सन्तः सर्वैश्वर्यमवाप्नुयुः ।
पुष्पाञ्जल्यष्टकं दद्यान्मूलेनैव पृथक् पृथक् ॥ २१॥
संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् ।
प्रीतिमन्योऽन्यतः कृत्वा कमला निश्चला गृहे ॥ २२॥
वाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः ।
यो धारयति पुण्यात्मा त्रैलोक्यमङ्गलाभिधम् ॥ २३॥
कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः ।
सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥ २४॥
पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा ।
बहुपुत्रवती भूयाद्वन्ध्यापि लभते सुतम् ॥ २५॥
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् ।
एतत्कवचमज्ञात्वा यो भजेद्भुवनेश्वरीम् ।
दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात् ॥ २६॥
॥ इति श्रीरुद्रयामले तन्त्रे देवीश्वर संवादे
त्रैलोक्यमङ्गलं नाम भुवनेश्वरीकवचं सम्पूर्णम् ॥
Encoded and Proofread by Ravin Bhalekar ravibhalekar at hotmail.com
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Bhuvaneshwari Kavacham Lyrics in Devanagari PDF
% File name : bhuvaneshvariikavacham.itx
% Category : kavacha
% Location : doc\_devii
% Author : Traditional
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com
% Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments : rudrayAmale deviishankarasa.nvAde
% Latest update : May, 01, 2006
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 12, 2015 ] at Stotram Website