स्वर्णाकर्षणभैरवसहस्रनामस्तोत्रम्
{॥ स्वर्णाकर्षणभैरवसहस्रनामस्तोत्रम् ॥}
श्री गणेशाय नमः ।
कैलासशिखरे रम्ये देवदेवं जगद्गुरुम् ।
पप्रच्छ पार्वतीकान्तं शङ्करं लोकनायकम् ॥ १॥
पार्वत्युवाच ।
देवदेव महादेव सर्वज्ञ सुखदायक ।
आपदुःखदारिद्र्यादि पीडितानां नृणां विभो ॥ २॥
यद्वित्तं सुखसम्पत्तिधनधान्यकरं सदा ।
विशेषतो राजकुले शान्ति पुष्टि प्रदायकम् ॥ ३॥
बालग्रहादि शमनं नाना सिद्धिकरं नृणाम् ।
नोक्तपूर्वञ्चयन्नाथ ध्यानपूजा समन्वितम् ॥ ४॥
वक्तुमर्हस्य शेषेण ममानन्द करं परम् ।
ईश्वर उवाच ।
स्तवराजं महामन्त्रं भैरवस्य श्रृणु प्रिये ॥ ५॥
सर्वकामार्थदं देवि राज्यभोगप्रदं नृणाम् ।
स्मरणात्स्तवराजस्य भूतप्रेत पिशाचकाः ॥ ६॥
विद्रवन्त्यभितोभिताः कालरुद्रादिवप्रजाः ।
एकतः पन्नगाः सर्वे गरुडश्चैकतस्तथा ॥ ७॥
एकतो घनसङ्घाताश्चण्डवातोयथैकतः ।
एकतः पर्वताः सर्वे दम्भोलिस्त्वेकस्तथा ॥ ८॥
एकतो दैत्यसङ्घाताह्यकतः स्यात्सुदर्शनम् ।
एकतः काष्ठ सङ्घाता एकतोग्निकणोयथा ॥ ९॥
घनान्धकारस्त्वेकत्र तपनस्त्वेकतस्तथा ।
तथैवास्य प्रभावस्तु स्मृतमात्रे न दृश्यते ॥ १०॥
स्तवराजं भैरवस्य जपात्सिद्धिमवाप्नुयात् ।
लिखित्वायद्गृहे देवि स्थापितं स्तवमुत्तमम् ॥ ११॥
तद्गृहं नाभिभूयेत भूतप्रेतादिभिर्ग्रहैः ।
साम्राज्यं सर्वसम्पत्तिः समृद्धि लभ्यते सुखम् ॥ १२॥
तत्कुलं नन्दते पुंसाम्पुत्रपौत्रादिभिर्धृवम् ।
पार्वत्युवाच ।
यस्त्वया कथितो देव भैरवः स्तोत्रमुत्तमम् ॥ १३॥
अगण्य महिमा सिन्धुः श्रुतो मे बहुधा विभो ।
तस्य नामान्यनन्तानि प्रयुतान्यर्बुदानि च ॥ १४॥
सन्ति सत्यं पुरा ज्ञातं मया वै परमेश्वर ।
सारात्सारं समुधृत्य तेषु नाम सहस्रकम् ॥ १५॥
ब्रूहि मे करुणाकान्त ममानन्द वर्द्धन ।
यन्नित्यं कीर्तयेन्मर्त्यः सर्वदुःखविवर्जितः ॥ १६॥
सर्वान्कामान्वाप्नोति सर्वसिद्धिञ्च विन्दति ।
साधकः श्रद्धयायुक्तः सर्वाधिक्योर्कसद्युतिः ॥ १७॥
अप्रधृष्यश्च भवति सङ्ग्रामाङ्गण मूर्द्धति ।
नाग्निचोरभयं तस्य ग्रहराज भयं न च ॥ १८॥
न च मारी भयं तस्य व्याघ्रचोरभयं न च ।
शत्रुणां शस्त्रसङ्घाते भयं क्वापि न जायते ॥ १९॥
आयुरारोग्यमैश्वर्यं पुत्र पौत्रादि सम्पदः ।
भवति कीर्तनाद्यस्यत्ब्रूहि करुणाकर ॥ २०॥
ईश्वर उवाच ।
नाम्नां सहस्रं दिव्यानं भैरवस्य भवत्कृते ।
वक्ष्यामि तत्वतः सम्यक् सारात्सारतरं शुभम् ॥ २१॥
सर्वपापहरं पुण्यं सर्वोपद्रव नाशनम् ।
सर्वसम्पत्प्रदं चैव साधकानं सुखावहम् ॥ २२॥
सर्व मङ्गलमाङ्गल्यं सर्वव्याधिनिवारणम् ।
आयुःकरं पुष्टिकरं श्रीकरं च यशस्करम् ॥ २३॥
भैरव स्तवराजस्य महादेव ऋषिः स्मृतः ।
भैरवोदेवताऽनुष्टुप्छन्दश्चैव प्रकीर्तितम् ॥ २४॥
सर्वकार्यप्रसिद्ध्यर्थं प्रीतये भैरवस्यहि ।
करिष्ये हं जपमिति सङ्कल्प्यादौपुमान्सुधीः ॥ २५॥
ऋषिः शिरसि विन्यस्य छन्दस्तु मुखतो न्यसेत् ।
देवतां हृदयेन्यस्य ततो न्यासं समाचरेत् ॥ २६॥
भैरवं शिरसिन्यस्य ललाटे भीमदर्शनम् ।
नेत्रयो भूतहननं सारमेयानुगं भ्रुवौः ॥ २७॥
कर्णयोर्भूतनाथं च प्रेतवाहं कपोलयोः ।
नासापुटोष्ठ्योश्चैव भस्माङ्गं सर्वभूषणम् ॥ २८॥
अनादिभूतमास्ये च शक्ति हस्तङ्गले न्यस्येत् ।
स्कन्धयेर्दैत्यशमनं बाव्होरतुलतेजसम् ॥ २९॥
पाण्योः कपालिनं न्यस्य हृदये मुण्डमालिनम् ।
शान्तं वक्षस्थले न्यस्य स्तनयोः कामचारिणम् ॥ ३०॥
उदरे च सदातुष्टं क्षेत्रेशं पार्श्वयोस्तथा ।
क्षेत्रपालं पृष्ठदेशं क्षेत्रेज्ञं नाभिदेशके ॥ ३१॥
पापौघनाशं कट्यां बटुकं लिङ्गदेशके ।
गुदे रक्षाकरं न्यस्य तथोर्वो रक्तलोचनम् ॥ ३२॥
जानुनीर्घुर्घुरारावं जङ्घयो रक्तपायिनम् ।
गुल्फयोः पादुपासिद्धिं पादपृष्ठे सुरेश्वरम् ॥ ३३॥
आपादमस्तकं चैव आपदुद्धारकं न्यसेत् ।
पूर्वे डमरुहस्तं च दक्षिणे दण्डधारिणम् ॥ ३४॥
खड्गहस्तं पश्चिमे च घण्टावादिनमुत्तरे ।
आग्नेयामग्निवर्णं च नैऋत्ये च दिगम्बरम् ॥ ३५॥
वायव्ये सर्वभूतस्थमीशान्येचाष्टसिद्धिदम् ।
ऊर्ध्वं खेचरिणं न्यस्य पाताले रौद्ररूपिणम् ॥ ३६॥
एवं विन्यस्य देवेशी षडङ्गेषु ततो न्यसेत् ।
हृदये भूतनाथाय आदिनाथायमूर्द्धनि ॥ ३७॥
आनन्दपदपूर्वायनाथायाथ शिखालये ।
सिद्धिशाम्बरनाथाय कवचे विन्यस्येत्तथा ॥ ३८॥
सहजानन्दनाथायन्यसेन्नेत्रत्रये तथा ।
निःसीमानदनाथाय अस्त्रै चैव प्रयोजयेत् ॥ ३९॥
एवं न्यासविधिं कृत्वा यथावत्तदनन्तरम् ।
ध्यानं तस्य प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः ॥ ४०॥
शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् ।
नीलजीमूतसङ्काशं नीलाञ्जनसमप्रभम् ॥ ४१॥
अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ।
दशबाहुमथोग्रं च दिव्याम्बर परिग्रहम् ॥ ४२॥
दंष्ट्राकरालवदनं नूपुरारावसङ्कुलम् ।
भुजङ्गमेखलं देवमग्निवर्णं शिरोरुहम् ॥ ४३॥
दिगम्बरमाकुरेशं बटुकाख्यं महाबलम् ।
खट्वाङ्गमशिपाशं च शूलं दक्षिणभागतः ॥ ४४॥
डमरुं च कपालं च वरदं भुजगं तथा ।
आत्मवर्णसमोपेतं सारमेय समन्वितम् ॥ ४५॥
एवं ध्यात्वा सु सन्तुष्टो जपात्कामान्मवाप्नुयात् ।
साधकः सर्वलोकेषु सत्यं सत्यं न संशयः ॥ ४६॥
आनन्द सर्वगीर्वाण शिरोशृङ्गाङ्ग सगिनः ।
भैरवस्य पदाम्भोजं भूयस्तन्नौमि सिद्धये ॥ ४७॥
ॐ भैरवो भूतनाथश्च भूतात्मा भूतभावनः ।
भूतावासो भूतपतिर्भूरिदो भूरिदक्षिणः ॥ ४८॥
भूताध्यक्षो भूधरेशो भूधरो भूधरात्मजः ।
भूपतिर्भास्करि भीरुर्भीमो भूतिर्विभूतिदः ॥ ४९॥
भूतो भूकम्पनो भूमिर्भौमो भूताभिभावकः ।
भगनेत्रोभवोभोक्ता भूदेवो भगवानभीः ॥ ५०॥
भस्मप्रियो भस्मशायी भस्मोद्धूलितविग्रहः ।
भर्गः शुभाङ्गो भव्यश्चभूतवाहनसारथिः ॥ ५१॥
भ्राजिष्णुर्भोजनम्भोक्ता भिक्षुर्भक्तिजनप्रियः ।
भक्तिगम्यो भृङ्गिरिटिर्भक्त्या वेदितविग्रहः ॥ ५२॥
भूतचारी निशाचारी प्रेतचारी भयानकः ।
भावात्मा भूर्भुवोलक्ष्मीर्भानुर्भीमपराक्रमः ॥ ५३॥
पद्मगर्भो महागर्भो विश्वगर्भाः स्वभूरभूः ।
भूतलोभुवनाधिशो भूतिकृद्भ्रान्तिनाशनः ॥ ५४॥
भूतिभूषितसर्वाङ्गो भूशयोभूतवाहनः ।
क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रविघ्ननिवारणः ॥ ५५॥
क्षान्तः क्षुद्रः क्षेत्रपश्च क्षुद्रघ्नः क्ष्वियः क्षमी ।
क्षोभणो मारणस्तम्भी मोहनो जृम्भणो वशी ॥ ५६॥
क्षेपणः क्षान्तिदः क्षामः क्षमाक्षेत्रं क्षरोक्षरः ।
कङ्कालः कालशमनः कलाकाष्टातनुः कविः ॥ ५७॥
कालः कराली कङ्काली कपाली कमनीयकः ।
कालकालः कृत्तिवासाः कपर्दी कामशासनः ॥ ५८॥
कुबेरबन्धुः कामात्मा कर्णिकारप्रियः कविः ।
कामदेवः कामपालः कामीकान्तः कृतागमः ॥ ५९॥
कल्याणः प्रकृतिः कल्पः कल्पादिः कमलेक्षणः ।
कमण्ड्लुधरः केतुः कालयोगीत्वकल्मषः ॥ ६०॥
करणं कारणंकर्ता कैलासपतिरीश्वरः ।
कामारिः कश्यपोनादि किरीटी कौशिकस्तथा ॥ ६१॥
कपिलः कुशलः कर्ताकुमारः कल्पवृक्षकः ।
कलाधरः कलाधीशः कालकण्ठः कपालभृत् ॥ ६२॥
कैलासशिखरावासः क्रूरः किर्तिविभूषणः ।
कालज्ञानी कलिघ्नश्च कम्पितः कालविग्रहः ॥ ६३॥
कवची कञ्चुकी कुण्डी कुण्डली कर्यकोविदः ।
कालभक्षः कलङ्कारिः किङ्किणीकृतवासुकिः ॥ ६४॥
गणेश्वरश्च गौरीशो गिरिशो गिरिबान्धवः ।
गिरिधन्वा गुहो गोप्ता गुणराशिर्गुणाकरः ॥ ६५॥
गम्भीरो गहनो गोसागोमानूमन्ता मनोगतिः ।
श्रीशो गृहपतिर्गोप्ता गौरोगव्यमयः खगः ॥ ६६॥
गणग्राहि गुणग्राही गगनो गह्वराश्रयः ।
अग्रगण्येश्वरो योगी खट्वाङ्गी गगनालयः ॥ ६७॥
अमोघो मोघफलदो घण्टारावो घटप्रियः ।
चन्द्रपीडश्चन्द्रमौलिश्चित्रवेशश्चिरन्तनः ॥ ६८॥
चतुःशयश्चित्रबाहुरचलश्छिन्नसंशयः ।
चतुर्वेदश्चतुर्बाहुश्चतुरश्चतुरप्रियः ॥ ६९॥
चामुण्डाजनकश्चक्षुश्चलचक्षुरचञ्चलः ।
अचिन्त्य महिमाचिन्त्यश्चराचर चरित्रगुः ॥ ७०॥
चन्द्रसञ्जीवनश्चित्र आचार्यश्च चतुर्मुखः ।
ओजस्तेजोद्युति धरोजित कामोजनप्रियः ॥ ७१॥
अजातशत्रुरोजस्वी जितकालो जगत्पतिः ।
जगदादिरजोजातो जगदीशो जनार्दनः ॥ ७२॥
जननोजन जन्मादिरार्जुनो जन्मविजयी ।
जन्माधिपोजटिर्ज्योतिर्जन्ममृत्युजरापहः ॥ ७३॥
जयोजयारि ज्योतिष्मान् जानकर्णो जगद्धितः ।
जमदग्निर्जलनिधिर्जटिलो जीवितेश्वरः ॥ ७४॥
जीवितान्तकरो ज्येष्ठो जगन्नाथो जनेश्वरः ।
त्रिवर्गसाधनस्तार्क्ष्यस्तरणिस्तन्तुवर्द्धनः ॥ ७५॥
तपस्वी तारकस्त्वष्टा तीव्रश्चात्मसंस्थितः ।
तपनस्तापसन्तुष्टश्चात्मयोनिरतीन्द्रियः ॥ ७६॥
उत्तारकस्तिमिरहातीव्रानन्दस्तनूनपातू ।
अन्तर्हितस्तमिश्रश्चस्तेजस्तेजोमयस्तुतिः ॥ ७७॥
तरुस्तीर्थङ्करस्त्वष्टातत्वन्तत्वविदुत्तमः ।
तेजोराशिस्तुम्बवीणस्त्वतिथिरतिथिप्रियः ॥ ७८॥
आत्मयोगसमान्मातस्तीर्थदेव शिलामयः ।
स्थानदः स्थापितः स्थाणुः स्थविष्टः स्थविरः स्थितः ॥ ७९॥
त्रिलोकेशः त्रिलोकात्मा त्रिशूलः त्रिदशाधिपः ।
त्रिलोचनः त्रयीवेद्यः त्रिवर्गस्थः त्रिवर्गदः ॥ ८०॥
दूरश्रवा दुष्कृतघ्नोदुर्द्धर्षो दुःसहोदयः ।
दृढपारी दृढोदेवो देवदेवोथ दुन्दुभः ॥ ८१॥
दीर्घायुधो दीर्घतपो दक्षोदुःस्वप्ननाशनः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरासदः ॥ ८२॥
दमो दमयिता दान्तो दातादानन्दयाकरः ।
दुर्वासाद्रिर्देवकार्यो दुर्ज्ञेयो दुर्भगोदयः ॥ ८३॥
दण्डिदाहो दानवारिर्देवेन्द्रस्त्वरिमर्दनः ।
देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥ ८४॥
देवासुरमहामन्त्रो देवासुरमहाश्रयः ।
देवाधिदेवो देवर्षि देवासुरवरप्रदः ॥ ८५॥
देवासुरेश्वरो देव्यो देवासुर महेश्वरः ।
सर्वदेवमयो दण्डो देवसिंहो दिवाकरः ॥ ८६॥
दम्भो दम्भोमहादम्भो दम्भकृद्दम्भमर्दनः ।
दर्पघ्नो दर्पदोद्दप्तो दुर्जयो दुरतिक्रमः ॥ ८७॥
देवनाथो दुराधर्षो दैवज्ञो देवचिन्तकः ।
दक्षारिर्देवपालश्च दुःखदारिद्र्यहारकः ॥ ८८॥
अध्यात्मयोगरतो निरतो धर्मशत्रु धनुर्द्धरः ।
धनाधिपो धर्मचारी धर्मधन्वा धनागमः ॥ ८९॥
ध्येयोऽग्रधुर्यो धात्रीशो धर्मकृद्धर्मवर्द्धनः ।
ध्यानाधारो धनन्ध्येयो धर्मपूज्योऽथ धूर्जटिः ॥ ९०॥
धर्मधामा धनुर्धन्यो धनुर्वेदो धरातिपः ।
अनन्तदृष्टिरानन्दो नियमो नियमाश्रयः ॥ ९१॥
नलोऽनलो नागभुजो निदाद्यो नीललोहितः ।
अनादिमध्यनिधनो नीलकण्ठो निशाचरः ॥ ९२॥
अनघो नर्तको नेता नियतात्मा निजोद्भटः ।
ज्ञानन्नित्यप्रकाशात्मा निवृत्तात्मा नदीधरः ॥ ९३॥
नीतिः सुनीतिरुन्मत्तोऽनुत्तमस्त्व निवारितः ।
अनादिनिधनोऽनन्तो निराकारो नभोगतिः ॥ ९४॥
नित्यो नियतकल्याणोनगोनिःश्रेयसालयः ।
नक्षत्रमालिनाकेशो नागहारः पिनाकधृक् ॥ ९५॥
न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः ।
निरावरणविज्ञानो नरसिंहो निपातनः ॥ ९६॥
नन्दीनन्दीश्वरो नग्नो नग्नब्रह्म धरोनरः ।
धर्मदो निरहङ्कारो निर्मोहो निरुपद्रवः ॥ ९७॥
निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्द्दनः ।
अनघो निष्कलो निष्ठो नीलग्रीवो निरामयः ॥ ९८॥
अनिरुद्धस्त्वनाद्यन्तो नैकात्मा नैककर्मकृत् ।
नगरेतानगीनन्दीत्द्यानन्दधनवर्द्धनः ॥ ९९॥
योगी वियोगी खट्वाङ्गी खड्गी श्रॄङ्गीखरीगरी ।
रागी विरागी संरागी त्यागी गौरीवराङ्गदी ॥ १००॥
डमरूमरुक व्याघ्रहस्ताग्रश्चन्द्रखण्डभृत् ।
ताण्डवाडम्बररुचीरुण्डमुण्डनपण्डितः ॥ १०१॥
परमेश्वरः पशुपतिः पिनाकी पुरशासनः ।
पुरातनो देवकार्यः परमेष्ठी परायणः ॥ १०२॥
पञ्चविंशतितत्वज्ञः पञ्चयज्ञप्रभञ्जनः ।
पुष्करञ्च परम्ब्रह्मपारिजातः परात्परः ॥ १०३॥
प्रतिष्ठितः प्रमाणज्ञः प्रमाणम्परमन्तपः ।
पञ्चब्रह्मसमुत्पत्तिः परमात्मा परावरः ॥ १०४॥
पिनाकपाणिः प्रांशुश्चप्रत्ययः परमेश्वरः ।
प्रभाकरः प्रत्ययश्च प्रणवश्च पुरञ्जयः ॥ १०५॥
पवित्रपाणिः पापारिः प्रतापार्चिरपान्निधिः ।
पुलस्त्यः पुलहोगस्त्यो पुरुहूतः पुरुष्टुतः ॥ १०६॥
पद्माकरः परञ्ज्योतिः परापरफलप्रदः ।
परापरज्ञः परदः परशत्रुः परम्पदः ॥ १०७॥
पूर्णः पूरयितापुण्यः पुण्यश्रवणकीर्तनः ।
पुरन्दरः पुण्यकीर्तिः प्रमादी पापनाशनः ॥ १०८॥
परशीलः परगुणः पाण्डुरागपुरन्दरः ।
परार्थवृत्तिः प्रभवः पुरुषः पूर्वजः पिता ॥ १०९॥
पिङ्गलः पवनः प्रेक्षः प्रतप्तः पूषदन्तहा ।
परमार्थगुरुः प्रीतः प्रीतिमांश्च प्रतापनः ॥ ११०॥
पराशरः पद्मगर्भः परः परपुरञ्जयः ।
उपद्रवः पद्मकरः परमार्थैक पण्डितः ॥ १११॥
महेश्वरो महादेवो मुद्गलो मधुरोमृदुः ।
मनःशायी महायोगी महाकर्मा महौषधम् ॥ ११२॥
महर्षिः कपिलाचार्यो मृगव्याधो महाबलः ।
महानिधिर्महाभूतिर्महानीतिर्महामतिः ॥ ११३॥
महाहृदो महागर्तो महाभूतो मृतोपमः ।
अमृतांशोमृतवपुर्मरीचिर्महिमालयः ॥ ११४॥
महातमो महाकायो मृगबाणार्पणोमलः ।
महाबलो महातेजो महायोगी महामनः ॥ ११५॥
महामायो महासत्वो महानादो महोत्सवः ।
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ॥ ११६॥
उन्मत्तकीर्तिरुन्मत्तो माधवीनमितोमतिः ।
महाश्रृङ्गोऽमृतोमन्त्रो माङ्गल्यो मङ्गलप्रियः ॥ ११७॥
अमोघदण्डो मध्यस्छोमहेन्द्रोऽमोघविक्रमः ।
अमेयोऽरिष्टमथनो मुकुन्दस्त्वमयाचलः ॥ ११८॥
मातामहो मातरिश्वा मणिपूरो महाशयः ।
महाश्रयो महागर्भो महाकल्पो महाधनुः ॥ ११९॥
मनो मनोजवो मानी मेरुमेद्यो मृदोमनुः ।
महाकोशो महाज्ञानी महाकालः कलिप्रियः ॥ १२०॥
महाबटुर्महात्यागी महाकोशोमहागतिः ।
शिखण्डी कवची शूली जटी मुण्डी च कुण्डली ॥ १२१॥
मेखली कञ्चुकी खड्गी माली मायी महामणिः ।
महेष्वासो महीभर्ता महावीरो महीभूजः ॥ १२२॥
मखकर्ता मखध्वंसी मधुरो मधुरप्रियः ।
ब्रह्मसृष्टिर्ब्रह्मवीर्यो बाणहस्तो महाबली ॥ १२३॥
कालरूपो बलोन्मादी ब्रह्मण्यो ब्रह्मवर्चसी ।
बहुरूपो बहुमायो ब्रह्माविष्णुशिवात्मकः ॥ १२४॥
ब्रह्मगर्भो बृहद्गर्भो बृहज्ज्योतिर्बृहत्तरः ।
बीजाध्यक्षो बीजकर्ता बीजाङ्गो बीजवाहनः ॥ १२५॥
ब्रह्म ब्रह्मविदो ब्रह्मज्योतिर्बृहस्पतिः ।
बीजबुद्धि ब्रह्मचारी ब्रह्मण्यो ब्राह्मणप्रियः ॥ १२६॥
युगादिकृद्युगावर्तो युगाध्यक्षो युगापहा ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १२७॥
योगाचार्यो योगगम्यो योगी योगश्चयोगवित् ।
योगाङ्गो योगसारङ्गो यक्षोयुक्तिर्यमोयमी ॥ १२८॥
रौद्रो रुद्र ऋषी राहू रुचिर्त्वं रणप्रियः ।
अरोगो रोगहारी च रुधिरो रुचिराङ्गदी ॥ १२९॥
लोहिताक्षो ललाटाक्षो लोकदो लोककारकः ।
लोकबन्धुर्लोकनाथो लक्षण ज्ञोथलक्षणः ॥ १३०॥
लोकमायो लोककर्ता लौल्यो ललित एव च ।
वरीयानू वरदो वन्द्यो विद्वान् विश्वामरेश्वरः ॥ १३१॥
वेदान्तसारसन्देहो वीतरागो विशारदः ।
विश्वमूर्तिर्विश्ववेद्यो वामदेवो विमोचकः ॥ १३२॥
विश्वरूपो विश्वपक्षो वागीशो वृषवाहनः ।
वृषाङ्कोथ विशालाक्षो विश्वदीप्तिर्विलोचनः ॥ १३३॥
विलोको विश्वदृग्विश्वोविजितात्मालयः पुमान् ।
व्याघ्रचर्मधरोवाङ्गी वाङ्मयैकविधिर्विभुः ॥ १३४॥
वर्णाश्रम गुरुवर्णी वरदो वायुवाहनः ।
विश्वकर्मा विनीतात्मा वेदशास्त्रार्थ तत्ववित् ॥ १३५॥
वसुर्वसुमना व्यालो विरामो विमदः कविः ।
विमोचकश्चविजयो विशिष्टो वृषवाहनः ॥ १३६॥
विद्येशो विबुधो वादी वेदाङ्गो वेदविन्मुतिः ।
विश्वेश्वरो वीरभद्रो वीरासन विधिर्विराट ॥ १३७॥
व्यवसायो व्यवस्छानः वीरचुडामणिर्वरः ।
वालखिल्यो विश्वदेहो विरामो वसुदोवसुः ॥ १३८॥
विरोचनो वररुचिर्वेद्यो वाचस्पतिर्गतिः ।
विद्वत्तमोवीतभयो विश्रुतिर्विमलोदयः ॥ १३९॥
वैवस्वतो वसिष्ठश्च विभूतिर्विगतज्वरः ।
विश्वहर्ता विश्वागोप्ता विश्वामित्रो द्विजेश्वरः ॥ १४०॥
विश्वोत्पत्तिर्विश्वसहो विश्वावासो वसुश्रवाः ।
विश्वरूपो वज्रहस्तो विपाको विश्वकारकः ॥ १४१॥
वृषदर्श्वो व्यासकल्पो विशल्पो लोकशल्यहृत् ।
विरूपो विकृतो वेगी विरञ्चिर्विष्टरश्रवाः ॥ १४२॥
अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो विशाम्पतिः ।
विबुद्धोऽग्रकरो वेदो विश्वगर्भो विचक्षणः ॥ १४३॥
विष्माक्षो विलोमाक्षो वृषभो वृषवर्द्धनः ।
वित्तप्रदो वसन्तश्च विवस्वान् विक्रमोत्तमः ॥ १४४॥
वेद्यो वैद्यो विश्वरूपो विविक्तो विश्वभाजनम् ।
विषयस्छो विविक्तस्छो विद्याराशिर्वियत्प्रियः ॥ १४५॥
शिवः सर्वः सदाचारः शम्भुरीशान ईश्वरः ।
श्रुतिधर्मानसंवादी सहस्राक्षः सहस्रपात् ॥ १४६॥
सर्वज्ञः सर्वदेवश्च शङ्करः शूलधारकः ।
सुशरीरः स्कन्दगुरुः श्रीकण्ठः सूर्यतापनः ॥ १४७॥
ईशानो निलयः स्वस्ति सामवेदस्त्वथर्ववित् ।
नीतिः सुनीतिः श्रद्धात्मा सोमः सोमतरः सुखी ॥ १४८॥
सोमपामृतपः सौम्यः सूत्रकारः सनातनः ।
शाखो विशाखो सम्भाव्यः सर्वदः सर्वगोचरः ॥ १४९॥
सदाशिवः समावृत्तिः सुकीर्तिः स्छिन्नसंशयः ।
सर्वावासः सदावासः सर्वायुधविशारदः ॥ १५०॥
सुलभः सुव्रतः शूरः शुभाङ्गः शुभविग्रहः ।
सुवर्णाङ्गः स्वात्मशत्रुः शत्रुजिछत्रुतापनः ॥ १५१॥
शनिः सूर्यः सर्वकर्मा सर्वलोकप्रजापतिः ।
सिद्धः सर्वेश्वरः स्वस्ति स्वस्तिकृत्स्वस्ति भूस्वधा ॥ १५२॥
वसुर्वसुमनासत्यः सर्वपापहरोहरः ।
सर्वादिः सिद्धिदः सिद्धिः सत्वावासःश्चतुष्पथः ॥ १५३॥
संवत्सरकरः श्रीमान् शान्तः संवत्सरः शिशुः ।
स्पष्टाक्षरः सर्वहारी सङ्ग्रामः समराधिकः ॥ १५४॥
इष्टोविशिष्टः शिष्टेष्टः शुभदः सुलभायनः ।
सुब्रह्मण्यः सुरगणो सुशरण्यः सुधापतिः ॥ १५५॥
शरण्यः शाश्वतः स्कन्दः शिपिविष्टः शिवाश्रयः ।
संसारचक्रभृत्सारः शङ्करः सर्वसाधकः ॥ १५६॥
शस्त्रं शास्त्रं शान्तरागः सवितासकलागमः ।
सुवीरः सत्पथाचारः षड्विंशः सप्तलोकधृक् ॥ १५७॥
सम्राट् सुवेषः शत्रुघ्नोऽसुरशत्रुः शुभोदयः ।
समर्थः सुगतः शक्रः सद्योगी सदसन्मयः ॥ १५८॥
शास्त्रनेत्रं मुखं श्मश्रु स्वाधिष्ठानं षडाश्रयः ।
अभूः सत्यपतिर्वृद्धः शमनः शिखिसारथिः ॥ १५९॥
सुप्रतीकः सुवृद्धात्मा वामनः सुखवारिधिः ।
सुखानीडः सुनिष्पन्नः सुरभिः सृष्टिरात्मकः ॥ १६०॥
सर्वदेवमयः शैलः सर्वशस्त्रप्रभञ्जनः ।
शिवालयः सर्वरूपः सहस्रमुखनासिका ॥ १६१॥
सहस्रबाहुः सर्वेषां शरण्यः सर्वलोकधृक् ।
इन्द्रेशः सुरसव्यासः सर्वदेवोत्तमोत्तमः ॥ १६२॥
शिवध्यानरतः श्रीमान् शिखिश्री चण्डिकाप्रियः ।
श्मशाननिलयः सेतुः सर्वभूतमहेश्वरः ॥ १६३॥
सुविशिष्टः सुराध्यक्षः सुकुमारः सुलोचनः ।
सकलः स्वर्गतः स्वर्गः सर्गः स्वरमयः स्वनः ॥ १६४॥
सामगः सकलधारः सामगानप्रियः शिचिः ।
सद्गतिः सत्कृतिः शान्तसद्भूतिः सत्परायणः ॥ १६५॥
शुचिस्मितः प्रसन्नात्मा सर्वशस्त्रमृतांवरः ।
सर्वावासः स्तुतस्त्वष्टा सत्यव्रतपरायणः ॥ १६६॥
श्रीवल्लभः शिवारम्भः शान्तभद्रः सुमानसः ।
सत्यवान् सात्विकः सत्यः सर्वजिछ्रुतिसागरः ॥ १६७॥
सहस्रार्चिः सप्तजिह्वः सप्तावर मुनीश्वरः ।
संसारसारथिः शुद्धः शत्रुघ्नः शत्रुतापनः ॥ १६८॥
सुरेशः शरणं शर्म सर्वदेवः सताङ्गतिः ।
सद्धृत्तोव्रतसिद्धिश्च सिद्धिदः सिद्धिसाधनः ॥ १६९॥
शान्तबुद्धिः शुद्धबुद्धिः स्रष्टास्तोऽतास्तवप्रियः ।
रसज्ञः सर्वसारज्ञः सर्वसत्वावलम्बनः ॥ १७०॥
स्थूलः सूक्ष्मः सुसूक्ष्मश्च सहस्राक्षः प्रकाशकः ।
सारमेयानुगः सुभ्रूः प्रौढबाहुः सहस्रदृक् ॥ १७१॥
गृहात्मको रुद्ररूपी वषट् स्वरमयः शशी ॥
आदित्यः सर्वकर्त्ता च सर्वायुः सर्वबुद्धिदः । १७२॥
संहृष्टस्तुसदापुष्टो घुर्घुरो रक्तलोचनः ।
पादुकासिद्धिदः पाता पारुष्य विनिषूदनः ॥ १७३॥
अष्टसिद्धिर्महासिद्धिः परः सर्वाभिचारकः ।
भूतवेतालघाती च वेतालानुचरोरविः ॥ १७४॥
कालाग्निः कालरुद्रश्च कालादित्यः कलामयः ।
कालमाली कालकण्ठस्त्र्य्म्बकस्त्रिपुरान्तकः ॥ १७५॥
सर्वाभिचारीहन्ता च तथा कृत्यानिषूदनः ।
आन्त्रमाली घण्टमाली स्वर्णाकर्षणभैरवः ॥ १७६॥
नाम्नां सहस्रं दिव्यानां भैरवस्य महात्मनः ।
मया ते कथितं देवि रहस्यं सर्वकामदम् ॥ १७७॥
भैरवस्य वरारोहे वरं नामसहस्रकम् ।
पठते पाठयेद्यस्तु श्रुणुयात्सु समाहितः ॥ १७८॥
न तस्य दुरितं किञ्चिन्नमारी भयमेवच ।
न च भूतभयं किञ्चिन्न रोगाणां भयं तथा ॥ १७९॥
न पातकाद्भयं चैव शत्रुतो न भयं भवेत् ।
मारीभयं चोरभयं नाग्निव्याघ्रादिजं भयम् ॥ १८०॥
औत्पातिकं महाघोरं पठते यो विलीयते ।
दुःस्वप्नजे राजभये विपत्तौ घोरदर्शने ॥ १८१॥
स्तोत्रमेतत्पठेद्विद्वान्सर्वदुःखौघनाशनम् ।
सर्वप्रशममायाति सहस्रपरिकीर्तनात् ॥ १८२॥
एककालं द्विकालं वा त्रिकालमथवानिशी ।
पठेद्यो नियताहारः सर्वसिद्धि च विन्दति ॥ १८३॥
भूमिकामो भूतिकामः षण्मासं च जपेत्सुधीः ।
प्रतिकृत्या विनाशार्थं जपेत्रिशतमुत्तमम् ॥ १८४॥
मासत्रयेण सर्वेषां रिपूणामन्तको भवेत् ।
मासत्रयं जपेद्देवि निशिनिश्चलमानसः ॥ १८५॥
धनं पुत्रान् तथादारान् प्राप्नुयान्नात्र संशयः ।
महाकारागृहे बद्धपिशाचैः परिवारितः ॥ १८६॥
निगडैः शृङ्खलाभिश्च बन्धनं परमं गतः ।
पठेद्देवि दिवारात्रौ सर्वान्कामान्नवाप्नुयात् ॥ १८७॥
शतमावर्तनाद्देवि पुरश्चरणमुच्यते ।
यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥ १८८॥
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ।
सर्व कामः प्रदो देवि भैरवः सर्वसिद्धिदः ॥ १८९॥
सत्कुलीनाय शान्ताय ऋषये सत्यवादिन ।
स्तोत्रदानात्सु प्रहृष्टो भैरवोभून्महेश्वरः ॥ १९०॥
॥ इतिश्रीउड्डामरेतन्त्रे उमामहेश्वर संवादे
भैरवसहस्रनामस्तोत्रं सम्पूर्णम् ॥
Encoded and Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Swarnakarshana Bhairava Sahasranama Stotram Lyrics in Devanagari PDF
% File name : svarNAkarShaNabhairavasahasra.itx
% Category : sahasranAma
% Location : doc\_shiva
% Author : Traditional
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Ravin bhalekar ravibhalekar at hotmail.com
% Proofread by : Ravin bhalekar ravibhalekar at hotmail.com
% Description-comments : uDDAmaretantre umAmaheshvarasa.vAde
% Latest update : November 26, 2006, July 10 2010 name change
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 12, 2015 ] at Stotram Website