उपासकानां यदुपासनीयमुपात्तवासं वटशाखिमूले । तद्धाम दाक्षिण्यजुषा स्वमूर्त्या जागर्तु चित्ते मम बोधरूपम् ॥ १॥ अद्राक्षमक्षीणदयानिधानमाचार्यमाद्यं वटमूलभागे । मौनेन मन्दस्मितभूषितेन महर्षिलोकस्य तमो नुदन्तम् ॥ २॥ विद्राविताशेषतमोगणेन मुद्राविशेषेण मुहुर्मुनीनाम् । निरस्य मायां दयया विधत्ते देवो महांस्तत्त्वमसीति बोधम् ॥ ३॥ अपारकारुण्यसुधातरङ्गैरपाङ्गपातैरवलोकयन्तम् । कठोरसंसारनिदाघतप्तान्मुनीनहं नौमि गुरुं गुरूणाम् ॥ ४॥ ममाद्यदेवो वटमूलवासी कृपाविशेषात्कृतसन्निधानः । ओंकाररूपामुपदिश्य विद्यामाविद्यकध्वान्तमपाकरोतु ॥ ५॥ कलाभिरिन्दोरिव कल्पिताङ्गं मुक्ताकलापैरिव बद्धमूर्तिम् । आलोकये देशिकमप्रमेयमनाद्यविद्यातिमिरप्रभातम् ॥ ६॥ स्वदक्षजानुस्थितवामपादं पादोदरालंकृतयोगपट्टम् । अपस्मृतेराहितपादमङ्गे प्रणौमि देवं प्रणिधानवन्तम् ॥ ७॥ तत्त्वार्थमन्तेवसतामृषीणां युवाऽपि यः सन्नुपदेष्टुमीष्टे । प्रणौमि तं प्राक्तनपुण्यजालैराचार्यमाश्चर्यगुणाधिवासम् ॥ ८॥ एकेन मुद्रां परशुं करेण करेण चान्येन मृगं दधानः । स्वजानुविन्यस्तकरः पुरस्तादाचार्यचूडामणिराविरस्तु ॥ ९॥ आलेपवन्तं मदनाङ्गभूत्या शार्दूलकृत्त्या परिधानवन्तम् । आलोकये कञ्चन देशिकेन्द्रमज्ञानवाराकरवाडवाग्निम् ॥ १०॥ चारुस्मितं सोमकलावतंसं वीणाधरं व्यक्तजटाकलापम् । उपासते केचन योगिनस्त्वामुपात्तनादानुभवप्रमोदम् ॥ ११॥ उपासते यं मुनयः शुकाद्या निराशिषो निर्ममताधिवासाः । तं दक्षिणामूर्तितनुं महेशमुपास्महे मोहमहार्तिशान्त्यै ॥ १२॥ कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वस - न्कारुण्यामृतवारिभिर्मुनिजनं संभावयन्वीक्षितैः । मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशा देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ १३॥ अगौरगात्रैरललाटनेत्रैरशान्तवेषैरभुजङ्गभूषैः । अबोधमुद्रैरनपास्तनिद्रैरपूर्णकामैरमरैरलं नः ॥ १४॥ दैवतानि कति सन्ति चावनौ नैव तानि मनसो मतानि मे । दीक्षितं जडधियामनुग्रहे दक्षिणाभिमुखमेव दैवतम् ॥ १५॥ मुदिताय मुग्धशशिनावतंसिने भसितावलेपरमणीयमूर्तये । जगदीन्द्रजालरचनापटीयसे महसे नमोऽस्तु वटमूलवासिने ॥ १६॥ व्यालम्बिनीभिः परितो जटाभिः कलावशेषेण कलाधरेण । पश्यँल्ललाटेन मुखेन्दुना च प्रकाशसे चेतसि निर्मलानाम् ॥ १७॥ उपासकानां त्वमुमासहायः पूर्णेन्दुभावं प्रकटीकरोषि । यदद्य ते दर्शनमात्रतो मे द्रवत्यहो मानसचन्द्रकान्तः ॥ १८॥ यस्ते प्रसन्नामनुसन्दधानो मूर्तिं मुदा मुग्धशशाङ्कमौलेः । ऐश्वर्यमायुर्लभते च विद्यामन्ते च वेदान्तमहारहस्यम् ॥ १९॥ ॥ दक्षिणामूर्तिस्तोत्रं २ संपूर्णम्॥ Encoded by Subramanian Ganesh sgesh@hotmail.com % File name : dakshina2.itx % Text title : daxiNAmUrti stotram 2 % Texttype : stotra % Author : Traditional % Subject : philosophy/hinduism/religion % Transliterated by : Subramanian Ganesh sgesh@hotmail.com % Proofread by : Subramanian Ganesh sgesh@hotmail.com, Sunder Hattangadi, Avinsah Sathaye % Description/comments : ????Source % Latest update : March 15, 2001, July 9, 2010 % Send corrections to : sanskrit@cheerful.com This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.