श्रीरामस्तवराजः सनत्कुमारसंहितायाम्
{॥ श्रीरामस्तवराजः सनत्कुमारसंहितायाम् ॥}
अस्य श्रीरामचन्द्रस्तवराजस्तोत्रमन्त्रस्य सनत्कुमारऋषिः ।
श्रीरामो देवता । अनुष्टुप् छन्दः । सीता बीजम् । हनुमान् शक्तिः ।
श्रीरामप्रीत्यर्थे जपे विनियोगः ॥
सूत उवाच ।
सर्वशास्त्रार्थत्त्वज्ञं व्यासं सत्यवतीसुतम् ।
धर्मपुत्रः प्रहृष्टात्मा प्रत्युवाच मुनीश्वरम् ॥ १॥
युधिष्ठिर उवाच ।
भगवन्योगिनां श्रेष्ठ सर्वशास्त्रविशारद ।
किं तत्त्वं किं परं जाप्यं किं ध्यानं मुक्तिसाधनम् ॥ २॥
श्रोतुमिच्छामि तत्सर्वं ब्रूहि मे मुनिसत्तम ।
वेदव्यास उवाच ।
धर्मराज महाभाग शृणु वक्ष्यामि तत्त्वतः ॥ ३॥
यत्परं यद्गुणातीतं यज्ज्योतिरमलं शिवम् ।
तदेव परमं तत्त्वं कैवल्यपदकारणम् ॥ ४॥
श्रीरामेति परं जाप्यं तारकं ब्रह्मसञ्ज्ञकम् ।
ब्रह्महत्यादिपापघ्नमिति वेदविदो विदुः ॥ ५॥
श्रीराम रामेति जना ये जपन्ति च सर्वदा ।
तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः ॥ ६॥
स्तवराजं पुरा प्रोक्तं नारदेन च धीमता ।
तत्सर्वं सम्प्रवक्ष्यामि हरिध्यानपुरःसरम् ॥ ७॥
तापत्रयाग्निशमनं सर्वाघौघनिकृन्तनम् ।
दारिद्र्यदुःखशमनं सर्वसम्पत्करं शिवम् ॥ ८॥
विज्ञानफलदं दिव्यं मोक्षैकफलसाधनम् ।
नमस्कृत्य प्रवक्ष्यामि रामं कृष्णं जगन्मयम् ॥ ९॥
अयोध्यानगरे रम्ये रत्नमण्डपमध्यगे ।
स्मरेत्कल्पतरोर्मूले रत्नसिंहासनं शुभम् ॥ १०॥
तन्मध्येऽष्टदलं पद्मं नानारत्नैश्च वेष्टितम् ।
स्मरेन्मध्ये दाशरथिं सहस्रादित्यतेजसम् ॥ ११॥
पितुरङ्कगतं राममिन्द्रनीलमणिप्रभम् ।
कोमलाङ्गं विशालाक्षं विद्युद्वर्णाम्बरावृतम् ॥ १२॥
भानुकोटिप्रतीकाशं किरीटेन विराजितम् ।
रत्नग्रैवेयकेयूररत्नकुण्डलमण्डितम् ॥ १३॥
रत्नकङ्कणमञ्जीरकटिसूत्रैरलङ्कृतम् ।
श्रीवत्सकौस्तुभोरस्कं मुक्ताहारोपशोभितम् ॥ १४॥
दिव्यरत्नसमायुक्तमुद्रिकाभिलङ्कृतम् ।
राघवं द्विभुजं बालं राममीषत्स्मिताननम् ॥ १५॥
तुलसीकुन्दमन्दारपुष्पमाल्यैरलङ्कृतम् ।
कर्पूरागरुकस्तूरीदिव्यगन्धानुलेपनम् ॥ १६॥
योगशास्त्रेष्वभिरतं योगेशं योगदायकम् ।
सदा भरतसौमित्रिशत्रुघ्नैरुपशोभितम् ॥ १७॥
विद्याधरसुराधीशसिद्धगन्धर्वकिन्नरैः ।
योगीन्द्रैर्नारदाद्यैश्च स्तूयमानमहर्निशम् ॥ १८॥
विश्वामित्रवसिष्ठादिमुनिभिः परिसेवितम् ।
सनकादिमुनिश्रेष्ठैर्योगिवृन्दैश्च सेवितम् ॥ १९॥
रामं रघुवरं वीरं धनुर्वेदविशारदम् ।
मङ्गलायतनं देवं रामं राजीवलोचनम् ॥ २०॥
सर्वशास्त्रार्थतत्त्वज्ञमानन्दकरसुन्दरम् ।
कौसल्यानन्दनं रामं धनुर्बाणधरं हरिम् ॥ २१॥
एवं सञ्चिन्तयन्विष्णुं यज्ज्योतिरमलं विभुम् ।
प्रहृष्टमानसो भूत्वा मुनिवर्यः स नारदः ॥ २२॥
सर्वलोकहितार्थाय तुष्टाव रघुनन्दनम् ।
कृताञ्जलिपुटो भूत्वा चिन्तयन्नद्भुतं हरिम् ॥ २३॥
यदेकं यत्परं नित्यं यदनन्तं चिदात्मकम् ।
यदेकं व्यापकं लोके तद्रूपं चिन्तयाम्यहम् ॥ २४॥
विज्ञानहेतुं विमलायताक्षं प्रज्ञानरूपं स्वसुखैकहेतुम् ।
श्रीरामचन्द्रं हरिमादिदेवं परात्परं राममहं भजामि ॥ २५॥
कविं पुराणं पुरुषं पुरस्तात्सनातनं योगिनमीशितारम् ।
अणोरणीयांसमनन्तवीर्यं प्राणेश्वरं राममसौददर्श ॥ २६॥
नारद उवाच ।
नारायणं जगन्नाथमभिरामं जगत्पतिम् ।
कविं पुराणं वागीशं रामं दशरथात्मजम् ॥ २७॥
राजराजं रघुवरं कौसल्यानन्दवर्धनम् ।
भर्गं वरेण्यं विश्वेशं रघुनाथं जगद्गुरुम् ॥ २८॥
सत्यं सत्यप्रियं श्रेष्ठं जानकीवल्लभं विभुम् ।
सौमित्रिपूर्वजं शान्तं कामदं कमलेक्षणम् ॥ २९॥
आदित्यं रविमीशानं घृणिं सूर्यमनामयम् ।
आनन्दरूपिणं सौम्यं राघवं करुणामयम् ॥ ३०॥
जामदग्न्यं तपोमूर्तिं रामं परशुधारिणम् ।
वाक्पतिं वरदं वाच्यं श्रीपतिं पक्षिवाहनम् ॥ ३१॥
श्रीशार्ड़गधारिणं रामं चिन्मयानन्दविग्रहम् ।
हलधृग्विष्णुमीशानं बलरामं कृपानिधिम् ॥ ३२॥
श्रीवल्लभं कृपानाथं जगन्मोहनमच्युतम् ।
मत्स्यकूर्मवराहादिरूपधारिणमव्ययम् ॥ ३३॥
वासुदेवं जगद्योनिमनादिनिधनं हरिम् ।
गोविन्दं गोपतिं विष्णुं गोपीजनमनोहरम् ॥ ३४॥
गोगोपालपरीवारं गोपकन्यासमावृतम् ।
विद्युत्पुञ्जप्रतीकाशं रामं कृष्णं जगन्मयम् ॥ ३५॥
गोगोपिकासमाकीर्णं वेणुवादनतत्परम् ।
कामरूपं कलावन्तं कामिनीकामदं विभुम् ॥ ३६॥
मन्मथं मथुरानाथं माधवं मकरध्वजम् ।
श्रीधरं श्रीकरं श्रीशं श्रीनिवासं परात्परम् ॥ ३७॥
भूतेशं भूपतिं भद्रं विभूतिं भूतिभूषणम् ।
सर्वदुःखहरं वीरं दुष्टदानववैरिणम् ॥ ३८॥
श्रीनृसिंहं महाबाहुं महान्तं दीप्ततेजसम् ।
चिदानन्दमयं नित्यं प्रणवं ज्योतिरूपिणम् ॥ ३९॥
आदित्यमण्डलगतं निश्चितार्थस्वरूपिणम् ।
भक्तप्रियं पद्मनेत्रं भक्तानामीप्सितप्रदम् ॥ ४०॥
कौसल्येयं कलामूर्तिं काकुत्स्थं कमलाप्रियम् ।
सिंहासने समासीनं नित्यव्रतमकल्मषम् ॥ ४१॥
विश्वामित्रप्रियं दान्तं स्वदारनियतव्रतम् ।
यज्ञेशं यज्ञपुरुषं यज्ञपालनतत्परम् ॥ ४२॥
सत्यसन्धं जितक्रोधं शरणागतवत्सलम् ।
सर्वक्लेशापहरणं विभीषणवरप्रदम् ॥ ४३॥
दशग्रीवहरं रौद्रं केशवं केशिमर्दनम् ।
वालिप्रमथनं वीरं सुग्रीवेप्सितराज्यदम् ॥ ४४॥
नरवानरदेवैश्चसेवितं हनुमत्प्रियम् ।
शुद्धं सूक्ष्मं परं शान्तं तारकाब्रह्मरूपिणम् ॥ ४५॥
सर्वभूतात्मभूतस्थं सर्वाधारं सनातनम् ।
सर्वकारणकर्तारं निदानं प्रकृतेः परम् ॥ ४६॥
निरामयं निराभासं निरवध्यं निरञ्जनम् ।
नित्यानन्दं निराकारमद्वैतं तमसः परम् ॥ ४७॥
परात्परतरं तत्त्वं सत्यानन्दं चिदात्मकम् ।
मनसा शिरसा नित्यं प्रणमामि रघूत्तमम् ॥ ४८॥
सूर्यमण्डलमध्यस्थं रामं सीतासमन्वितम् ।
नमामि पुण्डरीकाक्षममेयं गुरुतत्परम् ॥ ४९॥
नमोऽस्तु वासुदेवाय ज्योतिषां पतये नमः ।
नमोऽस्तु रामदेवाय जगदानन्दरूपिणे ॥ ५०॥
नमो वेदान्तनिष्ठाय योगिने ब्रह्मवादिने ।
मायामयनिरासाय प्रपन्नजनसेविने ॥ ५१॥
वन्दामहे महेशानचण्डकोदण्डखण्डनम् ।
जानकीहृदयानन्दवर्धनं रघुनन्दनम् ॥ ५२॥
उत्फुल्लामलकोमलोत्पलदलश्यामाय रामाय ते
कामाय प्रमदामनोहरगुणग्रामाय रामात्मने ।
योगारूढमुनीन्द्रमानससरोहंसाय संसारविध्वंसाय
स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ॥ ५३॥
भवोद्भवं वेदविदां वरिष्ठमादित्यचन्द्रानलसुप्रभावम् ।
सर्वात्मकं सर्वगतस्वरूपं नमामि रामं तमसः परस्तात् ॥ ५४॥
निरञ्जनं निःष्प्रतिमं निरीहं निराश्रयं निष्कलमप्रपञ्चम् ।
नित्यं ध्रुवं निर्विषयस्वरूपं निरन्तरं राममहं भजामि ॥ ५५॥
भवाब्धिपोतं भरताग्रजं तं भक्तप्रियं भानुकुलप्रदीपम् ।
भूतत्रिनाथं भुवनाधिपं तं भजामि रामं भवरोगवैद्यम् ॥ ५६॥
सर्वाधिपत्यं समराङ्गधीरं सत्यं चिदानन्दमयस्वरूपम् ।
सत्यं शिवं शान्तिमयं शरण्यं सनातनं राममहं भजामि ॥ ५७॥
कार्यक्रियाकारणमप्रमेयं कविं पुराणं कमलायताक्षम् ।
कुमारवेद्यं करुणामयं तं कल्पद्रुमं राममहं भजामि ॥ ५८॥
त्रैलोक्यनाथं सरसीरुहाक्षं दयानिधिं द्वन्द्वविनाशहेतुम् ।
महाबलं वेदविधिं सुरेशं सनातनं राममहं भजामि ॥ ५९॥
वेदान्तवेद्यं कविमीशितारमनादिमध्यान्तमचिन्त्यमाद्यम् ।
अगोचरं निर्मलमेकरूपं नमामि रामं तमसः परस्तात् ॥ ६०॥
अशेषवेदात्मकमादिसञ्ज्ञमजं हरिं विष्णुमनन्तमाद्यम् ।
अपारसंवित्सुखमेकरूपं परात्परं राममहं भजामि ॥ ६१॥
तत्त्वस्वरूपं पुरुषं पुराणं स्वतेजसा पूरितविश्वमेकम् ।
राजाधिराजं रविमण्डलस्थं विश्वेश्वरं राममहं भजामि ॥ ६२॥
लोकाभिरामं रघुवंशनाथं हरिं चिदानन्दमयं मुकुन्दम् ।
अशेषविद्याधिपतिं कवीन्द्रं नमामि रामं तमसः परस्तात् ॥ ६३॥
योगीन्द्रसङ्घैश्च सुसेव्यमानं नारायणं निर्मलमादिदेवम् ।
नतोऽस्मि नित्यं जगदेकनाथमादित्यवर्णं तमसः परस्तात् ॥ ६४॥
विभूतिदं विश्वसृजं विरामं राजेन्द्रमीशं रघुवंशनाथम् ।
अचिन्त्यमव्यक्तमनन्तमूर्तिं ज्योतिर्मयं राममहं भजामि ॥ ६५॥
अशेषसंसारविहारहीनमादित्यगं पूर्णसुखाभिरामम् ।
समस्तसाक्षिं तमसः परस्तान्नारायणं विष्णुमहं भजामि ॥ ६६॥
मुनीन्द्रगुह्यं परिपूर्णकामं कलानिधिं कल्मषनाशहेतुम् ।
परात्परं यत्परमं पवित्रं नमामि रामं महतो महान्तम् ॥ ६७॥
ब्रह्मा विष्णुश्च रुद्रश्च देवेन्द्रो देवतास्तथा ।
आदित्यादिग्रहाश्चैव त्वमेव रघुनन्दन ॥ ६८॥
तापसा ऋषयः सिद्धाः साध्याश्च मरुतस्तथा ।
विप्रा वेदास्तथा यज्ञाः पुराणधर्मसंहिताः ॥ ६९॥
वर्णाश्रमास्तथा धर्मा वर्णधर्मास्तथैव च ।
यक्षराक्षसगन्धर्वादिक्पाला दिग्गजादयः ॥ ७०॥
सनकादिमुनिश्रेष्ठास्त्वमेव रघुपुङ्गव ।
वसवोऽष्टौ त्रयः काला रुद्रा एकादश स्मृताः ॥ ७१॥
तारका दश दिक् चैव त्वमेव रघुनन्दन ।
सप्तद्वीपाः समुद्राश्च नगा नद्यस्तथा द्रुमाः ॥ ७२॥
स्थावरा जङ्गमाश्चैव त्वमेव रघुनायक ।
देवतिर्यड़मनुष्याणां दानवानां तथैव च ॥ ७३॥
माता पिता तथा भ्राता त्वमेव रघुवल्लभ ।
सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ ७४॥
त्वमक्षरं परं ज्योतिस्त्वमेव पुरुषोत्तम ।
त्वमेव तारकं ब्रह्म त्वत्तोऽन्यन्नैव किञ्चन ॥ ७५॥
शान्तं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् ।
राजीवलोचनं रामं प्रणमामि जगत्पतिम् ॥ ७६॥
व्यास उवाच ।
ततः प्रसन्नः श्रीरामः प्रोवाच मुनिपुङ्गवम् ।
तुष्टोऽस्मि मुनिशार्दूल वृणीष्व वरमुत्तमम् ॥ ७७॥
नारद उवाच ।
यदि तुष्टोऽसि सर्वज्ञ श्रीराम करुणानिधे ।
त्वन्मूर्तिदर्शनेनैव कृतार्थोऽहं च सर्वदा ॥ ७८॥
धन्योऽहं कृतकृत्योऽहं पुण्योऽहं पुरुषोत्तम ।
अद्य मे सफलं जन्म जीवितं सफलं च मे ॥ ७९॥
अद्य मे सफलं ज्ञानमद्य मे सफलं तपः ।
अद्य मे सफलं कर्म त्वत्पादाम्भोजदर्शनात् ।
अद्य मे सफलं सर्वं त्वन्नामस्मरणं तथा ॥ ८०॥
त्वत्पादाम्भोरुहद्वन्द्वसद्भक्तिं देहि राघव ।
ततः परमसम्प्रीतः स रामः प्राह नारदम् ॥ ८१॥
श्रीराम उवाच ।
मुनिवर्य महाभाग मुनेत्विष्टं ददामि ते ।
यत्त्वया चेप्सितं सर्व मनसा तद्भविष्यति ॥ ८२॥
नारद उवाच ।
वरं न याचे रघुनाथ युष्मत्पदाब्जभक्तिः सततं ममास्तु ।
इदं प्रियं नाथ वरं हि याचे पुनःपुनस्त्वामिदमेव याचे ॥ ८३॥
व्यास उवाच ।
इत्येवमीडितो रामः प्रादात्तस्मै वरान्तरम् ।
वीरो रामो महातेजाः सच्चिदानन्दविग्रहः ॥ ८४॥
अद्वैतममलं ज्ञानं स्वनामस्मरणं तथा ।
अन्तर्दधौ जगन्नाथः पुरतस्तस्य राघवः ॥ ८५॥
इति श्रीरघुनाथस्य स्तवराजमनुत्तमम् ।
सर्वसौभाग्यसम्पत्तिदायकं मुक्तिदं शुभम् ॥ ८६॥
कथितं ब्रह्मपुत्रेण वेदानां सारमुत्तमम् ।
गुह्याद्गुह्यतमं दिव्यं तव स्नेहात्प्रकीर्तितम् ॥ ८७॥
यः पठेच्छृणुयाद्वापि त्रिसन्ध्यं श्रद्धयान्वितः ।
ब्रह्महत्यादिपापानि तत्समानि बहूनि च ॥ ८८॥
स्वर्णस्तेयं सुरापानं गुरुतल्पगतिस्तथा ।
गोवधाद्युपपापानि अनृतात्सम्भवानि च ॥ ८९॥
सर्वैः प्रमुच्यते पापैः कल्पायुतशतोद्भवैः ।
मानसं वाचिकं पापं कर्मणा समुपार्जितम् ॥ ९०॥
श्रीरामस्मरणेनैव तत्क्षणान्नश्यति ध्रुवम् ।
इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते ॥ ९१॥
रामं सत्यं परं ब्रह्म रामात्किञ्चिन्न विद्यते ।
तस्माद्रामस्वरूपं हि सत्यं सत्यमिदं जगत् ॥ ९२॥
श्रीरामचन्द्र रघुपुङ्गव राजवर्य
रजेन्द्र राम रघुनायक राघवेश ।
राजाधिराज रघुनन्दन रामचन्द्र
दासोऽहमद्यभवतः शरणागतोऽस्मि ॥ ९३॥
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये
पुष्पकृतासने मणिमये वीरासने संस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनीन्द्रैः परं
व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ९४॥
रामं रत्नकिरीटकुण्डलयुतं केयूरहारान्वितं
सीतालङ्कृतवामभागममलं सिंहासनस्थं विभुम् ।
सुग्रीवादिहरीश्वरैः सुरगणैः संसेव्यमानं सदा
विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं प्रभुम् ॥ ९५॥
सकलगुणनिधानं योगिभिः स्तूयमानं
भुजविजितसमानं राक्षसेन्द्रादिमानम् ।
महितनृपभयानं सीताया शोभमानं
स्मर हृदय विमानं ब्रह्म रामाभिधानम् ॥ ९६॥
रघुवर तव मूर्तिर्मामके मानसाब्जे
नरकगतिहरं ते नामधेयं मुखे मे ।
अनिशमतुलभक्त्या मस्तकं त्वत्पादाब्जे
भवजलनिधिमग्नं रक्षमामार्तबन्धो ॥ ९७॥
रामरत्नमहं वन्दे चित्रकूटपतिं हरिम् ।
कौसल्याभक्तिसम्भूतं जानकीकण्ठभूषणम् ॥ ९८॥
इति श्रीसनत्कुमारसंहितायां नारदोक्तं श्रीरामस्तवराजस्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by Madhavi U mupadrasta at gmail.com
Please send corrections to sanskrit@cheerful.com
Last updated त्oday
http://sanskritdocuments.org

Rama Stavaraja Lyrics in Devanagari PDF
% File name : rAmastavarAjastotra.itx
% Category : stavarAja
% Location : doc\_raama
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Madhavi U mupadrasta at gmail.com
% Proofread by : Madhavi U mupadrasta at gmail.com
% Description-comments : sanatkumArasaMhitAyAM nAradoktam
% Latest update : June 23, 2012
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website