श्रीहयग्रीवस्तोत्रम्
{॥ श्रीहयग्रीवस्तोत्रम् ॥}
श्रिः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् ।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ १॥
स्वतः सिद्धं शुद्धस्फटिकमणि भूभृत्प्रतिभटं
सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनम् ।
अनन्तैस्त्रय्यन्तैरनुविहित हेषाहलहलं
हताशेषावद्यं हयवदनमीडीमहि महः ॥ २॥
समाहारः साम्नां प्रतिपदमृचां धाम यजुषां
लयः प्रत्यूहानां लहरि विततिर्बोधजलधेः ।
कथादर्पक्षुभ्यत्कथककुल कोलाहलभवं
हरत्वन्तर्ध्वान्तं हयवदन हेषा हलहलः ॥ ३॥
प्राची सन्ध्या काचिदन्तर्निशायाः
प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा ।
वक्त्री वेदान् भातु मे वाजिवक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ॥ ४॥
विशुद्ध विज्ञान घन स्वरूपं
विज्ञान विश्राणन बद्धदीक्षम् ।
दयानिधिं देहभृतां शरण्यं
देवम् हयग्रीवमहं प्रपद्ये ॥ ५॥
अपौरुषेयैरपि वाक्प्रपञ्चैः
अद्यापि ते भूतिमदृष्टपाराम् ।
स्तुवन्नहं मुग्ध इति त्वयैव
कारुण्यतो नाथ कटाक्षणीयः ॥ ६॥
दाक्षिण्यरम्या गिरिशस्य मूर्तिः
देवी सरोजासन धर्मपत्नी ।
व्यासादयोऽपि व्यपदेश्यवाचः
स्फुरन्ति सर्वे तव शक्तिलेशैः ॥ ७॥
मन्दोऽभविष्यन्नियतं विरिञ्चो
वाचां निधे वञ्चितभागधेयः ।
दैत्यापनीतान् दययैव भूयोऽपि
अध्यापयिष्यो निगमान् न चेत् त्वम् ॥ ८॥
वितर्कडोलां व्यवधूय सत्वे
बृहस्पतिं वर्तयसे यतस्त्वम् ।
तेनैव देव त्रिदशेश्वराणाम्
अस्पृष्ट डोलायित माधिराज्यम् ॥ ९॥
अग्नौ समिद्धार्चिषि सप्ततन्तोः
आतस्थिवान् मन्त्रमयं शरीरम् ।
अखण्डसारैर्हविषां प्रदानैः
आप्यायनं व्योमसदां विधत्से ॥ १०॥
यन्मूलमीदृक् प्रतिभाति तत्वं
या मूलमाम्नाय महाद्रुमाणाम् ।
तत्वेन जानन्ति विशुद्ध सत्वाः
तामक्षरा मक्षरमातृकां त्वाम् ॥ ११॥
अव्याकृताद् व्याकृतवानसि त्वम्
नामानि रूपाणि च यानि पूर्वम् ।
शंसन्ति तेषां चरमां प्रतिष्ठां
वागीश्वर त्वां त्वदुपज्ञवाचः ॥ १२॥
मुग्धेन्दु निष्यन्द विलोभनीयां
मूर्तिं तवानन्द सुधा प्रसूतिम् ।
विपश्चितश्चेतसि भावयन्ते
वेलामुदारामिव दुग्धसिन्धोः ॥ १३॥
मनोगतं पश्यति यः सदा त्वां
मनीषिनां मानस राजहंसम् ।
स्वयम् पुरोभाव विवादभाजः
किंकुर्वते तस्य गिरो यथार्हम् ॥ १४॥
अपि क्षणार्धं कलयन्ति ये त्वाम्
आप्लावयन्तं विशदैर्मयूखैः ।
वाचां प्रवाहैरनिवारितैस्ते
मन्दाकिनीं मन्दयितुं क्षमन्ते ॥ १५॥
स्वामिन् भवद्ध्यान सुधाभिषेकात्
वहन्ति धन्याः पुलकानुबन्धम् ।
अलक्षिते क्वापि निरूढमूलम्
अङ्गेष्विवानन्दथुं अङ्कुरन्तम् ॥ १६॥
स्वामिन् प्रतीचा हृदयेन धन्याः
त्वद्ध्यन चन्द्रोदय वर्धमानम् ।
अमान्तमानन्द पयोधिमन्त
पयोभिरक्ष्णां परिवाहयन्ति ॥ १७॥
स्वैरानुभावास्त्वदधीन भावाः
समृद्धवीर्यास्त्वदनुग्रहेण ।
विपश्चितो नाथ तरन्ति मायां
वैहारिकीं मोहन पिञ्छिकां ते ॥ १८॥
प्राङ्निर्मितानां तपसां विपाकाः
प्रत्यग्रनिःश्रेयस सम्पदो मे ।
समेधिषीरंस्तव पादपद्मे
संकल्प चिन्तामणयः प्रणामाः ॥ १९॥
विलुप्त मूर्धन्य लिपि क्रमाणाम्
सुरेन्द्र चूडापद लालितानाम् ।
त्वदंघ्रि राजीव रजःकणानाम्
भूयान् प्रसादो मयि नाथ भूयात् ॥ २०॥
परिस्फुरन्नूपुर चित्रभानु-
प्रकाश निर्धूत तमोनुषङ्गाम् ।
पदद्वयीं ते परिचिन्महे ऽन्तः
प्रबोध राजीव विभात सन्ध्याम् ॥ २१॥
त्वत्किङ्करालम्करणोचितानां
त्वयैव कल्पान्तर पालितानाम् ।
मञ्जुप्रणादं मणिनूपुरं ते
मञ्जूषिकां वेदगिरां प्रतीमः ॥ २२॥
सन्चिन्तयामि प्रतिभादशास्थान्
सन्धुक्षयन्तं समय प्रदीपान् ।
विज्ञान कल्पद्रुम पल्लवाभं
व्याख्यान मुद्रा मधुरं करं ते ॥ २३॥
चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ करं त्वदीयम् ।
ज्ञानामृतोदञ्चनलम्पटानां
लीलाघटी यन्त्रमिवाश्रितानाम् ॥ २४॥
प्रबोध सिन्धोररुणैः प्रकाशैः
प्रवाळ सङ्घातमिवोद्वहन्तम् ।
विभावये देव सपुस्तकं ते
वामं करं दक्षिणमाश्रितानाम् ॥ २५॥
तमांसि भित्वा विशदैर्मयूखैः
सम्प्रीणयन्तं विदुषश्चकोरान् ।
निशामये त्वां नवपुण्डरीके
शरद्घने चन्द्रमिव स्फुरन्तम् ॥ २६॥
दिशन्तु मे देव सदा त्वदीयाः
दयातरङ्गानुचराः कटाक्षाः ।
श्रोत्रेषु पुम्साममृतम् क्षरन्तीं
सरस्वतीं संश्रित कामधेनुम् ॥ २७॥
विशेषवित्पारिषदेषु नाथ
विदग्ध गोष्टीसमराङ्गणेषु ।
जिगीषतो मे कवितार्किकेन्द्रान्
जिह्वाग्र सिंहासनमभ्युपेयाः ॥ २८॥
त्वां चिन्तयन् त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्दमयेन धाम्ना ।
स्वामिन् समाजेषु समेधिषीय
स्वच्छन्द वादाहव बद्धशूरः ॥ २९॥
नानाविधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः ।
ध्रुवं तवानाथपरिग्रहायाः
नवं नवं पात्रमहं दयायाः ॥ ३०॥
अकम्पनीयान्यपनीति भेदैः
अलन्कृषीरन् हृदयं मदीयम् ।
शङ्काकळङ्कापगमोज्ज्वलानि
तत्वानि सम्यञ्चि तव प्रसादात् ॥ ३१॥
व्याख्या मुद्रां करसरसिजैः पुस्तकम् शङ्खचक्रे
बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः ।
अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन् मां
आविर्भूयादनघ महिमा मानसे वागधीशः ॥ ३२॥
वागर्थ सिद्धिहेतोः
पठत हयग्रीवसंस्तुतिं भक्त्या ।
कवितार्किककेसरिणा
वेङ्कटनाथेन विरचितामेताम् ॥ ३३॥
॥ इति श्रीहयग्रीवस्तोत्रं समाप्तम् ॥
कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
Encoded and proofread by Sundar Rajan RD sundar.rajanrd at gmail.com
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org
श्रिः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् ।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ १॥
स्वतः सिद्धं शुद्धस्फटिकमणि भूभृत्प्रतिभटं
सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनम् ।
अनन्तैस्त्रय्यन्तैरनुविहित हेषाहलहलं
हताशेषावद्यं हयवदनमीडीमहि महः ॥ २॥
समाहारः साम्नां प्रतिपदमृचां धाम यजुषां
लयः प्रत्यूहानां लहरि विततिर्बोधजलधेः ।
कथादर्पक्षुभ्यत्कथककुल कोलाहलभवं
हरत्वन्तर्ध्वान्तं हयवदन हेषा हलहलः ॥ ३॥
प्राची सन्ध्या काचिदन्तर्निशायाः
प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा ।
वक्त्री वेदान् भातु मे वाजिवक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ॥ ४॥
विशुद्ध विज्ञान घन स्वरूपं
विज्ञान विश्राणन बद्धदीक्षम् ।
दयानिधिं देहभृतां शरण्यं
देवम् हयग्रीवमहं प्रपद्ये ॥ ५॥
अपौरुषेयैरपि वाक्प्रपञ्चैः
अद्यापि ते भूतिमदृष्टपाराम् ।
स्तुवन्नहं मुग्ध इति त्वयैव
कारुण्यतो नाथ कटाक्षणीयः ॥ ६॥
दाक्षिण्यरम्या गिरिशस्य मूर्तिः
देवी सरोजासन धर्मपत्नी ।
व्यासादयोऽपि व्यपदेश्यवाचः
स्फुरन्ति सर्वे तव शक्तिलेशैः ॥ ७॥
मन्दोऽभविष्यन्नियतं विरिञ्चो
वाचां निधे वञ्चितभागधेयः ।
दैत्यापनीतान् दययैव भूयोऽपि
अध्यापयिष्यो निगमान् न चेत् त्वम् ॥ ८॥
वितर्कडोलां व्यवधूय सत्वे
बृहस्पतिं वर्तयसे यतस्त्वम् ।
तेनैव देव त्रिदशेश्वराणाम्
अस्पृष्ट डोलायित माधिराज्यम् ॥ ९॥
अग्नौ समिद्धार्चिषि सप्ततन्तोः
आतस्थिवान् मन्त्रमयं शरीरम् ।
अखण्डसारैर्हविषां प्रदानैः
आप्यायनं व्योमसदां विधत्से ॥ १०॥
यन्मूलमीदृक् प्रतिभाति तत्वं
या मूलमाम्नाय महाद्रुमाणाम् ।
तत्वेन जानन्ति विशुद्ध सत्वाः
तामक्षरा मक्षरमातृकां त्वाम् ॥ ११॥
अव्याकृताद् व्याकृतवानसि त्वम्
नामानि रूपाणि च यानि पूर्वम् ।
शंसन्ति तेषां चरमां प्रतिष्ठां
वागीश्वर त्वां त्वदुपज्ञवाचः ॥ १२॥
मुग्धेन्दु निष्यन्द विलोभनीयां
मूर्तिं तवानन्द सुधा प्रसूतिम् ।
विपश्चितश्चेतसि भावयन्ते
वेलामुदारामिव दुग्धसिन्धोः ॥ १३॥
मनोगतं पश्यति यः सदा त्वां
मनीषिनां मानस राजहंसम् ।
स्वयम् पुरोभाव विवादभाजः
किंकुर्वते तस्य गिरो यथार्हम् ॥ १४॥
अपि क्षणार्धं कलयन्ति ये त्वाम्
आप्लावयन्तं विशदैर्मयूखैः ।
वाचां प्रवाहैरनिवारितैस्ते
मन्दाकिनीं मन्दयितुं क्षमन्ते ॥ १५॥
स्वामिन् भवद्ध्यान सुधाभिषेकात्
वहन्ति धन्याः पुलकानुबन्धम् ।
अलक्षिते क्वापि निरूढमूलम्
अङ्गेष्विवानन्दथुं अङ्कुरन्तम् ॥ १६॥
स्वामिन् प्रतीचा हृदयेन धन्याः
त्वद्ध्यन चन्द्रोदय वर्धमानम् ।
अमान्तमानन्द पयोधिमन्त
पयोभिरक्ष्णां परिवाहयन्ति ॥ १७॥
स्वैरानुभावास्त्वदधीन भावाः
समृद्धवीर्यास्त्वदनुग्रहेण ।
विपश्चितो नाथ तरन्ति मायां
वैहारिकीं मोहन पिञ्छिकां ते ॥ १८॥
प्राङ्निर्मितानां तपसां विपाकाः
प्रत्यग्रनिःश्रेयस सम्पदो मे ।
समेधिषीरंस्तव पादपद्मे
संकल्प चिन्तामणयः प्रणामाः ॥ १९॥
विलुप्त मूर्धन्य लिपि क्रमाणाम्
सुरेन्द्र चूडापद लालितानाम् ।
त्वदंघ्रि राजीव रजःकणानाम्
भूयान् प्रसादो मयि नाथ भूयात् ॥ २०॥
परिस्फुरन्नूपुर चित्रभानु-
प्रकाश निर्धूत तमोनुषङ्गाम् ।
पदद्वयीं ते परिचिन्महे ऽन्तः
प्रबोध राजीव विभात सन्ध्याम् ॥ २१॥
त्वत्किङ्करालम्करणोचितानां
त्वयैव कल्पान्तर पालितानाम् ।
मञ्जुप्रणादं मणिनूपुरं ते
मञ्जूषिकां वेदगिरां प्रतीमः ॥ २२॥
सन्चिन्तयामि प्रतिभादशास्थान्
सन्धुक्षयन्तं समय प्रदीपान् ।
विज्ञान कल्पद्रुम पल्लवाभं
व्याख्यान मुद्रा मधुरं करं ते ॥ २३॥
चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ करं त्वदीयम् ।
ज्ञानामृतोदञ्चनलम्पटानां
लीलाघटी यन्त्रमिवाश्रितानाम् ॥ २४॥
प्रबोध सिन्धोररुणैः प्रकाशैः
प्रवाळ सङ्घातमिवोद्वहन्तम् ।
विभावये देव सपुस्तकं ते
वामं करं दक्षिणमाश्रितानाम् ॥ २५॥
तमांसि भित्वा विशदैर्मयूखैः
सम्प्रीणयन्तं विदुषश्चकोरान् ।
निशामये त्वां नवपुण्डरीके
शरद्घने चन्द्रमिव स्फुरन्तम् ॥ २६॥
दिशन्तु मे देव सदा त्वदीयाः
दयातरङ्गानुचराः कटाक्षाः ।
श्रोत्रेषु पुम्साममृतम् क्षरन्तीं
सरस्वतीं संश्रित कामधेनुम् ॥ २७॥
विशेषवित्पारिषदेषु नाथ
विदग्ध गोष्टीसमराङ्गणेषु ।
जिगीषतो मे कवितार्किकेन्द्रान्
जिह्वाग्र सिंहासनमभ्युपेयाः ॥ २८॥
त्वां चिन्तयन् त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्दमयेन धाम्ना ।
स्वामिन् समाजेषु समेधिषीय
स्वच्छन्द वादाहव बद्धशूरः ॥ २९॥
नानाविधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः ।
ध्रुवं तवानाथपरिग्रहायाः
नवं नवं पात्रमहं दयायाः ॥ ३०॥
अकम्पनीयान्यपनीति भेदैः
अलन्कृषीरन् हृदयं मदीयम् ।
शङ्काकळङ्कापगमोज्ज्वलानि
तत्वानि सम्यञ्चि तव प्रसादात् ॥ ३१॥
व्याख्या मुद्रां करसरसिजैः पुस्तकम् शङ्खचक्रे
बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः ।
अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन् मां
आविर्भूयादनघ महिमा मानसे वागधीशः ॥ ३२॥
वागर्थ सिद्धिहेतोः
पठत हयग्रीवसंस्तुतिं भक्त्या ।
कवितार्किककेसरिणा
वेङ्कटनाथेन विरचितामेताम् ॥ ३३॥
॥ इति श्रीहयग्रीवस्तोत्रं समाप्तम् ॥
कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
Encoded and proofread by Sundar Rajan RD sundar.rajanrd at gmail.com
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org
Hayagriva Stotram Lyrics in Devanagari PDF
% File name : hayagrIvastotramDesika.itx
% Location : doc\_deities\_misc
% Author : Vedanta Desika
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Sundar Rajan RD sundar.rajanrd at gmail.com
% Proofread by : Sundar Rajan RD sundar.rajanrd at gmail.com
% Latest update : November 23, 2011
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
% File name : hayagrIvastotramDesika.itx
% Location : doc\_deities\_misc
% Author : Vedanta Desika
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Sundar Rajan RD sundar.rajanrd at gmail.com
% Proofread by : Sundar Rajan RD sundar.rajanrd at gmail.com
% Latest update : November 23, 2011
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 15, 2015 ] at Stotram Website
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 15, 2015 ] at Stotram Website