महाषोडशीवर्णरत्नावलिस्तोत्रम्
{॥ महाषोडशीवर्णरत्नावलिस्तोत्रम् ॥}
ह्रींकाराङ्कणदीपिकां श्रितजनानन्दप्रदां श्रीमतीं
श्रीनाथाद्यमरार्चितङ्घ्रिकमलां श्रीसुन्दरीं भावये ।
श्रीमन्मञ्जुलरत्नसानुविलसन्मध्यस्थकूटाग्रग-
श्रीमन्नागरमध्यलासिसुमहच्छ्रीचक्रबिन्दौ स्थिताम् ॥ १॥
ह्रींकारामृतसिन्धुकौस्तुभमणिं ह्रींकारमध्यस्थितां
ह्रींकारोन्नतरत्नसौधवलभीसंलासिपारावतीम् ।
ह्ऱींकारमरपादपाग्रविहरत्संहृष्टकेकीं भजे
ह्रींकाराम्बुदचञ्चलां हृदि गतां ह्रींकारवर्णात्मिकाम् ॥ २॥
क्लींकाराम्बुजपत्रभास्करनिभां क्लींकारचन्द्रप्रभां
क्लींकाराग्निशिखां भजामि सततं क्लींकारपेटीमणिम् ।
क्लींकारोपवनान्यपुष्टगृहिणीं क्लींकारवेद्यात्मिकां
क्लींकाराब्जहरप्रियां परतरां क्लींकारवर्णात्मिकाम् ॥ ३॥
ऐं ऐमित्यनुचिन्तकाच्छहृदयाम्भोजाटवीहंसिकां
ईशित्वादिविभूतिसंवृतमहारत्नासने संस्थिता ।
ऐश्वर्याय भवत्वखण्डविभवा याम्बा सदा मे गृहे
चेशाद्यर्चितपादपङ्कजयुगा चैशाङ्कमञ्चस्थिता ॥ ४॥
सौन्दर्यद्रुममञ्जरी भगवती सौवर्णवर्णावता-
न्मां संसारमहाभयाद् द्रुततरं सौवर्नकुम्भस्तनी ।
सूर्याब्जारिकृशानुदृक् शशिकलोत्तंसा सदानन्ददा
सौभाग्यं दिशतादथ प्रथितमप्यव्याहतं भूरि मे ॥ ५॥
ओङ्कारार्थनिरूपणैकमनसा चोंकारनादात्मना
श्रीदेव्या मम चित्तभित्तिरधुना चित्रायते चोज्ज्वला ।
ओजोभिर्जगदेतदद्य विपुलं यस्यास्तयाब्जप्रभै-
रोतप्रोतमभूत् कुसुम्भकुरुविन्दाब्जप्रभायाः सदा ॥ ६॥
ह्रींकारागममस्तकं हृदि कदा भायाद् वपुस्ते परं
ह्रींकाराब्धिसुधामयं हृतजपाशोणं हितप्रापकम् ।
ह्रींकाराद्रिगुहाहरीन्द्रशिशुकं ह्रींकारकन्दाङ्कुरं
ह्रींकाराम्बुजसौरभं हृतजगज्जालं जगन्नायिके ॥ ७॥
ह्रींकाराध्वरदक्षिणे जननि ते पादाब्जयुग्मे सदा
भक्तिं मे जनयाशु देवि कृपया श्रीदेवि तारायिते ।
श्रीमन्मञ्जुलरत्ननिर्मितमहामञ्जीरभूषोज्ज्वले
श्रीशृङ्गाररसालये श्रितजगत्स्वान्ताब्जिनीहंसिके ॥ ८॥
कल्याण वितनोतु काममनिशं कामारिवामाङ्कगा
कस्तूरीघनसाररूषितकुचाग्रालम्बिमुक्तालता ।
कामाकर्षणदिव्यपाशसुभगा कान्त्यार्ककोटिप्रभा
कल्याणी कमलेक्षणा कलिमलप्रध्वंसिनी कामदा ॥ ९॥
एतावन्मम देवि ते पदयुगे भक्तिर्दृढा भूयसी
स्यान्नेत्रे च जपाप्रसूनरुचिरायास्त्वत्तनोर्वीक्षणे ।
आनन्दाश्रुपरिप्लुते वचनमप्यम्ब स्तवे गद्गदं
चेतस्त्वन्मयमम्ब पश्यतु जगत् त्वन्मूर्तिभासारुणम् ॥ १०॥
ईशानादिपदाञ्चिते शिवमये मञ्चे परेशाङ्कगा-
मीशित्वाद्यखिलाष्टभूतिमनिशं दात्रीं स्वभक्ताय मे ।
चापं चैक्षवमाशुगं सुममयं क्रोधात्मकं चाङ्कुशं
पाशं रागतनुं प्रणौमि दधतीं श्रीमन्महासुन्दरीम् ॥ ११॥
लक्ष्मीं चक्रनिवासिनीं ललितसंगीतप्रियां लाकिनीं
लब्धैश्चर्यसमुन्नतिं लयकरीं लास्यप्रियामाश्रये ।
लङ्कानायकवैरिपूजितपदां लावण्यवारांनिधिं
लक्ष्मीपूजितपादपद्मयुगलां मोक्षाख्यलक्ष्म्यै सदा ॥ १२॥
ह्रींकारार्णसुधां च हृद्यममरैरीड्यं महत् ते वपुः
प्रालेयांशुकलाविलासिमकुटं ह्रींकारनादात्मकम् ।
ये ध्यायन्ति हृदम्बुजे प्रतिदिनं तेषामनङ्गज्वर-
क्लान्ताः स्युर्वशमागतास्त्वनुकलं वध्वः सुराणां प्रियाः ॥ १३॥
हन्तास्थां मितवैभवेषु हरिमुख्येष्वेव मूढा जना
भक्तिं पामरदैवतेषु विवशाः कुर्वन्ति मोहादिह ।
त्यक्त्वा त्वां परदेवतां हरिहरब्रह्मादिभिः सेवितां
सर्वैश्वर्यमहोदयां खरमिमे संत्यज्य धेनुं श्रिताः ॥ १४॥
सर्वज्ञत्वमवाप्य संसदि सतां शास्त्रेषु पाण्डित्यम-
प्यम्बायाः पदपद्मसंस्मृतिवशान्मूकोऽपि वाग्मी भवेत् ।
यस्यास्तच्चरणाम्बुजं हरिहरब्रह्मादिभिर्वन्दितं
मूढाश्चिन्तयताशु वोऽपि तरसा दद्यात् कवित्वं श्रियः ॥ १५॥
कल्याण्यम्ब कदम्बकाननगृहे कल्पद्रुमैः काङ्क्षिता-
दर्थादर्थसमर्पणेऽधिकतरे कारुण्यकल्लोलिभिः ।
कर्णान्तायतलोचनाञ्चलगतैर्वीक्ष्याद्य मामातुरं
रक्षासु त्रिपुरे परात्परतरे श्रीकामसंजीविनि ॥ १६॥
हस्त्युत्तुङ्गपृथूरुकुम्भकुचयोर्विन्यस्तहारेण ता-
मारक्तांशुकमाल्यभूषणवरैरुद्दीप्यमानामुमाम् ।
हाहाहूहुमुखस्तुतामनुदिनं हैयगवीनान्तरा-
मम्बामादिमवाक्स्तुतामहमलं ध्यायाम्यभीष्टाप्तये ॥ १७॥
लब्धज्ञानसुधाकरेण मनसा लक्ष्यीकृतं ते वपुः
सद्भिः संततमम्बुजाक्षि ललिते लग्नं भवत्वान्तरे ।
लावण्योज्ज्वलदिव्यगात्रि विमले लाक्षारसालंकृतं
श्रीमत्पादपयोजयुग्ममधुना मन्मूर्ध्नि निक्षिप्यताम् ॥ १८॥
ह्रींकाराब्धिसुधे ह्रिया विरहिते ह्रींकारमन्त्रार्थदे
ह्रींकारप्रियशारिके मयि कृपां ह्रींकारनादोदये ।
ह्रींकारमलदर्पणप्रतिकृते ह्रींकारवेद्ये शिवे
दीने मय्यधुना कुरुष्व दयया ह्रींकारदीपप्रभे ॥ १९॥
संपत्कर्मणि दीक्षितानि सकलापद्भञ्जनान्यम्ब ते
मामेवाकलयन्तु पङ्कजदलाक्षेमंकराण्यादरात् ।
ब्रह्मादीन् पदपद्मलग्नमकुटान् हित्वा कथंचिच्छिवे
नेत्राण्यद्य कृपासुधारसझरीसिक्तानि हे सुन्दरि ॥ २०॥
कल्पान्ते हृत्सर्वलोकजठरस्यानन्दनाट्यं मुदा
कर्तुर्यन्मणिकुण्डलीयुगलिका दीपायते संततम् ।
ब्रह्मोपेन्द्रमुखामरे विरमति ब्रह्माण्डभाण्डे परं
सा पाशाङ्कुशपुष्पसायकधनुर्विद्योततान्मे हृदि ॥ २१॥
लक्ष्यं किंच भवेन्महात्रिपुरसुन्दर्यागमान्तैर्नुते
मां लक्ष्यीकुरु वीक्षणाशुगततेस्त्वामेव सर्वात्मना ।
ध्यात्वा चेतसि संस्थितं जगदिदं त्वद्रूपमार्ये सदा
ज्ञात्वानन्यहृदा विहाय भजनं नश्यत्सु देवेष्विह ॥ २२॥
ह्रींकारस्मरणेन देवि तरसा ह्रीमान् सुधीमान् भवेत्
ते मूकोऽपि जडोऽपि पद्मजनुषा सापत्निकोऽभूद् भृशम् ।
आश्लिष्याम्बुधिकन्यकां विलसति श्रीमन्त्रराजाक्षरं
तन्मय्यादिश देवदेवि कृपया धन्योऽस्म्यहं तेन च ॥ २३॥
सौवर्णोज्ज्वलमण्डपे मरतकप्राकारभित्तौ बृह-
न्नानारत्नमयासने शिवमये श्रीकामराजाङ्कके ।
तिष्ठन्तीं कुरुविन्दबृन्दरुचिरां माणिक्यभूषोज्ज्वलां
धन्यास्ते भुवि चिन्तयन्ति मनसा ये श्रीमहासुन्दरीम् ॥ २४॥
ऐंकाराम्बुजकर्णिकोज्ज्वलमहद्रत्नासने संस्थितां
सिञ्चन्तीममृतद्रवैः शशिशिलास्पष्टाभिरामप्रभाम् ।
तेजोभिर्जगदम्ब ये भुवि भजन्त्यापीनतुङ्गस्तनीं
तेषामाननपङ्कजे निवसते वाणी सुधास्यन्दिनी ॥ २५॥
क्लीमित्यक्षरमेकमेव मनसा ध्यायन्ति ये मानवाः
कंदर्पायुततुल्यसुन्दरतरश्रीमूर्तयः शैथिलम् ।
कुर्वन्ति स्म रतेश्च नैजवपुषा ते पातिव्रत्यं सह
स्पर्धन्ते हृतवाग्रमाः कमलनाभाब्जासनाभ्यां सदा ॥ २६॥
ह्रींकारीं हृदयाम्बुजेऽहमधुना ह्रींकारसौधे शुभे
ह्रींकारोन्नतरत्नमञ्चफलके ह्रींकारशोणाम्बुजे ।
ह्रींकाराक्षरमुच्चरद्भगवतीमारोप्य शोणप्रभां
ह्रींकाराम्बुजवारिगन्धफलताम्बूलादिभिस्तोषये ॥ २७॥
ह्रींकारामृतपादमञ्जुलमणीवेद्यन्तरे भासुरां
श्रीदेवीं श्रितसर्वलोकसकलाभीष्टप्रदानोत्सुकाम् ।
श्रीश्रीमत्तनुमुद्यदर्ककिरणां श्रीशांभवीं श्रीकरी-
मात्मन्यैक्यमुपास्महे परतरां निर्वाणसंसिद्धये ॥ २८॥
इति श्रीमहाषोडशीवर्णरत्नावलिस्तोत्रं संपूर्णम्
This is a hymn to devi, with the syllables of the sacred
Shrividya mantra mahAShoDashI encoded into the verses.
Encoded by Sridhar Seshagiri seshagir at engineering.sdsu.edu
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Maha Shodashi Varna Ratnavali Stotram Lyrics in Devanagari PDF
% File name : mahA16ratna.itx
% Location : doc\_devii
% Language : Sanskrit
% Subject : hinduism/religion
% Transliterated by : Sridhar Seshagiri sridhar.seshagiri at gmail.com
% Proofread by : Sridhar Seshagiri sridhar.seshagiri at gmail.com
% Description-comments : This is a hymn to devi, with the syllables of
% Latest update : January 27, 2002
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 14, 2015 ] at Stotram Website