श्रीगणेशाय नमः । देवर्षय ऊचुः । नमस्ते गजवक्‍त्राय गजाननसुरूपिणे । पराशरसुतायैव वत्सलासूनवे नमः ॥ १॥ व्यासभ्रात्रे शुकस्यैव पितृव्याय नमो नमः । अनादिगणनाथाय स्वानन्दावासिने नमः ॥ २॥ रजसा सृष्टिकर्ते ते सत्त्वतः पालकाय वै । तमसा सर्वसंहर्त्रे गणेशाय नमो नमः ॥ ३॥ सुकृतेः पुरुषस्यापि रूपिणे परमात्मने । बोधाकाराय वै तुभ्यं केवलाय नमो नमः ।४॥ स्वसंवेद्याय देवाय योगाय गणपाय च । शान्तिरूपाय तुभ्यं वै नमस्ते ब्रह्मनायक ॥ ५॥ विनायकाय वीराय गजदैत्यस्य शत्रवे । मुनिमानसनिष्ठाय मुनीनां पालकाय च ॥ ६॥ देवरक्षकरायैव विघ्नेशाय नमो नमः । वक्रतुण्डाय धीराय चैकदन्ताय ते नमः ॥ ७॥ त्वयाऽयं निहतो दैत्यो गजनामा महाबलः । ब्रह्माण्डे मृत्यु संहीनो महाश्चर्यं कृतं विभो!॥ ८॥ हते दैत्येऽधुना कृत्स्नं जगत्सन्तोषमेष्यति । स्वाहा-स्वधा युतं पूर्णं स्वधर्मस्थं भविष्यति ॥ ९॥ एवमुक्‍त्वा गणाधीश सर्वे देवर्षयस्ततः । प्रणम्य तूष्णीभावं ते सम्प्राप्ता विगतज्वराः ॥ १०॥ कर्णौ सम्पीड्य गणप-चरणे शिरसो ध्वनिः । मधुरः प्रकृतस्तैस्तु तेन तुष्टो गजाननः ॥ ११॥ तानुवाच मदीया ये भक्‍ताः परमभाविताः । तैश्च नित्यं प्रकर्तव्यं भवद्भिर्नमनं यथा ॥ १२॥ तेभ्योऽहं प्ररमप्रीतो दास्यामि मनसीप्सिताम् । एतादृशं प्रियं मे च मननं नाऽत्र संशयः ॥ १३॥ एवमुक्‍त्वा स तान् सर्वान् सिद्धि-बुद्ध्यादि-संयुतः । अन्तर्दधे ततो देवा मनुयः स्वस्थलं ययुः ॥ १४॥ ॥ इति श्रीमदान्त्ये मौद्गले द्वितीयखण्डे गजासुरवधे गजाननस्तोत्रं सम्पूर्णम् ॥ Proofread by Ravin Bhalekar ravibhalekar@hotmail.com % File name : gajAnanastotram.itx % Text title : gajAnana stotra % Texttype : stotra % Author : Traditional % Subject : philosophy/hinduism/religion % Transliterated by : WebD % Proofread by : Ravin Bhalekar ravibhalekar@hotmail.com % Description/comments : mudgalapurANa\_dvitIyakhaNDa % Latest update : September 02, 2004 % Send corrections to : sanskrit@cheerful.com This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.