श्री गणेशाय नमः ॥ ओमिति ज्ञानमात्रेण रोगाजीर्णेन निर्जिता । कालनिद्रां प्रपन्नोऽस्मि त्राहि मां मधुसूदन ॥ १॥ न गतिर्विद्यते चान्या त्वमेव शरणं मम । पापपङ्के निमग्नोस्मि त्राहि मां मधुसूदन ॥ २॥ मोहितो मोहजालेन पुत्रदारगृहादिषु । तृष्णया पीड्यमानोऽस्मि त्राहि मां मधुसूदन ॥ ३॥ भक्तिहीनं च दीनं च दुःखशोकातुरं प्रभो । अनाश्रयमनाथं च त्राहि मां मधुसूदन ॥ ४॥ गतागतेनश्रान्तोस्मि दीर्घसंसारवत्मर्स्तु । येन भूयो न गच्छामि त्राहि मां मधुसूदन ॥ ५॥ वहवो हि मया दृष्टाः क्लेशाश्चैव पृथक् पृथक् । गर्भवासे महद्दुःखं त्राहि मां मधुसूदन ॥ ६॥ तेन देव प्रपन्नोस्मि त्राणार्थं त्वत्परायणः । दुःखार्णवपरित्राणात् त्राहि मां मधुसूदन ॥ ७॥ वाचा यच्च प्रतिज्ञातं कर्मणा तोपपादितम् । तत्पापार्जितमग्नोस्मि त्राहि मां मधुसूदन ॥ ८॥ सुकृतं न कृतं किञ्चिद्दुष्कृतं च कृतं मया । संसारघोरे मग्नोस्मि त्राहि मां मधुसूदन ॥ ९॥ देहान्तरसहस्त्रेषु चान्योन्यभ्रामितो मया । तिर्यक्त्वं मानुष्त्वं च त्राहि मां मधुसूदन ॥ १०॥ वाचयामि यथोन्मत्तः प्रलपामि तवाग्रतः । जरामरणभीतोस्मि त्राहि मां मधुसूदन ॥ ११॥ यत्र यत्र च यातोस्मि स्त्रीषु वा पुरुषेषु च । तत्र तत्राचला भक्तिस्त्राहि मां मधुसूदन ॥ १२॥ गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः । अद्यापि न निबर्त्तन्ते द्वादशाक्षरचिन्तकाः ॥ १३॥ ऊर्ध्वपातालमर्त्येषु व्याप्तं लोकं जगत्त्रयम् । द्वादशाक्षरात्परं नास्ति वासुदेवेन भाषितम् ॥ १४॥ द्वादशाक्षरं महामन्त्रं सर्वकामफलप्रदम् । गर्भवासनिवासेन शुकेन परिभाषितम् ॥ १५॥ द्वादशाक्षरं निराहारो यः यः पठेधरिवासरे । स गच्छेद्वैष्णवस्थानं यत्र योगेश्वरो हरिः ॥ १६॥ इति श्रीशुकदेवविरचितं मधुसूदनस्तोत्रं संपूर्णम् ॥ Encoded and proofread by Sanjay Rath srath at srath.com % File name : madhusudana.itx % Text title : madhusUdanastotram % SubDeity : krishna % Texttype : stotra % Author : shukadeva % Subject : philosophy/hinduism/religion % Transliterated by : Sanjay Rath srath@srath.com % Proofread by : Sanjay Rath srath@srath.com % Description/comments : % Latest update : % Send corrections to : Sanskrit@cheerful.com This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.