सूर्यकवच
{॥ सूर्यकवच ॥}
श्रीभैरव उवाच
यो देवदेवो भगवान् भास्करो महसां निधिः।
गयत्रीनायको भास्वान् सवितेति प्रगीयते ॥ १॥
तस्याहं कवचं दिव्यं वज्रपञ्जरकाभिधम्।
सर्वमन्त्रमयं गुह्यं मूलविद्यारहस्यकम् ॥ २॥
सर्वपापापहं देवि दुःखदारिद्र्यनाशनम्।
महाकुष्ठहरं पुण्यं सर्वरोगनिवर्हणम् ॥ ३॥
सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम्।
सर्वतेजोमयं सर्वदेवदानवपूजितम् ॥ ४॥
रणे राजभये घोरे सर्वोपद्रवनाशनम्।
मातृकावेष्टितं वर्म भैरवानननिर्गतम् ॥ ५॥
ग्रहपीडाहरं देवि सर्वसङ्कटनाशनम्।
धारणादस्य देवेशि ब्रह्मा लोकपितामहः ॥ ६॥
विष्णुर्नारायणो देवि रणे दैत्याञ्जिओष्यति।
शङ्करः सर्वलोकेशो वासवोऽपि दिवस्पतिः ॥ ७॥
ओषधीशः शशी देवि शिवोऽहं भैरवेश्वरः।
मन्त्रात्मकं परं वर्म सवितुः सारमुत्तमम् ॥ ८॥
यो धारयेद् भुजे मूर्ध्नि रविवारे महेश्वरि।
स राजवल्लभो लोके तेजस्वी वैरिमर्दनः ॥ ९॥
बहुनोक्तेन किं देवि कवचस्यास्य धारणात्।
इह लक्ष्मीधनारोग्य-वृद्धिर्भवति नान्यथा ॥ १०॥
परत्र परमा मुक्तिर्देवानाअमपि दुर्लभा।
कवचस्यास्य देवेशि मूलविद्यामयस्य च ॥ ११॥
वज्रपञ्जरकाख्यस्य मुनिर्ब्रह्मा समीरितः।
गायत्र्यं छन्द इत्युक्तं देवता सविता स्मृतः ॥ १२॥
माया बीजं शरत् शक्तिर्नमः कीलकमीश्वरि।
सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः ॥ १३॥
ओं अं आं इं ईं शिरः पातु ओं सूर्यो मन्त्रविग्रहः।
उं ऊं ऋं ॠं ललाटं मे ह्रां रविः पातु चिन्मयः ॥ १४॥
ऌं ॡं एं ऐं पातु नेत्रे ह्रीं ममारुणसारथिः।
ओं औं अं अः श्रुती पातु सः सर्वजगदीश्वरः ॥ १५॥
कं खं गं घं पातु गण्डौ सूं सूरः सुरपूजितः।
चं छं जं झं च नासां मे पातु या^र्ं अर्यमा प्रभुः ॥ १६॥
टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः।
तं थं दं धं गलं पातु नं नारायणवल्लभः ॥ १७॥
पं फं बं भं मम स्कन्धौ पातु मं महसां निधिः।
यं रं लं वं भुजौ पातु मूलं सकनायकः ॥ १८॥
शं षं सं हं पातु वक्षो मूलमन्त्रमयोइ ध्रुवः।
ळं क्षः कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः ॥ १९॥
ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः।
अं आं इं ईं उं ऊं ऋं ॠं नाभिं पातु तमोपहः ॥ २०॥
ऌं ॡं एं ऐं ओं औं अं अः लिङ्गं मेऽव्याद् ग्रहेश्वरः।
कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु ॥ २१॥
टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु।
पं फं बं भं यं रं लं वं जङ्घे मे।आव्याद् विभाकरः ॥ २२॥
शं षं सं हं ळं क्षः पातु मूलं पादौ त्रयितनुः।
ङं ञं णं नं मं मे पातु सविता सकलं वपुः ॥ २३॥
सोमः पूर्वे च मां पातु भौमोऽग्नौ मां सदावतु।
बुधो मां दक्षिणे पातु नै{ऋ}त्या गुररेव माम् ॥ २४॥
पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः।
उत्तरे मां तमः पायादैशान्यां मां शिखी तथा ॥ २५॥
ऊर्ध्वं मां पातु मिहिरो मामधस्ताञ्जगत्पतिः।
प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः ॥ २६॥
सायं वेदप्रियः पातु निशीथे विस्फुरापतिः।
सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः ॥ २७॥
रणे राजकुले द्यूते विदादे शत्रुसङ्कटे।
सङ्गामे च ज्वरे रोगे पातु मां सविता प्रभुः ॥ २८॥
ओं ओं ओं उत ओं{उ}{ॐ} ह स म यः सूरोऽवतान्मां भयाद्।
ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसोऽवतात् सर्वतः।
सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् संकटात्।
पायान्मां कुलनायकोऽपि सविता ओं ह्रीं ह सौः सर्वदा ॥ २९॥
द्रां द्रीं द्रूं दधनं तथा च तरणिर्भांभैर्भयाद् भास्करो
रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात्।
अं अं आं विविवीं महामयभयं मां पातु मार्तण्डको
मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान् ॥ ३०॥
इति श्रीकवच्चं दिव्यं वज्रपञ्जरकाभिधम्।
सर्वदेवरहस्यं च मातृकामन्त्रवेष्टितम् ॥ ३१॥
महारोगभयघ्नं च पापघ्नं मन्मुखोदितम्।
गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे ॥ ३२॥
लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये।
अष्टगन्धेन दिव्येन सुधाक्षीरेण पार्वति ॥ ३३॥
अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि।
कनकीकाष्ठलेखन्या कवचं भास्करोदये ॥ ३४॥
श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम्।
सौवर्णेनाथ संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे ॥ ३५॥
रणे रिपूञ्जयेद् देवि वादे सदसि जेष्यति।
राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत् ॥ ३६॥
कण्ठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी।
शिरःस्था गुटिका दिव्या राकलोकवशङ्करी ॥ ३७॥
भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी।
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ॥ ३८॥
कण्ठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये।
यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि ॥ ३९॥
महास्त्राणीन्द्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति।
तद्देहं प्राप्य व्यर्थानि भविष्यन्ति न संशयः ॥ ४०॥
त्रिकालं यः पठेन्नित्यं कवचं वज्रपञ्जरम्।
तस्य सद्यो महादेवि सविता वरदो भवेत् ॥ ४१॥
अज्ञात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम्।
तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम् ॥ ४२॥
शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे।
महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः ॥ ४३॥
निरोगो यः पठेद्वर्म दरिद्रो वज्रपञ्जरम् ।
लक्ष्मीवाञ्जायते देवि सद्यः सूर्यप्रसादतः ॥ ४४॥
भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये।
इह लोके श्रियं भुक्त्वा देहान्ते मुक्तिमाप्नुयात् ॥ ४५॥
इति श्रीरुद्रयामले तन्त्रे श्रीदेविरहस्ये
वज्रपञ्जराख्यसूर्यकवचनिरूपणं त्रयस्त्रिंशः पटलः ॥ ३३ ॥
Surya kavacha is attributed to Rudrayamala and quoted in Devirahasya
Encoded by Mike Magee
%Saturday, July 22, 2000 5:14 AM
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Surya Kavacha ( By Bhairava ) Lyrics in Devanagari PDF
% File name : suuryakavach.itx
% Category : kavacha
% Location : doc\_z\_misc\_navagraha
% Author : Traditional
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Mike Magee mike.magee at theregister.co.uk
% Proofread by : Mike Magee mike.magee at theregister.co.uk
% Latest update : August 23, 2000
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website