श्री गणेशाय नमः । अहल्योवाचः । अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्‍जसंल्लग्नरजः कणादहम् । स्पृशामि यत्पद्मजशङ्करादिभिर्विमृग्यते रन्धितमानसैः सदा ॥ १॥ अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् । चलस्यजस्रं चरणादिवर्जितः सम्पूर्ण आनन्दमयोऽतिमायिकः ॥ २॥ यत्पादपङ्कजपरागपवित्रगात्रा भागीरथी भवविरिञ्‍चिमुखान्पुनाति । साक्षात्स एव मम दृग्विषयो यदाऽऽस्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ३॥ मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम् । धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान्भजिष्ये ॥ ४॥ यत्पादपङ्करजःश्रुतिभिर्विमृग्यं यन्नभिपङ्कजभवः कमलासनश्च । यन्नामसाररसिको भगवान्पुरारिस्तं रामचन्द्रमनिशं हृदि भावयामि ॥ ५॥ यस्यावतारचरितानि विरिञ्‍चिलोके गायन्ति नारदमुखा भवपद्मजाद्माः । आनन्दजाश्रुपरिषिक्‍तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये ॥ ६॥ सोऽयं परात्मा पुरुषः पुराण एषः स्वयंज्योतिरनन्त आद्यः । मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष रामः ॥ ७॥ अयं हि विश्वोद्भवसंयमानामेकः स्वमायागुणबिम्बितो यः । विरिञ्‍चिविष्ण्वीश्वरनामभेदान् धत्ते स्वतन्‍त्रः परिपूर्ण आत्मा ॥ ८॥ नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजं श्रिया धृतं वक्षसि लालितं प्रियात् । आक्रान्तमेकेन जगत्त्रयं पुरा ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥ ९॥ जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः । सर्वभूतेष्वसंयुक्‍त एको भाति भवान्परः ॥ १०॥ ॐकारवाच्यस्त्वं राम वाचामविषयः पुमान् । वाच्यवाचकभेदेन भवानेव जगन्मयः ॥ ११॥ कार्यकारणकर्तृत्वसफलसाधनभेदतः । एको विभासि राम त्वं मायया बहुरूपया ॥ १२॥ त्वन्मायामोहितधियस्त्वां न जानन्ति तत्वतः । मानुषं त्वाऽभिमन्यन्ते मायिनं परमेश्वरम् ॥ १३॥ आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः । असङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥ १४॥ योषिन्मूढाहमज्ञा ते तत्वं जाने कथं विभो । तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥ १५॥ देव मे यत्रकुत्रापि स्थिताया अपि सर्वदा । त्वत्पादकमले सक्‍ता भक्‍तिरेव सदाऽस्तु मे ॥ १६॥ नमस्ते पुरुषाध्यक्ष नमस्ते भक्‍तवत्सल । नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तु ते ॥ १७॥ भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम् । कनकरुचिरवस्त्रं रत्‍नवत्कुण्डलाढ्यं कमलविशदनेत्रं सानुजं राममीडे ॥ १८॥ स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् । परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् ॥ १९॥ अहल्यया कृतं स्तोत्रं यः पठेद्भक्‍तिसंयुतः । स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥ २०॥ पुत्राद्यर्थे पठेद्भक्‍त्या रामं हृदि निधाय च । संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् ॥ २१॥ सर्वान्कामानवाप्नोति रामचन्द्रप्रसादतः ॥ २२॥ ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धादरः । नित्यं स्तोत्रमिदं जपन्‍रघुपतिं भक्‍त्या हृदिस्थं स्मरन् ध्यायन् मुक्‍तिमुपैति किं पुनरसौ स्वाचारयुक्‍तो नरः ॥ २३॥ ॥ इति श्रीमदध्यात्मरामायणे अहल्याविरचितं रामचन्द्रस्तोत्रं सम्पूर्णम्॥ Proofread by Ravin Bhalekar ravibhalekar at hotmail.com % File name : ahalyaaraamstotra.itx % Text title : ahalyAkRitaM rAmastotram % Texttype : stotra % Author : ahalyA % Subject : philosophy/hinduism/religion % Transliterated by : WebD % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description/comments : adhyAtmarAmAyaNa % Latest update : January 05, 2005 % Send corrections to : sanskrit@cheerful.com This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.