सौभाग्याष्टोत्तरशतनामस्तोत्रम्
{॥ सौभाग्याष्टोत्तरशतनामस्तोत्रम् ॥}
दत्तात्रेयेण कृतं सौभाग्याष्टोत्तरशतनामस्तोत्रोपदेशवर्णनम्
निशम्यैतज्जामदग्न्यो माहात्म्यं सर्वतोऽधिकम् ।
स्तोत्रस्य भूयः पप्रच्छ दत्तात्रेयं गुरूत्तमम् ॥ १॥
भगवन् त्वन्मुखाम्भोजनिर्गमद्वाक्सुधारसम् ।
पिबतः श्रोतमुखतो वर्धतेऽनुक्षणं तृषा ॥ २॥
अष्टोत्तरशतं नाम्नां श्रीदेव्या यत्प्रसादतः ।
कामः सम्प्राप्तवान् लोके सौभाग्यं सर्वमोहनम् ॥ ३॥
सौभाग्यविद्यावर्णानामुद्धारो यत्र संस्थितः ।
तत्समाचक्ष्व भगवन् कृपया मयि सेवके ॥ ४॥
निशम्यैवं भार्गवोक्तिं दत्तात्रेयो दयानिधिः ।
प्रोवाच भार्गवं रामं मधुराऽक्षरपूर्वकम् ॥ ५॥
शृणु भार्गव ! यत् पृष्टं नाम्नामष्टोत्तरं शतम् ।
श्रीविद्यावर्णरत्नानां निधानमिव संस्थितम् ॥ ६॥
श्रीदेव्या बहुधा सन्ति नामानि शृणु भार्गव ।
सहस्रशतसंख्यानि पुराणेष्वागमेषु च ॥ ७॥
तेषु सारतमं ह्येतत्सौभाग्याऽष्टोत्तराऽऽत्मकम् ।
यदुवाच शिवः पूर्वं भवान्यै बहुधाऽर्थितः ॥ ८॥
सौभाग्याऽष्टोत्तरशतनामस्तोत्रस्य भार्गव ।
ऋषिरुक्तः शिवश्छन्दोऽनुष्टुप् श्रीललिताऽम्बिका ॥ ९॥
देवता विन्यसेत्कूटत्रयेणाऽऽवर्त्य सर्वतः ।
ध्यात्वा सम्पूज्य मनसा स्तोत्रमेतदुदीरयेत् ॥ १०॥
॥ त्रिपुराम्बिकायैनमः॥
कामेश्वरी कामशक्तिः कामसौभाग्यदायिनी।
कामरूपा कामकला कामिनी कमलाऽऽसना ॥ ११॥
कमला कल्पनाहीना कमनीयकलावती ।
कमला भारतीसेव्या कल्पिताऽशेषसंसृतिः ॥ १२॥
अनुत्तराऽनघाऽनन्ताऽद्भुतरूपाऽनलोद्भवा ।
अतिलोकचरित्राऽतिसुन्दर्यतिशुभप्रदा ॥ १३॥
अघहन्त्र्यतिविस्ताराऽर्चनतुष्टाऽमितप्रभा ।
एकरूपैकवीरैकनाथैकान्ताऽर्चनप्रिया ॥ १४॥
एकैकभावतुष्टैकरसैकान्तजनप्रिया ।
एधमानप्रभावैधद्भक्तपातकनाशिनी ॥ १५॥
एलामोदमुखैनोऽद्रिशक्रायुधसमस्थितिः ।
ईहाशून्येप्सितेशादिसेव्येशानवराङ्गना ॥ १६॥
ईश्वराऽऽज्ञापिकेकारभाव्येप्सितफलप्रदा ।
ईशानेतिहरेक्षेषदरुणाक्षीश्वरेश्वरी ॥ १७॥
ललिता ललनारूपा लयहीना लसत्तनुः ।
लयसर्वा लयक्षोणिर्लयकर्णी लयात्मिका ॥ १८॥
लघिमा लघुमध्याऽऽढ्या ललमाना लघुद्रुता ।
हयाऽऽरूढा हताऽमित्रा हरकान्ता हरिस्तुता ॥ १९॥
हयग्रीवेष्टदा हालाप्रिया हर्षसमुद्धता ।
हर्षणा हल्लकाभाङ्गी हस्त्यन्तैश्वर्यदायिनी ॥ २०॥
हलहस्ताऽर्चितपदा हविर्दानप्रसादिनी ।
रामरामाऽर्चिता राज्ञी रम्या रवमयी रतिः ॥ २१॥
रक्षिणीरमणीराका रमणीमण्डलप्रिया ।
रक्षिताऽखिललोकेशा रक्षोगणनिषूदिनी ॥ २२॥
अम्बान्तकारिण्यम्भोजप्रियाऽन्तकभयङ्करी ।
अम्बुरूपाऽम्बुजकराऽम्बुजजातवरप्रदा ॥ २३॥
अन्तःपूजाप्रियाऽन्तःस्वरूपिण्यन्तर्वचोमयी ।
अन्तकाऽरातिवामाङ्कस्थिताऽन्तःसुखरूपिणी ॥ २४॥
सर्वज्ञा सर्वगा सारा समा समसुखा सती ।
सन्ततिः सन्तता सोमा सर्वा साङ्ख्या सनातनी ॥ २५॥
॥ फलश्रुतिः॥
एतत्ते कथितं राम नाम्नामष्टोत्तरं शतम् ।
अतिगोप्यमिदं नाम्नः सर्वतः सारमुद्धृतम् ॥ २६॥
एतस्य सदृशं स्तोत्रं त्रिषु लोकेषु दुर्लभम् ।
अप्राकश्यमभक्तानां पुरतो देवताद्विषाम् ॥ २७॥
एतत् सदाशिवो नित्यं पठन्त्यन्ये हरादयः ।
एतत्प्रभावात्कन्दर्पस्त्रैलोक्यं जयति क्षणात् ॥ २८॥
सौभाग्याऽष्टोत्तरशतनामस्तोत्रं मनोहरम् ।
यस्त्रिसन्ध्यं पठेन्नित्यं न तस्य भुवि दुर्लभम् ॥ २९॥
श्रीविद्योपासनवतामेतदावश्यकं मतम् ।
सकृदेतत्प्रपठतां नाऽन्यत्कर्म विलुप्यते ॥ ३०॥
अपठित्वा स्तोत्रमिदं नित्यं नैमित्तिकं कृतम् ।
व्यर्थीभवति नग्नेन कृतं कर्म यथा तथा ॥ ३१॥
सहस्रनामपाठादावशक्तस्त्वेतदीरयेत् ।
सहस्रनामपाठस्य फलं शतगुणं भवेत् ॥ ३२॥
सहस्रधा पठित्वा तु वीक्षणान्नाशयेद्रिपून् ।
करवीररक्तपुष्पैर्हुत्वा लोकान् वशं नयेत् ॥ ३३॥
स्तम्भेयत् श्वेतकुसुमैर्नीलैरुच्चाटयेद्रिपून् ।
मरिचैर्विद्वेषेणाय लवङ्गैर्व्याधिनाशने ॥ ३४॥
सुवासिनीर्ब्राह्मणान् वा भोजयेद्यस्तु नामभिः ।
यश्च पुष्पैः फलैर्वापि पूजयेत् प्रतिनामभिः ॥ ३५॥
चक्रराजेऽथवाऽन्यत्र स वसेच्छ्रीपुरे चिरम् ।
यः सदा वर्तयन्नास्ते नामाऽष्टशतमुत्तमम् ॥ ३६॥
तस्य श्रीललिता राज्ञी प्रसन्ना वाञ्छितप्रदा॥
The saubhAgyAShTottarashatanAmastotram was recited by
Dattatreya to Parashurama. This is a very secretive and
potent text, and that is mandatory for shrIvidyopAsakA-s
(verse 30, line 1). The rishi for this stotram is Lord
Shiva, it is in Anushtup meter and the deity is shrIlalitAmbikA.
The text is in 26th adhyAya gauryupAkhyAna of mAhAtmyakANDam
in tripurA rahasya.
Encoded by Sridhar Seshagiri seshagir at engineering.sdsu.edu
Proofread by Sridhar and Avinash Sathaye
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Saubhagya Ashtottara Shatanama Stotram Lyrics in Devanagari PDF
% File name : saubhAgya108str.itx
% Category : aShTottarashatanAma
% Location : doc\_devii
% Author : Dattatreya
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Sridhar Seshagiri seshagir at engineering.sdsu.edu
% Proofread by : Sridhar Seshagiri seshagir at engineering.sdsu.edu, Avinash Sathaye sohum at ms.uky.edu, NA
% Description-comments : 26th adhyAya mAhAtmya khaNDam of tripurA rahasyam
% Latest update : December 22, 2002, May 21, 2011
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 14, 2015 ] at Stotram Website