मणिकर्णिकाष्टकम्

{॥ मणिकर्णिकाष्टकम् ॥}
त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौ
वादन्तौ कुरुतः परस्परमुभौ जन्तोः प्रयाणोत्सवे ।
मद्रूपो मनुजोऽयमस्तु हरिणा प्रोक्तः शिवस्तत्क्षणात्
तन्मध्याद्भृगुलाञ्छनो गरुडगः पीताम्बरो निर्गतः ॥ १॥

इन्द्राद्यास्त्रिदशाः पतन्ति नियतं भोगक्षये ये पुन
र्जायन्ते मनुजास्ततोपि पशवः कीटाः पतङ्गादयः ।
ये मातर्मणिकर्णिके तव जले मज्जन्ति निष्कल्मषाः
सायुज्येऽपि किरीटकौस्तुभधरा नारायणाः स्युर्नराः ॥ २॥

काशी धन्यतमा विमुक्तनगरी सालंकृता गङ्गया
तत्रेयं मणिकर्णिका सुखकरी मुक्तिर्हि तत्किंकरी ।
स्वर्लोकस्तुलितः सहैव विबुधैः काश्या समं ब्रह्मणा
काशी क्षोणितले स्थिता गुरुतरा स्वर्गो लघुत्वं गतः ॥ ३॥

गङ्गातीरमनुत्तमं हि सकलं तत्रापि काश्युत्तमा
तस्यां सा मणिकर्णिकोत्तमतमा येत्रेश्वरो मुक्तिदः ।
देवानामपि दुर्लभं स्थलमिदं पापौघनाशक्षमं
पूर्वोपार्जितपुण्यपुञ्जगमकं पुण्यैर्जनैः प्राप्यते ॥ ४॥

दुःखाम्भोधिगतो हि जन्तुनिवहस्तेषां कथं निष्कृतिः
ज्ञात्वा तद्वि विरिञ्चिना विरचिता वाराणसी शर्मदा ।
लोकाःस्वर्गसुखास्ततोऽपि लघवो भोगान्तपातप्रदाः
काशी मुक्तिपुरी सदा शिवकरी धर्मार्थमोक्षप्रदा ॥ ५॥

एको वेणुधरो धराधरधरः श्रीवत्सभूषाधरः
योऽप्येकः किल शंकरो विषधरो गङ्गाधरो माधवः ।
ये मातर्मणिकर्णिके तव जले मज्जन्ति ते मानवाः
रुद्रा वा हरयो भवन्ति बहवस्तेषां बहुत्वं कथम् ॥ ६॥

त्वत्तीरे मरणं तु मङ्गलकरं देवैरपि श्लाध्यते
शक्रस्तं मनुजं सहस्रनयनैर्द्रष्टुं सदा तत्परः ।
आयान्तं सविता सहस्रकिरणैः प्रत्युग्दतोऽभूत्सदा
पुण्योऽसौ वृषगोऽथवा गरुडगः किं मन्दिरं यास्यति ॥ ७॥

मध्याह्ने मणिकर्णिकास्नपनजं पुण्यं न वक्तुं क्षमः
स्वीयैरब्धशतैश्चतुर्मुखधरो वेदार्थदीक्षागुरुः ।
योगाभ्यासबलेन चन्द्रशिखरस्तत्पुण्यपारंगतः
त्वत्तीरे प्रकरोति सुप्तपुरुषं नारायणं वा शिवम् ॥ ८॥

कृच्छैर्ः कोटिशतैः स्वपापनिधनं यच्चाश्वमेधैः फलं
तत्सर्वे मणिकर्णिकास्नपनजे पुण्ये प्रविष्टं भवेत् ।
स्नात्वा स्तोत्रमिदं नरः पठति चेत्संसारपाथोनिधिं
तीर्त्वा पल्वलवत्प्रयाति सदनं तेजोमयं ब्रह्मणः ॥ ९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
मणिकर्णिकाष्टकं सम्पूर्णम् ॥


%Encoded by "Savithri D"
%Date: Fri, 09 Jun 2000

Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Manikarnika Ashtakam Lyrics in Devanagari PDF
% File name : manikarnika8.itx
% Category : aShTaka
% Location : doc\_devii
% Author : Popular stotra
% Language : Sanskrit
% Subject : philosophy/hinduism
% Transliterated by : Savithri D. savdev at hotmail.com
% Proofread by : Savithri D. savdev at hotmail.com
% Latest update : June 14, 2000
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%
We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 12, 2015 ] at Stotram Website