श्री गणेशाय नमः । श्रीमहादेव उवाचः । नमोऽस्तु रामाय सशक्‍तिकाय नीलोत्पलश्यामलकोमलाय । किरीटहाराङ्गदभूषणाय सिंहासनस्थाय महाप्रभाय ॥ १॥ त्वमादिमध्यान्तविहीन एकः सृजस्यवस्यत्सि च लोकजातम् । स्वमायया तेन न लिप्यसे त्वं यत्स्वे मुखेऽजस्ररतोऽनवद्यः ॥ २॥ लीलां विधत्से गुणसंवृतस्त्वं प्रपन्नभक्‍तानुविधानहेतोः । नानावतारैः सुरमानुषाद्यैः प्रतीयसे ज्ञानिभिरेव नित्यम् ॥ ३॥ स्वांशेन लोकं सकलं विधाय तं बिभर्षि च त्वं तदधः फणीश्वरः । उपर्यधो भान्वनिलोडुपौषधीप्रवर्षरूपोऽवसि नैकधा जगत् ॥ ४॥ त्वमिह देहभृतां शिखिरूपः पचसि भक्‍तमशेषमजस्रम् । पवनमञ्‍चकरूपसहायो जगदखण्डमनेन बिभर्षि ॥ ५॥ चन्द्रसूर्यशिखिमध्यगतं यत्तेज ईश चिदशेषतनूनाम् । प्राभवत्तनुभृतामिह धैर्यं शौर्यमात्रमखिलं तव सत्त्वम् ॥ ६॥ त्वं विरिञ्‍चिशिवविष्णुविभेदात् कालकर्मशशिसूर्यविभागात् । वादिनां पृथगिवेश बिभासि ब्रह्म निश्चितमनन्यदिहैकम् ॥ ७॥ मत्स्यादिरूपेण यथा त्वमेकः श्रुतो पुराणेषु च लोकसिद्धः । तथैव सर्वं सदयद्विभागस्त्वमेव नान्यद्भवतो विभाति ॥ ८॥ यद्यत्समुत्पन्नमनन्तसृष्टावुत्पत्स्यते यच्च भवच्च यच्च । न दृश्यते स्थावरजङ्गमादौ त्वया विनाऽतः परतः परस्त्वम् ॥ ९॥ तत्वं न जानन्ति परात्मनस्ते जनः समस्तास्तव माययाऽतः । त्वद्भक्‍तसेवामलमानसानां विभाति तत्वं परमेकमैशम् ॥ १०॥ ब्रह्मादयस्ते न विदुः स्वरूपं चिदात्मतत्वं बहिरर्थभावाः । ततो बुधस्त्वामिदमेव रूपं भक्‍त्या भजन्मुक्‍तिमुपैत्यदुःखः ॥ ११॥ अहं भवन्नामगुणैः कृतार्थो वसामि काश्यामनिशं भवान्या । मुमूर्षमाणस्य विमुक्‍तयेऽहं दिशामि मन्‍त्रं तव रामनाम ॥ १२॥ इमं स्तवं नित्यमनन्यभक्‍त्या श्रृण्वन्ति गायन्ति लिखन्ति ये वै । ते सर्वसौख्यं परमं च लब्धा भवत्पदं यान्तु भवत्प्रसादात् ॥ १३॥ ॥ इति श्रीमदध्यात्मरामायणे श्रीमहादेवकृतं रामस्तोत्रं सम्पूर्णम् ॥ Proofread by Ravin Bhalekar ravibhalekar@hotmail.com % File name : mahaadevaraamastotra.itx % Text title : shrImahAdevakRitaM rAmastotram % Texttype : stotra % Author : mahaadeva % Subject : philosophy/hinduism/religion % Transliterated by : WebD % Proofread by : Ravin Bhalekar ravibhalekar@hotmail.com % Description/comments : adhyAtmarAmAyaNa % Latest update : January 05, 2005 % Send corrections to : sanskrit@cheerful.com This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.